Book Title: Aptamimansa Pramanpariksha Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain Publisher: Bharatiya Jain Siddhant Prakashini Sanstha View full book textPage 6
________________ प्रस्तावना । ३ देवागमस्तोत्रस्यैवापरामिधा - आप्तमीमांसा - नायं स्वायत्ततया विरचितो ग्रंथः किंतु गंधहस्तिमहाभाष्यस्य मंगलाचरणं । भाष्यस्य चतुरशीतिसहस्रपरिमिता ८४००० लोकसंख्या । श्रीमदुमास्वामिशयकुशेशयखचिततस्वार्थाधिगमसूत्रस्यो (मोक्षशास्त्रस्य ) परिष्टात्तदुभाष्यं । दुर्भागधेयमेतदास्माकीनं यन्त्रो दृष्टिपथमायाति तत्सांप्रतं । एतस्याः किलातीमांसाया उपरि कृता सैद्धांतिकचक्रवर्तिना श्रीमद्वसुनंदिना पदवृत्तिः । विरचिता च श्रीमदकलंकदेवस्वामिना भाष्यभूताष्टांती स्वातंत्र्येण कारिकाणामुपरि । विरचयामास चाष्टशत्युपरि - अष्टशतीनाम्नीं विवृतिं श्रीमद्विद्यानंदिप्रभुः । भूमंमलं कदा मंडयायासात्मपाण्डित्येनं श्रीमदकलंकदेव स्वामी ति तु समाविर्भावयामोवयं श्रीमत्तत्त्वार्थराजवार्तिकप्रस्ताव नोल्लेखसमये । प्रभोर्विद्यानंदिनस्तु व्यलेख्याप्तपरीक्षाप्रस्तावनायामबदाततयास्माभिरितिवृत्तं । प्रमाणपरीक्षा | अत्रांकेऽपरः प्रमाणपरीक्षाभिधोग्रंथः । रचयिता किलैतद्गंथरत्नस्य समजनि श्रीमद्विद्यानंदिप्रभुः महचित्रमेतद्विरचयंतोऽप्यतलस्पर्शगभीरग्रंथमिमं श्रीमद्विद्यानंदाः न प्रकटयांचक्रिरे स्वनामविवृतिं कापि यशोलिप्सया तथापि - - जयंति निर्जिताशेषसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वद्विद्यानंदा जिनेश्वराः ॥ १ ॥ इत्यत्र जिनेश्वरविशेषणीभूतेन विद्यानंदपदेन ७७ तमेपृष्ठे- तस्यानादेरेकस्येश्वरस्याप्तपरीक्षा यामुपक्षिप्तत्वादिति वाक्ये आप्तपरीक्षापदोलेखेन-आप्तपरीक्षापत्रपरीक्षेतिग्रंथद्वयस्य समानकर्तृकत्वप्रतिभासकत्वात् - अंत्यमंगले च विद्यापददानान्नियतं विज्ञायतेऽस्माभिरयमेव श्रीविद्यानंदप्रभुः प्रमाणपरीक्षायाः कर्ता । ग्रंथसंपादनसमये अष्टशत्याः पुस्तकद्वयं मया मोहमयीतः समुपलब्धं तत्र क. पुस्तकस्य शुद्धतरस्वेपि ख. पुस्तकमतीवाशुद्धमासीत् । ततोऽन्वभूवं वहलं कष्टं कठिनतमाप्तमीमांसाग्रंथसंपादनकाले । प्रमाणपरीक्षायाः क. पुस्तकं जैनहितैषिसंपादक श्रीमत्पंडितनाथूरामजी महानुभावैः - ख. पुस्तकं च स्याद्वादमहाविद्यालयप्रधानाध्यापकैः श्रीमत्पंडित - उमराव सिंहजीमहोदयैः प्रहितमिति विहितानुग्रहोऽस्म्युक्तविदुषोः । यदपि पंडितंमन्याधुनिकलेखकतदनुयायिमहोदयानुकंपया प्रमाणपरीक्षायाः पुस्तकद्वयमप्यतीवाशुद्धं तदपि - एकतः संजातशंकाया अपरतः समाधानात् समपादि महता प्रयासेनेयं प्रमाणपरीक्षा । तथापि प्रमत्तयेोगादजनिष्ट कापि स्खलनं मामकीनं क्षमयंतु तदशक्यपरिमार्जनस्खलनं साक्षरवरा इति सनतिमभ्यर्थना । लेखकादिमहानुभाबकरकमलखचितग्रंथमाहात्म्यात् — असामयिक वैकल्यतश्च विनिचाय्य कुतोऽपि मामकीनं स्खलनं कठिनतमसंपादनकृत्यानुभव बहिर्भूतत्वात् वेधयंति केचित्स्वरतरकुवचनसायकैः संपादकं । शिक्षयितृत्वे तेषामनुगृहीतोऽस्मि । प्रिय मित्रवर देवराज ! पठिष्यामीति तावकाग्रहवशंवदतया महतायासेन संपादितापीयं प्रमाण परीक्षा - असामयिकभवन्निधनतो दुनोति मामकीनं मनो बहलतया । अवदातहृदय ! न तावकीनोपकारविनिमये किमपि महपार्श्वे समीचीनं वस्तु येन विगतोपकारभारः स्यां - ततस्त्वद्गुणस्मृतिसमीहया समर्पयामि तव करकमलयोः श्रीप्रमाणपरीक्षामिमां सविनयं— एहि परमनिश्रेयसं त्वमिति मे कामना । त्रिद्वत्कृपाभिलाषी गजाधरलालःPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 90