________________
बुद्धिसागरः
सामुद्रिकसारः। [मूल] विनापि जन्मसमयमुदर्कफलसूचकम्।
सामुद्रिकं यतस्तस्मात्तत्सारं किञ्चिदुच्यते॥३३५॥(४.७०) (अन्वयः) यतः विना अपि जन्मसमयम्, उदर्कफलसूचकम्, सामुद्रिकं तस्मात् तत् सारं किञ्चित् उच्यते। (अर्थः) सामुद्रिक शास्त्र जन्म के समय के बिना भी भविष्य कथन करता है अतः उसका कुछ सार कहा
जाता है। [मूल) पाणिपादतले पद्मं ध्वजो मत्स्यस्तथाऽङ्कुशः।
छत्रं वा दृश्यते यस्य स नरो भूपतिर्भवेत्॥३३६॥(४.७१) (अन्वयः) यस्य पाणिपादतले पद्मम्, ध्वजः, मत्स्यः, अङ्कुशः तथा छत्रं वा दृश्यते, स नर: भूपतिः भवेत्। (अर्थः) जिसके हाथ और पैर के तलवे पर कमल, ध्वज, मच्छी, अंकुश या छत्र दिखता है वह पुरुष पृथ्वी
का पति होता है। [मूल स्वरः सत्त्वं तथा नाभिर्गभीरं शस्यते त्रयम्।
विपुलं तथा सद्भिर्वक्षोभालकराननम्॥३३७॥(४.७२) (अन्वयः) स्वरः सत्त्वं तथा नाभिः त्रयं गभीरं शस्यते, तथा सद्भिः वक्षः भालकराननं विपुलम्। (अर्थः) शरीर में स्वर, सत्त्व और नाभि यह तीन गहरे हो तो शुभ माने जाते है और छाती, ललाट, हाथ और
मुख बडे हो तो शुभ गिने जाते हैं। जङ्घाद्वयं तथा पृष्ठं कण्ठं पुंश्चिह्नमेव च।
यस्यैतानि च ह्रस्वानि स नरो भाग्यवान् भवेत्॥३३८॥(४.७३) (अन्वयः) यस्य जङ्घाद्वयम्, पृष्ट(ष्ठ)म्, कण्ठम्, पुंश्चिह्नम् एव च एतानि ह्रस्वानि स नरः भाग्यवान् भवेत्। (अर्थः) जिस पुरुष के दो जंघा, पीठ का पिछला भाग, कंठ, पुरुषचिह्न ये सब छोटे हो वह भाग्यवान होता
[मूल]
[मूल] अक्षिणी च भ्रुवोर्मध्यं स्तनमध्यं तथा हनुः।
एतानि यस्य दीर्घाणि स सदा सेव्यते श्रिया॥३३९॥(४.७४) (अन्वयः) यस्य अक्षिणी, भ्रुवोः मध्यम्, स्तनमध्यम् च तथा हनुः एतानि दीर्घाणि स सदा श्रिया सेव्यते। (अर्थः) जिसके आँखे, दो भ्रकूटी का मध्य भाग, दो स्तनों का मध्य भाग और ठोडी यह सब दीर्घ है, वह
सदा लक्ष्मी के द्वारा सेवन किया जाता है। [मूल] नखताल्वधरापाङ्गजिह्वाकरतलादिषु।
रक्तत्वं दृश्यते यस्य स पुमान् पुरुषोत्तमः॥३४०॥(४.७५)