Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
भुवनेश्वरीक्रमचन्द्रिका
[ १२७ प्रतिदिनमपि कुर्याद् यस्तु न्यासेन वैकं नृपतिसदनमान्यो योषितां कर्षमायात् । अपि च कमलवासा सुस्थिरा तस्य वेश्म
न्यहरहरपि वृद्धिं याति विश्वोपकर्तुम् ॥ इतिमातृकान्यासफलम् । ततः प्राणायामत्रयं कुर्यात् । तस्य लक्षणम् ।
इडया पूरयेद् वायुं स्वरैर्वणैश्च कुम्भयेत् । रेचयेद् यादिकवणैस्ततः पिङ्गलया सह ।। इडा च वामनासास्था पिङ्गला दक्षिणेन तु ।
इडापिङ्गलयोर्मध्ये सुषुम्णा रन्ध्रवाहिनी ॥ . इत्थं प्राणायामत्रयं अथवा मूलेन कुर्यात् । तत्रादौ कवचं पठित्वा । ... अस्य श्रीएकाक्षरभुवनेश्वरीमन्त्रस्य शक्तिऋषये नमः शिरसि । गायत्री छन्दसे
नमो मुखे । श्रीभुवनेश्वरीदेवतायै नमो हृदये। हं बीजाय नमो गुह्ये । ई शक्तये नमः - पादयोः । रं कीलकाय नमः सर्वाङ्गेषु । श्रीभुवनेश्वरीप्रीत्यर्थं जपे विनियोगः।। .. अथ हल्लेखादिन्यासः । ॐ ह्रीं हल्लेखायै नमो मूर्ध्नि । ॐ हौं गगनायै नमो .. मुखे । ॐ हैं रक्तायै नमो हृदये । ॐ ह्रौं करालिकायै नमो गुह्ये । ॐ हः महोच्छुष्मायै : नमः पादयोः । इति हल्लेखादिन्यासः । .... अथ मूलमन्त्रपडङ्गः । ॐ ह्रां हृदयाय नमः अङ्ग ठयोः। ॐ ह्रीं शिरसे स्वाहा
तर्जन्योः। ॐ ह शिखायै वषट मध्यमयोः। ॐ हैं कवचाय हुं अनामिकयोः । ___ ॐ ह्रौं नेत्रत्राय वौषट् कनिष्ठिकयोः। ॐ ह्रः अस्त्राय फट् करतलकरपृष्ठयोः । . इति षडङ्गः । ...... अथ सावित्र्यादिन्यासः। ॐ हां गायत्रीसहिताय ब्रह्मणे नमो भाले । ॐ ह्रीं
सावित्रीसहिताय विष्णवे नमो दक्षकपोले । ॐ ह्र वागीश्वरीसहिताय महेश्वराय - नमो वामकपोले. । ॐ ह्रौं श्रिया सहिताय धनपतये . नमो, वामकर्णे । ॐ ह्रौं - रतिसहिताय स्मराय नमो मुखे । ॐ हं सिद्धिबुद्धिसहिताय गणपतये नमो दक्षकर्णे ।
। ॐ ह्रः भुवनेश्वर्यै नमो मुखे । इति सावित्र्यादिन्यासः।
Loading... Page Navigation 1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207