Book Title: Aptamimansa Pramanpariksha
Author(s): Samantbhadracharya, Vidyanandswami, Gajadharlal Jain
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 4
________________ wome प्रस्तावना आप्तमीमांसा विद्वन्महोदयाः ! प्रत्यपत्सत नाम वैफल्यं पुरा स्वपरहितापादनाकुंचितशेभुषीनामार्हतमतप्रवर्तकमानिनामाहतानां पुरस्तात् सविनयमपि कृताभ्यर्थनाः श्रीमताममलतत्त्वस्वरूपावबुभुत्सूनामवदाततया । परंतु नायत्वे ते जैनाः । प्रतियंति कतिपयास्तेष्वाहततत्त्वप्रवर्तनफलं । समाविरभावि तैस्तत्स्वरूपप्रकाशनाय सनातनजैनग्रंथमालाभिधोऽनुपमप्रभाकरः । रसयंतु रसिकाः तत्स्वरूपसुधां निर्वृहतया सांप्रतमिति समभ्यर्थना । ___ समुपानीयते ग्रंथरत्नद्वयमिदमस्माभिरद्य श्रीमतां पुरस्तात् । आदिम-आप्तमीमांसा वृत्त्यष्टशतीति विशदटीकाद्वितयविभूषिता । अपरं-अमलप्रमाणस्वरूपावबोधिका प्रमाणपरीक्षा।आदिमस्य प्रणेता किल ग्रंथरत्नस्य समजनि श्रीमत्स्वामिसमंतभद्रः समंतभद्रः । सर्वथा परहितप्रणिहितात्मायं महात्मा कदा भारतभूमिमम विभूषयामासात्मवैदुष्येणेति नास्ति किमपि निर्णायकं गमकं । सांप्रतिकेतिवृत्तवेत्तृणां मतमिदमस्य पावनात्मानो विषये यदजनिष्टायं षष्ठायां खीष्टशताब्दौ । नदिसंघपट्टावलीतश्च व्यज्ञायीदं समपद्यतायं, सपादप्रथमायां शताब्दौ । कामयांचकार च मैसूरप्रांतस्थकांची. पुरमवदातयात्मनीनवासेन । परं नोभयत्रापि समयनिर्णये प्रत्यायकं किमपि सुनिर्णेयं प्रमाणं । किंतु नात्र संशीतिः प्रवादिमहीधराशनिनानेन मुनिना भवितव्यं नियतं प्रखरविदुषा चिरंतनतमेन च । जतश्रुतिरप्येतद्विषयिणीयं आसीत्किल विविधमतिमन्निकरपरिपालितनिदेशः शेमुषीमंथनमथितानैकागमोदधिसमवाप्तानवद्यसुधापरिपूरितवांतः श्रीसमंतभद्रो भगवान् मुनिराट् । स चैकदा पुरा समुपार्जितनैकाशुभकर्मसंपातात् समुपात्तप्रखरभस्मव्याधिः कठिनतमं मुनिव्रतं परिपालयितुमशक्नुवन् व्याधिपरिहरणाधिया विमुच्य मुनिलिंगं समियाय वाराणस्यां । तदात्वे च वाराणस्यां कश्चित् स्वप्रतापपराभूतविबुधपतिः शिवकोटिमहीपतिरासीत् स च परमशैवत्वात विनिर्माय कमपि शिवालयं समादिशत् बहुलसुरसमोदकादिसामग्य शिवमर्चयितुं । यदा च समंतभद्रः समश्रौषीत् बहुलया सामग्या शिवस्य पूजां तदाधिकं मनसि तुतोष । समेत्य च नरपतिशिवकोटिपरिषदि, उपदर्य कमपि लोकेतरातिशयं, प्रपेदे शिवपूजकपदं राजानुमत्या । भक्षंश्च सुरसपदार्थजातं शमयामास च स्वोदरव्याधि सानंदं । कियता कालेन व्याधिस्तस्योपशशाम । व्याध्युपशमे च कदाचि. त्पुनः शिवकोटिपरिषदि समागत्य, आविर्भाव्य च विचित्रातिशयं स्वमंत्रवचनव्याहूताष्टमजिनचंद्रप्रभं, चकार शिवकोटिमहीपतिं दिगंबरदीक्षादीक्षितं । भगवत्समंतभद्रः स्वव्याध्युपशमनकामनया वाराणसीप्राप्तितः पूर्वमपि वहुत्र वभ्राम । अतो यदा शिवकोटिमहीपतिः स्वामिपरिचिकीषया तदीयवृत्तमप्राक्षीत् तदा परिचायितः स पद्येनामुना स्वामिना। कांच्यां नग्नाटकोऽहं मलमलिनतनुर्लीबशे पांडुपिंडः पुंडेंड्रे शक्यभिक्षुर्दशपुरनगरे मिष्टभोजी परिवाद । वाराणस्यामभूवं शशधरधवलः पाण्डुरांगस्तपस्वी राजन् यस्यास्ति शक्तिः स वदतु पुरतो जैननिग्रंथवादी ॥१॥ नेमिचंद्र वीणचिताराधनासारस्थं पद्यमिदं मल्लिषणप्रशस्ती च समुल्लेखोऽयं स्वामिविषयकः बंद्यो भस्मकभस्मसात्कृतिपटुः पद्मावतीदेवता दत्तोदात्तपदः स्वमंत्रवचनव्याहूतचंद्रप्रभः ।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 90