Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
[१५५
लघुसप्तशतीस्तोत्रम् पाथोधिनाथतनयापतिरेष शेषपर्यङ्कलालितवपुः पुरुषः पुराणः । त्वन्मोहपाशविवशो जगदम्ब ! सोऽपि व्याघूर्णमाननयनः शयनञ्चकार ॥२॥ त्वत्कौतुकं जननि ! यस्य जनार्दनस्य कर्णप्रसूतमलजौ मधुकैटभाख्यो । तस्यापि यौ न भवतः सुलभौ निहन्तुं त्वन्मायया विकलितौ विलयं गतौ तौ ॥ ३ ॥ यन्माहिषं वपुरपूर्वबलोपपन्नं यन्नाकनायकपराक्रमजित्वरञ्च । यल्लोकशोकजननव्रतबद्धहार्द . तल्लीलयैव दलितं गिरिजे ! भवत्या ॥४॥ यो धूम्रलोचन इति प्रथितः पृधिव्यां' भस्मीबभूव चरणे तव हुकृतेन । सर्वासुरक्षयकृते गिरिराजकन्ये ! मन्ये स्वमन्युदहने कृत एष होमः ॥ ५॥ केषामपि त्रिदशनायकपूर्वकाणां जेतुं न जातु सुलभावपि चण्डमुण्डौ । तौ दुर्मदी सपदि शम्बरतुल्यमूर्ती' मातस्तवासिकुलिशात्पतितौ विशीर्षों ॥६॥ दौत्येन ते शिव इति प्रथितप्रभावो देवोऽपि दानवपतेः सदनं जगाम ।
.. १.. - ख. प्रथितप्रभावो।
ख. दू[ दौ] व्ये च ।
२. ख, समरे।
३. ख. चाम्बरतुख्यमूर्ते ।
Loading... Page Navigation 1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207