________________
बुद्धिसागरः
[मूल] महान्तोऽपि विनश्यन्ति परस्त्रीसङ्गलोलुपाः।
महदैश्वर्ययुक्ता हि विनष्टा रावणादयः॥४१॥(१.४१) (अन्वयः) परस्त्रीसङ्गलोलुपाः महान्तः अपि विनश्यन्ति, महदैश्वर्ययुक्ता रावणादयः हि विनष्टाः। (अर्थः) परस्त्री के संग में आसक्त हुवे ऐसे महान(बडे)पुरुषों का भी विनाश होता है। जैसे महान ऐश्वर्य(शक्ति,
सम्पत्ति) से युक्त रावण आदि भी नष्ट हुवे। [मूल] स पण्डितः स गुणवान् सतां पूज्यः स एव हि।
अहो जगज्जितं तेन यः परस्त्रीपराङ्मुखः॥४२॥(१.४२) (अन्वयः) यः परस्त्रीपराङ्मुखः स पण्डितः, स गुणवान्, स एव हि सतां पूज्यः, अहो तेन जगज्जितम्। (अर्थः) जो परस्त्री से विमुख है, वह पंडित है, वह गुणवान है, वह ही सज्जनों में पूज्य है। अहो (क्या बताए)
उसके द्वारा जग जिता गया।
अथ परिग्रहः। [मूल| गृहव्यापारनिरतैः परलोकहितेप्सुभिः।
जीवद्रोहो भवेद्येन न स कार्यः परिग्रहः॥४३॥(१.४३) (अन्वयः) गृहव्यापारनिरतैः परलोकहितेप्सुभिः स परिग्रहः न कार्यः येन जीवद्रोहः भवेत्। (अर्थः) घर के व्यापार(कार्य)में रत,(और)परलोक के हित की इच्छा वाला वह परिग्रह(धनसङ्ग्रह) न करे
जिससे जीव का द्रोह हो। [मूल] चित्तं नैकान्ततामेति यस्माद् भूरिपरिग्रहैः।
चतुर्वर्गफलं नृणां चले चित्ते न सिद्ध्यति॥४४॥(१.४४) (अन्वयः) यस्माद् भूरिपरिग्रहैः चित्तम् एकान्ततां न एति, चले चित्ते नृणां चतुर्वर्गफलं न सिद्ध्यति। (अर्थः) जिस बहुत परिग्रह के द्वारा चित्त एकान्त(स्थिरता) में नहि आता है, चंचल चित्त में मनुष्य को
चतुर्वर्ग का फल सिद्ध नहि होता है। [मूल] बहुलाभेऽपि तृष्णायाः समाप्तिर्नैव दृश्यते।
अतस्तां सम्परित्यज्य भवेत्सन्तोषवान् सुखी॥४५॥(१.४५) (अन्वयः) बहुलाभे अपि तृष्णायाः समाप्तिः न एव दृश्यते, अतः तां सम्परित्यज्य सन्तोषवान् सुखी भवेत्।। (अर्थः) बहुत लाभ से भी इच्छा की समाप्ति(तृप्ति) नहि दिखती है (होती है) इसिलिए उसका अच्छी तरह से
त्याग करके सन्तोषी और सुखी हो।