Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 183
________________ भुवनेश्वरीक्रमचन्द्रिका [ १४६ इत्यनेन सदीपं चरुकं गन्धाक्षतपुष्पसहितं क्षेत्रपालाय दत्वा तत्पात्रस्थद्रव्येण वामकनिष्ठाङ्गष्ठयोगेन धारां पातयन् ध्यायेत् एकं खट्वाङ्गहस्तं भुजगमपि वरं पाशमेकं त्रिशूलं कापालं खड्गहस्तं डमरुग[ क सहितं वामहस्ते पिनाकम् । चन्द्रार्द्ध केतुमालाकिरतिवरशरं सर्पयज्ञोपवीतं कालं विभ्रत्कपालं मम हरतु भयं भैरवः क्षेत्रपालः॥ योऽस्मिन् क्षेत्रे निवासी च क्षेत्रपालस्य किङ्करः । प्रीतोस्तु बलिदानेन सर्वरक्षां करोतु मे || - इत्थं बलिदानं विधाय । के[प] चिन्मतेन-'हुँ सर्वविघ्नकृद्भयो भूतेभ्यो नमः' इति मन्त्रेण सदीपं अलिपिशितसहितं चरुकं गन्धाक्षतपुष्पसमन्वितं गृहाबहिनिक्षि: पेत् । इति भृतवलिः । ततः शालिगोधूमादिपिष्ट न सगुड़ेन सजीरकेन सालिद्वितीयेन . सार्धं त्रिकोणाकारान् डमरुकरूपेण नव पञ्च त्रीन् वा विधाय घृतेन पाचयित्वा ताम्रा दिभाजने अष्टदलं त्रिकोणं विधाय मूलेन सम्पूज्य अष्टदले अष्टदीपान् संस्थाप्य E. त्रिकोणे एकं दीप संस्थाप्य एवं नवदीपान् संस्थाप्य मूलेन फलपुष्पताम्बूल. सुवर्णादिकं पात्रे निक्षिप्य मूलेन प्रज्वाल्य सामयिकं श्लोकद्वयं पठन् मूलेन देव्युपरि सार्द्धत्रिवारं भ्रामयेत् । अन्तस्तेजो बहिस्तेज एकीकृत्य निरन्तरम् । विधा देव्युपरिभ्राम्य कुलदीपं निवेदयेत् ॥ चन्द्रादित्यौ च धरणी विद्युदग्निस्तथैव च । त्वमेव सर्वज्योतींषि प्रार्तिक्यं प्रतिगृह्यताम् ॥ ... ततो मूलेन लवणनिम्बपत्राद्यैः अन्नपिष्टपिण्डादिभिर्वा दृष्टिमुत्तार्य पश्चाद् द्वात्रिंशत्संख्यया अथवाष्टोत्तरशतसङ्ख्यया मूलविद्यां जपेत् । गुह्यातिगुह्यति देव्यै जप निवेदयेत् । स्तोत्रसहस्रनामादिकं पठित्वा योनिमुद्रया नमस्कार कुर्यात् । अथ शक्तिपूजनम् । स्वशक्तिं वा वीरशक्तिं चाहूय स्ववामभागे त्रिकोणं विधाय तस्योपरि आवाहयेत्

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207