________________
१०८
काव्यमाला। तटगतासितरत्नविनिःसृतैरविरलैः परितो निकरै रुचाम् । इह कदाचनमेचकितत्विषो निजरुचिं न भजन्ति शरद्धनाः ॥ २९ ।। मानोन्मादव्यपनयचतुराश्चैत्रारम्भे विदधति मधुराः । यूनामस्मिन्घटितयुवतयो दूतीकृत्यं परभृतरुतयः ॥ ३० ॥ ध्वनन्नितम्बावनि तारमन्ते गीत्वा प्रियाणां वनिता रमन्ते ।
इहादृतेहेममही नभोगैनिषेव्यते काममहीनभोगैः ॥ ३१ ॥ व्योम्ना यातः पत्रिणोऽत्र प्रविष्टं रत्नक्षोण्यां वन्यमार्जारपोतः । बिम्ब लौल्ये नानुबध्नान दत्ते दिव्यस्त्रीणां गन्तुमन्यत्र दृष्टेः ॥ ३२ ॥ अयं मुनिघनोऽधनोदनसहः सहस्तिमचरोऽमरोचिततटः । सुराद्रिसदृशो दृशोऽम्बरसदा सदाञ्चितविभो विभो रमयते ॥ ३३ ॥
नीलोपलोल्लसितलोलमरीचिजाल
सान्द्रीकृतान्धतमसेष्विव गहरेषु । क्रीडातिरोहिततनूर्युवतीः पतीनां
तच्छाससङ्गसुरभिर्विवृणोति वायुः ॥ ३४ ॥ . तीरेष्वेताः कुसुमितवानीरालीरालीनालीरनिलरयोद्भूतान्ताः । तान्ता घभैरविरतमूलापातीः पातीहायं प्रसृतनदीनीरौघः ॥ ३५ ॥ घातिनिर्मथनलब्धकेवला योगिनोऽत्र परिनिर्विवासवः । कुर्वते प्रतरपूरणादिभिः कर्मणां समबलत्वमायुषा ।। ३६ ।। शिखरमणिशिलानां शाखिशाखान्तरालैः
प्रसृतरविकराणामुल्लसन्रोचिरोधः । तडिदनुकृतिकारी शङ्किताम्भोदकाला
न्मदयितुमलमस्मिन्नीलकण्ठानकाले ॥ ३७ ॥ तटरुहकुटजावनीरुहाणामतिमहतीषु शिखासु सक्तबिम्बः । जनयति रजनीषु तारकाणामिह कुसुमस्तबकश्रियं समूहः ॥३८॥ निकरै रुचां तिमिरहानिकरैरमितै रवेवियदपारमितैः । विहतैः स्फुरन्मणिरुचाविह तै रजनीष्विव ग्रहपतेरजनि ॥ ३९ ॥