Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 190
________________ पृथ्वीधराचार्यप्रणीतं भूयोऽपि तस्य चरितं प्रथयाञ्चकार सा त्वं प्रसीद शिवदूति विजृम्भितं ते ॥ ७ ॥ १५६ ] चित्रं तदेतदमरैरपि ये न जेयाः शस्त्राभिघातपतिताद्रुधिरादपर्णे ! भूमौ बभूवुरमिता: प्रतिरक्तबीजास्तेऽपि त्वयैव गिलिता गगने' समस्ताः ॥ ८ ॥ आश्चर्यमेतदखिलं यदसू सुरारी त्रैलोक्यवै भवविलुण्ठनपुष्टपाणी । शस्त्रैर्निहत्य भुवि शुम्भ निशुम्भसंज्ञी' नीती त्वया जननि । तावपि नाकलोकम् ॥ ६ ॥ त्वत्तेजसि प्रलयकाल हुताशनेऽस्मिन् यस्मिन् प्रयान्ति विलयं भुवनानि सद्यः । तस्मिन्निपत्य शलभा इव दानवेन्द्रा भस्मीभवन्ति हि भवानि ! किमत्र चित्रम् ॥ १० ॥ तत् किं गृणामि भवती भवतीव्रतापनिर्वापणप्रणयिनी' प्रणमज्जनेषु । तत् किं गृणामि भवती भवतीव्रतापसंवर्द्धनप्रणयिनी विमतस्थितेषु ॥ ११ ॥ वामे करे तदितरे च यथोपरिष्टात् पात्रं सुधारसभृतं वरमातुलुङ्गम् । 3 खेटं गदाश्च दधतीं भवती भवानि ! ध्यायन्ति येऽरुणनिभां कृतिनस्त एव ॥ १२ ॥ .१ ख वदने । ५. ख. रणासि । २. ख. तथोपरिष्टात् । ख, यदिमौ । ६. ३. ख. दैत्यौ । ख. संछेदनप्रणयिनी । ४. ख. नाकिलोकम् ख. विपदि स्थितेषु |

Loading...

Page Navigation
1 ... 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207