Book Title: Bhuvaneshvari Mahastotram
Author(s): Jinvijay, Gopalnarayan Bahura
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 153
________________ . .. भुवनेश्वरीक्रमचन्द्रिका : [ ११६ आग्नेयमंत्रस्य कश्यप ऋषिः । अग्निर्देवता त्रिष्टुप् छन्द आग्नेयाख्यभूतशुद्धयर्थे . जपे विनियोगः । नास्यादिहृदयपर्यन्तं अग्निस्थानं तत्र वह्निमण्डलं त्रिकोणाकारं - कोणत्रये स्वस्तिकाङ्कितं तन्मध्ये रं वीजं रक्तवर्ण रुद्रदैवत्यं तेन त्रिगुणो वह्निस्त्रिरुद्घातप्रयोगेण शोषयामि । ॐ ३६ इति वायौ लयं नयेत् । । वायव्यमन्त्रस्य किष्कन्ध ऋपिर्वायुर्देवता त्रिष्टुप् छन्दो वायव्याख्यभूतशुद्धयर्थे जपे विनियोगः । हृदयादिभ्रूमध्यपर्यन्तं वायुस्थानम् तत्र वायुमण्डलं षट्कोणाकारं ___ षड्विन्दुलाञ्छितम् तन्मध्ये यं बीजं नीलवर्ण सङ्कर्षणदैवत्यं त्रिगुणो वायुर्द्विरुघातप्रयोगेण शोषयामि ॐ यं २४ इति आकाशे लयं नयेत् ।। आकाशमन्त्रस्य ब्रह्मा ऋषिः महदाकाशो देवता त्रिष्टुप् छन्द आकाशाख्यभूतशुद्धयर्थे जपे विनियोगः । भ्रूमध्याद् ब्रह्मरन्ध्रपर्यन्तमाकाशस्थानम् तत्र नभोमण्डलं वर्तुलाकारं ध्वजलाञ्छितं तन्मध्ये हं बीजम् धूम्रवर्णम् सदाशिवदैवत्यम् तेनैकगुण आकाश एकोघातप्रयोगेण शोषयामि ॐ हं १२ इति वीजेन परे शिवे लयं नयेत् । .षष्टिसंख्या समारभ्य द्वादश द्वादश त्यजेत् । .. पृथिव्यादीनि भूतानि क्रमेण स्वस्वकारणे ॥ एवं पञ्चमहाभूतानि परे तत्वे एकीभूतानि विचिन्त्य पुनर्भूतानि प्रविलापयेत् । ॐ ल्हाँ ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा पादादिजानुपर्यन्तं व्याप्य पृथ्वीं शोधयेत् । ॐ ह्रीं विष्णवे अधिपतये प्रतिष्ठाकलात्मने हुं फट् स्वाहा इति जान्वादिनाभिपर्यन्तं व्याप्य अपः शोधयेत् । ॐ ह अग्नये तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा इति नाम्यादिवक्षःपर्यन्तं व्याप्य अग्निं शोधयेत् । ॐ . ईश्वराय वाय्वधियतये शान्तिकलात्मने हुं फट् स्वाहा । हृदयादि भ्रू युगान्तं व्याप्य वायुं शोधयेत् । ॐ हौं सदाशिवाय व्योमाधिपतये शान्त्यतीतकलात्मने हूं फट स्वाहा । भ्र वादिब्रह्मरन्ध्रान्तं व्याप्य आकाशं शोधयेत् । इति व्यापकं कृत्वा -: योनिमुद्रां वध्या कुलकुण्डलिनीमुत्थाप्य पदसरोजानि भित्त्वा जीवनदीपस्नेहरूपिणीं .. तो परे तेजसि संयोज्य वक्ष्यमाणक्रमेण शोषणादि समाचरेत् । ..: तत्रादौ वामकुक्षौ पापपुरुषं ध्यायेत् - .: ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् । सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207