Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 184
________________ १५० ] .. पृथ्वीधराचार्यपद्धती आयाहि वरदे दवि मण्डलोपरि मत्वरम् । पूजां गृहाण देवेशि त्वत्कृपाभाजनस्य मे ॥ इत्याबाह्य तस्याश्चरणक्षालनपूर्वक पूजां कृत्वा हरिद्राकुमकजलादिभिर्भूपयित्वा तस्यै मूलेनाभिमंत्रितं शक्तिपात्रं पिशितसहितं दत्वा, तत्र मन्त्रः अलिपात्रमिदं तुभ्यं दीयते पिशितान्वितम् । स्वीकृत्य सुभगे देवि जयं देहि रिपुं दह ॥ इत्यनेन मन्त्रेण निवेदयेत्वत्स तुभ्यं मया दत्तं पीतशेष कुलामृतम् । तव शत्रु हनिष्यामि सर्वाभीष्टं ददाम्यहम ॥ इत्यनेन मन्त्रेण तदवशेष स्वयमङ्गीकृत्य तस्या वस्त्रकञ्च की आभरणादिक यथाशक्त्या दत्वा नमस्कारं कुर्यात् । इति शक्तिपूजनम् । ततः कुमारं बटुकरूपं पूजयेत् । ततः कुमारी पूजयेत् ।। अथ गुरुपूजनम् । ततः गुरुसन्निधौ चेत् तस्य पूजादिकं विधाय तस्मै .. गुरुपात्र निवेदयेत् । तत्र मन्त्रः ततः श्री गुरुरूपाय साक्षात् परशिवाय च । .. कराभ्यां पात्रमुद्धृत्य सद्वितीयं समर्पयेत् ॥ इत्यनेन निवेदयेत् । सन्निधौ गुरुर्नास्ति चेत् तत्स्थाने श्रेष्ठं पूर्णाभिषेकयुक्तं आचार्य पूजयेत् । आचार्योऽपि नास्ति चेत् सहस्रदलकमले गुरुपात्रस्थद्रव्येण श्रीगुरु त्रिःसन्तर्प्य स्वयं गृह्णीयात् । इति गुरुपूजनम् । __ततो वीरपूजादिकं विधाय तेषां शङ्खोदकेन प्रोक्ष्य तेभ्यः पात्राणि दद्यात् । ततः पुष्पाञ्जलिं गृहीत्वा मूलेन स्तोत्रेणाथवा वैदिकमन्त्रेण देव्य पुष्पाञ्जलिं . . समर्पयेत् । पञ्चमुद्राभिर्नमस्कारं कुर्यात् । स्तम्भनं चतुरस्रं च मत्स्यगोक्षुरमेव च । योनिमुद्रेयमाख्याता पञ्जमुद्राभिवादने ॥ इति पञ्चमुद्राः । अथ कुलदीपसमर्पणम् । वामहस्ते सचरु दीपं गृहीत्वा दक्षहस्ते पात्रं गृहीत्वा मूलमन्त्रमुच्चार्य

Loading...

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207