Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text ________________
भुवनेश्वरीक्रमचन्द्रिका
[ १३१ वामाङ्गसङ्कोचपूर्वकं वामशाखां स्पृशन् सन् वामाघ्रिणान्तः प्रविश्य द्वारदेशे तिरस्करिणीं पूजयेत् । 'ॐ ऐं ह्रीं श्रीं ई नमस्त्रैलोक्यमोहिनि महामाये सकलपशुजुनमनश्चक्षुस्तिस्करणं कुरु कुरु स्वाहा' इति तिरस्करिणीं पूजयित्वा 'मुक्तकेशी विवसना मदापूर्णितलोचनां स्वयोनिदर्शनान्मुह्यत्पशुवर्गा स्मराम्यहम्' । मुक्तकेशी मिति ध्यात्वा तस्याः बलि अलिपिशितगन्धपुष्पसहितं पूर्वोक्तमंत्रेण दद्यात् । ... अथ देशिकः स्वदेशे भुवनेश्वरीकलामागद्धकामो वासंयतो जितेन्द्रियो जितक्रोधो रक्तालङ्कारवसनो हृद्यवेशो गन्धाष्टकलिप्ततनुर्बु तपुष्पमालाविराजितः सन रक्तासने उपविश्य 'ऐं ह्रीं श्रीं आधारशक्तिकमलासनाय नम' इत्यभ्यर्योपविश्य ॐ ह्रीं ह्रौं नमः शिवाय महाशरभाय । ॐ ह्रीं ह्रौं नमः शिवायै महाशरभ्यै । विघ्नशान्तये आसनाधः शग्भद्यमभ्यर्च्य वामदक्षिणभागयोः दीपद्वयं संस्थाप्य पूजासंभारान् दक्षहस्ते निधाय मूलेन शिखां बद्ध्या आचम्य 'ॐ हीं आत्मतत्त्वं शोधयामि नमः ॐ ह्रीं विद्यातत्त्वं शोध'ॐ ह्रीं शिवतत्त्वं शोध०' एवमाचम्य मूलेन पूरक १६ कुंभक ३२ रेचक १६ प्रयोगेण प्राणायामत्रयं कृत्वा तिथ्यादिकं संकीर्त्य "मम सकलमनोरथसिद्धयर्थं श्रीभुवनेश्वरीपूजनं करिष्ये तदङ्गभूतशुद्ध्यादिन्यासान् करिष्ये तदङ्गभूतपात्रस्थापनं करिष्ये” इति सङ्कल्प्य । तत्रायं पात्रक्रम:
श्रादौ कुम्भं ततः शङ्ख श्रीपात्रं शक्तिपात्रकम् । ... भोगं च गुरुपात्रं च बलिपात्राण्यपि क्रमात् ॥.
अथ यन्त्रात्मनोमध्ये शुद्धोदकेन स्ववामभागे वहन्नाडीकरश्चोर्ध्वहस्तेन मत्स्यमुद्रया मायाङ्कितं भूबिंबवृत्तपदकोणत्रिकोणात्मकं मण्डलं विरच्य अपसव्याङ्गुष्ठे [ नावष्टभ्य वामेन पुष्पाक्षतैमूलवीजेन व्यस्ताव्यस्तक्रमेण त्रिकोणमध्यं च [ सं ] पूज्य । षट्कोणे-'ऐं ह्रीं श्रीं हृदयदेवीश्रीपादुकां पूजयामि' '३ शिरोदेवीश्रीपा०'
'३ शिखादेवीश्रीपा०' '३ कवचदेवीश्रीपा०' '३ नेत्रदेवीश्रीपा०' '३अस्त्रदेवी... श्रीपा०' इति षडङ्गानि सम्पूज्य । वृत्ते–३ लं लक्ष्म्यै नमः' '३ के
. काल्यै' : ' ३. सं सरस्वत्यै०' ।. चतुरस्र--३ क्षां क्षीरसागराय नमः' '३ ई .. इक्षुसागराय नमः' '३ मं मधुसागराय नम:' '३ पी पीयूषसागरायः' इत्याग्नेयादीन्
सम्पूज्य । मूलेन गन्धादिना सम्पूज्य 'हूं फट्' इत्यस्त्रप्रक्षालितमाधारं 'मूलबीजेन श्रीभुवनेश्वर्याः कलशाधारं स्थापयामि नम' इति संस्थाप्य । 'रां री रूं रमलवरयऊं रं धर्मप्रददशकलात्मने अग्निमण्डलाय कलशाधाराय नमः' इति सम्पूज्य । तदुपरि
Loading... Page Navigation 1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207