Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 177
________________ भुवनेश्वरीक्रमचन्द्रिका [ १४३ . उष्णोदकस्नानं स०, पश्चगव्यस्नानं सं०, पश्चामृतस्नानं स०, फलरत्नादियुक्ततीर्थस्नानं स०, अङ्गप्रोञ्छनार्थे वस्त्र स०, केशसंस्कारचिकुरशोधनं स०, वसनं गृहाण नम इति वस्त्रयुग्मं स०, नीराजनादिमङ्गलाचारान् विधाय भूषितमण्डपे रत्नसिंहासने समुपवेशनं स०, मुकुटरत्नताटङ्कनासामौक्तिकौवेयहारकेयूरकङ्कणाङ्गलीयकस्तनबन्धनमध्यवन्धन-काश्चिकलापपादकटकनूपुरपादाङ्ग लीयकादिनानाजातीयैर्विविधैर्भूषणैर्भू पयित्वा, सर्वाङ्गे महामृगमदालेपन स०, कण्ठे कल्हारमालां स०, चक्षुषोर्दिव्याञ्जनं स०, भाले रक्षां स०, आदर्शदर्शनं स०, छत्रचामराणि समर्प्य पूजामण्डपमानीयशिवाङ्के समुपवेशनं स०, गन्धं स०, अक्षतान् स०, पुष्पाञ्जलित्रयं घण्टानादं स०, धूपं स०, दीपं स०, नैवेद्यं स०, करोद्वर्त्तनं स०, ताम्बूलं सं०, आरार्तिकं स० यथाशक्तिवारं प्रथमादिभिः सन्तर्प्य पुष्पाञ्जलिं गृहीत्वा संविन्मये परे देवि परामृतरसप्रिये । अनुज्ञां देहि देवेशि परिवारार्चनाय मे ।। इति पुष्पाञ्जलिपुरःसरमनुज्ञां लब्ध्वा । अक्षतद्वितीयायुक्तविन्दुना वामाचारेण वा दक्षिणाचारेण तत्वमुद्रया आवरणदेवताः पूजयेत् । तद्यथा-'ॐ ह्रीं विन्दुचक्राय नमः,' इति पुष्पाञ्जलित्रयं दत्वा । ॐ ह्रीं भुवनेश्वर्यम्बा श्रीपादुकां पूजयामि नमस्तर्पयामि । त्रिवार संतl । एषा विन्दुचक्राधिष्ठात्री श्रीभुवनेश्वरी सायुधा सवाहना सालङ्कारा सर्वोपचारैः सुपूजिता वरदा भवतु इत्यादिना गन्धादि पुष्पाञ्जल्यन्तं समर्पयेत् । अभीष्टसिद्धिं मे देहि भुवनेशि सुरपूजिते । भक्त्या समर्पये तुभ्यं प्रथमावरणार्चनम् ।। इति योनिमुद्रां प्रदर्शयेत् । इति प्रथमावरणम् ॥ अथ द्वितीयावरणम् । त्रिकोणस्य पुरतो मध्ये गुरुपात्रस्थद्रव्येण गुरुपंक्ति पूजयेत् । तद्यथा-'ॐ ह्रीं त्रिकोणचक्राय नमः' इति पुष्पाञ्जलित्रयं दत्त्वा ऐं ह्रीं श्री गुरुभ्यो नमः श्री० पू० त० । ३.परमगुरुभ्यो नमः श्री० पू० त० । ३ परास्परगुरुभ्यो नमः श्री० पू० त० । ३ परमेष्ठिगुरुभ्यो नमः श्री० पू० त० । ३ शिवादिगुरुभ्यो नमः श्री० पू० त० । ततो विदिक्ष हां हृदयाय नमः हृदयशक्ति ... श्री० पू० त० । आग्नेये । ह्रीं शिरसे स्वाहा शिरःशक्ति श्री० पू० त० । ईशान्ये ।

Loading...

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207