Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
१५२ ]
पृथ्वीधराचार्यपद्धती समुधृत्याघ्राय पूरकप्रयोगेन सहस्रदलकमलं प्राप्य तत्र क्षणं ध्यात्वा सुपुम्णा- .. वर्त्मना 'ऐं हृदयाय नमः' इति हृदयकमलमानीय तत्र ध्यायन्
ही तिष्ठ तिष्ठ परे स्थाने स्वस्थाने परमेश्वरि । यत्र व्रमादयः सर्वे सुरास्तिष्ठन्ति मे हृदि ।। इति हृदयकमले स्थापयित्वा ततः शान्तिस्तवं पठेत् । तदुक्त वामकेश्वरतन्त्रे30 नश्यन्तु प्रेतकूष्माण्डा नश्यन्तु दृषका नराः । साधकानां शिवाः सन्तु अान्नायपरिपालिनाम् ।। जयन्तु मातरः सर्वा जयन्तु योगिनीगणाः । जयन्तु सिद्धडाकिन्यो जयन्तु गुरुपंक्तयः ॥ नन्दन्तु अणिमासिद्धयो नन्दन्तु भैरवादयः । नदन्तु देवताः सर्वाः सिद्धिविद्याधरादयः॥ ये अम्नायावशुद्धाश्च मंत्रिणः शुद्धबुद्धयः । सर्वानन्दानन्दहृदया नन्दन्तु कुलपालकाः॥ इन्द्राद्यास्तर्पितास्सन्तु तृप्यन्तु वास्तुदेवताः। .. चन्द्रसूर्यादयो देवास्तृप्यन्तुं मम भक्तितः ॥ . . नक्षत्राणि ग्रहा योगाः करणाद्यास्तथा परे । सर्वे ते सुखिनो यान्तु मासाश्च तिथयस्तथा ॥ तृप्यन्तु पितरः सर्वे ऋतवो वत्सरादयः । खेचरा भूचराश्चैव तृप्यन्तु मम भक्तितः ॥ . अन्तरिक्षचरा ये च ये चान्यदेवयोनयः। सर्वे ते सुखिनो यान्तु सर्वा नद्यश्च पक्षिणः ॥ पशवस्तरवश्चैव पर्वताः कन्दरा गुहाः । ऋषयो ब्राह्मणाः सर्वे शान्ति कुर्वन्तु से सदा ॥ शिवं सर्वत्र मे चास्तु पुत्रदारधनादिषु । राजानः सुखिनः सन्तु क्षेमं मार्ग तु मे सदा ॥ तीर्थानि पशवो गावो ये चान्ये पुण्यभूमयः । वृद्धाः पतिव्रता नार्यः शिवं कुर्वन्तु मे सदा ॥ शुभा मे दिवसा यान्तु मित्राणि सन्तु मे शिवाः ।।
Loading... Page Navigation 1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207