Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
२२]
भुवनेश्वरीमहास्तोत्रम् करं कुमुदाकरं कमलिनीपत्रं कलाकौशलं.
कूजत्कोकिलकामिनीकुलकुहूकल्लोलकोलाहलम् । शङ्कन्ते प्रलयानलस्मरमहापस्मारवेगातुराः .
कम्पन्ते निपतन्ति हन्त न गिरं मुञ्चन्ति शोचन्ति च ॥३२॥ य इति-हे अम्ब ! यः पुमान् त्वां रागसागरतरत्सिन्दूरनौकान्तरस्वैरोज्जागरपद्मरागनलिनीपुष्पासनाध्यासिनी रागसागरे शोणसमुद्रे तरन्ती या सिन्दूरनौका तस्याः अन्तरे मध्ये स्वैरं स्वेच्छया उज्जागरं विकसितं यत्पद्मरागसदृशं नलिनीपुष्पं कमलिनीकुसुमं तदेवासनं अध्यास्ते इति तथा तां एवंविधां त्वां यो ध्यायति तस्य पुरुषस्य अङ्गनाः सुन्दर्यः स्मरन्त्यः सत्यः' कर्पूरं शङ्कन्ते न केवलं. कर्पूरमेव निन्दन्ति किं च कुमुदाकरं कुमुदश्रेणी किं तदेव कमलिनीपत्रं पुनः किं कलाकौशलं कलानां नैपुण्यं न केवलमिदमेव किं च कूजत्कोकिलकामिनीकुलकुहूकल्लोलकोलाहलं कूजत् अव्यक्तशब्दायमानं यत्कोकिलकामिनीकुलं कलकण्ठीवृन्दं तस्य यः कुहूकल्लोलकोलाहलः, कुहूशब्दोचारेण भवत्पुनः पुनः पुनारायः तं अङ्गनाः पुनः किं कुर्वन्ति ..... प्रलयानलस्मरमहापस्मारवेगाकुलाः' कम्पन्ते प्रलयकालीनो यः अनलो वैश्वानरः । स एव स्मरः तस्य यो महापस्मारसदृशो वेगः तेन आतुराः पीडिताः सत्यो वेपथु कुर्वन्ति, हन्त इति खेदे निपतन्ति च निःशेषेण वसुन्धरायां पतन्ति पुनर्गिरं वाचं न मुश्चन्ति नोंदीरयन्ति च पुनर्लब्धसंज्ञाः सत्यः शोचन्ति स न मिलित इति कारणात् अन्योपि योपस्मारवेगातुरो भवति सः कम्पते निपतति गिरं न मुञ्चति पुनश्च लब्धसंज्ञो भूत्वा किमिदमेनो मया कृतमिति येन ममापस्मारसदृशो व्याधिरुत्पन्न इति । किम्भूताः अङ्गनाः बालादित्यसपत्नरतरुचिरप्रत्यङ्गभूषारुचिश्रेणीसम्मिलिताङ्गरागव-- . .. सनाः बालादित्यसपत्नानि तेनारुण किरणांकुरनिकरैः वालादित्यं प्रथममुदयंकुर्वाणं ..... रविं सपत्नयन्ति' द्विपन्ति इति वालादित्यसपत्नानि यानि रत्नानि तैः रचिताः निर्मिताः याः प्रत्यङ्गभूपाः सकलाङ्गनाः १ तासां या रुचयः श्रेण्यः१२ कान्तिपंक्तयः ताभिः सम्मिलितानि मिश्राणि अङ्गरागवसनानि" यासां ताः तथा ॥ ३२॥ .....
१. ख, कमलिनीपुप्पं । २. तं प्राप्नुवन्तीत्यर्थः 'किम्भूताः अङ्गानाः बालादित्य "वसनाः...' __ तदनेऽवलोकनीयम् । ३. ख. निन्दन्ति । ४. ख. कुहूशब्दोच्चारणेन । ... ५. ख. वेगातुराः। ६. ग. अग्निः । ७. ख. ग. वसुधां यान्ति । ८. ख. शोचति । १. ग. निजारुण । १०. ख. सपन्ति । ११. ख. ग. सकलाङ्गशोभाः । ५२. ख. ग. रुचिश्रेण्यः १३. ख. कान्तिपरम्पराः । १४. ख. ग. संवलितानि । १५. ख. ग. अङ्गरागो वसनानि च । . ... १६. ख, तस्येति कर्मणि पष्टी। ग. यद् वा द्वितीया प्रथमान्तत्वे देव्याः विशेषणम् ।
Loading... Page Navigation 1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207