Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 191
________________ [ १५७ . लघुसप्तशतीस्तोत्रम् यद्वारुणात्परमिदं जगदम्ब ! यस्ते' बीजं स्मरेदनुदिनं दहनाधिरूढम् । मायाङ्कितं तिलकितं तरुणेन्दुबिन्दुनादैरमन्दमिह राज्यमसौ भुनक्ति ॥ १३ ॥ अन्तः स्थिताप्यखिलजन्तुषु तन्तुरूपा विद्योतसे बहिरिहाखिलविश्वरूपा। का भूरि शब्दरचना वचनातिगासि दीनं जनं जननि ! मामव निःप्रपञ्चम् ॥ १४॥ . आवाहनं यजनवर्णनमग्निहोनं कार्पणं त्वयि विसर्जनमत्र देवि ! मोहान्मया कृतमिदं सकलापराधं मातः क्षमस्व वरदे ! बहिरन्तरस्थे ! ॥ १५ ॥ एतत्पठेदनुदिनं दनुजान्तकारि चण्डीचरित्रमतुलं भुवि यस्त्रिकालम् । श्रीमान् सुखी स विजयी सुभगः क्षमः स्यात् त्यागी चिरन्तनवपुः कविचक्रवर्ती ॥१६॥ श्रीसिद्धनाथापरनामधेयः श्रीशम्भुनाथो भुवनैकनाथः । तस्य प्रसादात् सकलागमाञ्च . पृथ्वीधरः स्तोत्रमिदं चकार * ॥१७॥ १. ख. सोऽपि। २. ख. सदा । ३. . स्व. क्षमी। ४. ख. यः शम्भुनाथो। ५. ख. सुलभागमश्रीः । * ख, पुस्तके एतावान् पाठस्त्वधिकः-- "प्रथमा विष्णुमाया च द्वितीया चेतना तथा । बुद्धिनिद्रा क्षुधाच्छाया शक्तिस्तृष्णात्तथाष्टमी ।। १८ ।। ........ शान्तिर्जातिस्तथा लज्जा शान्तिः श्रद्धा च कान्तिका । लक्ष्मीवृत्तिः स्मृतिश्चैव दया दीप्तिस्तथैव च ॥ १ ॥

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207