________________
. .. भुवनेश्वरीक्रमचन्द्रिका :
[ ११६ आग्नेयमंत्रस्य कश्यप ऋषिः । अग्निर्देवता त्रिष्टुप् छन्द आग्नेयाख्यभूतशुद्धयर्थे . जपे विनियोगः । नास्यादिहृदयपर्यन्तं अग्निस्थानं तत्र वह्निमण्डलं त्रिकोणाकारं - कोणत्रये स्वस्तिकाङ्कितं तन्मध्ये रं वीजं रक्तवर्ण रुद्रदैवत्यं तेन त्रिगुणो वह्निस्त्रिरुद्घातप्रयोगेण शोषयामि । ॐ ३६ इति वायौ लयं नयेत् । ।
वायव्यमन्त्रस्य किष्कन्ध ऋपिर्वायुर्देवता त्रिष्टुप् छन्दो वायव्याख्यभूतशुद्धयर्थे जपे विनियोगः । हृदयादिभ्रूमध्यपर्यन्तं वायुस्थानम् तत्र वायुमण्डलं षट्कोणाकारं ___ षड्विन्दुलाञ्छितम् तन्मध्ये यं बीजं नीलवर्ण सङ्कर्षणदैवत्यं त्रिगुणो वायुर्द्विरुघातप्रयोगेण शोषयामि ॐ यं २४ इति आकाशे लयं नयेत् ।।
आकाशमन्त्रस्य ब्रह्मा ऋषिः महदाकाशो देवता त्रिष्टुप् छन्द आकाशाख्यभूतशुद्धयर्थे जपे विनियोगः । भ्रूमध्याद् ब्रह्मरन्ध्रपर्यन्तमाकाशस्थानम् तत्र नभोमण्डलं वर्तुलाकारं ध्वजलाञ्छितं तन्मध्ये हं बीजम् धूम्रवर्णम् सदाशिवदैवत्यम् तेनैकगुण आकाश एकोघातप्रयोगेण शोषयामि ॐ हं १२ इति वीजेन परे शिवे लयं नयेत् ।
.षष्टिसंख्या समारभ्य द्वादश द्वादश त्यजेत् । .. पृथिव्यादीनि भूतानि क्रमेण स्वस्वकारणे ॥
एवं पञ्चमहाभूतानि परे तत्वे एकीभूतानि विचिन्त्य पुनर्भूतानि प्रविलापयेत् । ॐ ल्हाँ ब्रह्मणे पृथिव्यधिपतये निवृत्तिकलात्मने हुं फट् स्वाहा पादादिजानुपर्यन्तं व्याप्य पृथ्वीं शोधयेत् । ॐ ह्रीं विष्णवे अधिपतये प्रतिष्ठाकलात्मने हुं फट् स्वाहा इति जान्वादिनाभिपर्यन्तं व्याप्य अपः शोधयेत् । ॐ ह अग्नये तेजोऽधिपतये विद्याकलात्मने हुं फट् स्वाहा इति नाम्यादिवक्षःपर्यन्तं व्याप्य अग्निं शोधयेत् । ॐ . ईश्वराय वाय्वधियतये शान्तिकलात्मने हुं फट् स्वाहा । हृदयादि भ्रू युगान्तं व्याप्य वायुं शोधयेत् । ॐ हौं सदाशिवाय व्योमाधिपतये शान्त्यतीतकलात्मने हूं
फट स्वाहा । भ्र वादिब्रह्मरन्ध्रान्तं व्याप्य आकाशं शोधयेत् । इति व्यापकं कृत्वा -: योनिमुद्रां वध्या कुलकुण्डलिनीमुत्थाप्य पदसरोजानि भित्त्वा जीवनदीपस्नेहरूपिणीं .. तो परे तेजसि संयोज्य वक्ष्यमाणक्रमेण शोषणादि समाचरेत् । ..: तत्रादौ वामकुक्षौ पापपुरुषं ध्यायेत् - .: ब्रह्महत्याशिरस्कं च स्वर्णस्तेयभुजद्वयम् ।
सुरापानहृदा युक्तं गुरुतल्पकटिद्वयम् ॥