Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 259
________________ अलङ्कारमणिहारे हे मुनिभिधते हे श्रीसिन्धुसुते हे शेषिणि स्फीते अभिवृद्धे अद्भुते विचित्रे सिन्धुयुते आकाशगङ्गान्विते शेषे रौले शेषाद्री प्रियेण श्रीनिवासेन सह उच्चैः निरतिशयां प्रीतिं मुदं अभ्येषीति योजना | अयं श्लोकः निष्कण्ठ्यवर्णग्रथितः । निषेध्यः कण्ठ्यश्चात्र केवलकण्ठ्यः, तेन कण्ठतालुस्थानकयोः एकारैकारयोः कण्ठोष्ठस्थानकस्य ओकारस्य सत्त्वेऽपि न दोषः ॥ रक्षोगणसुक्षोभणदक्षोल्बणबाणतूणबाणासः । स्वक्षो नतपक्षोन्नतिरक्षोऽवतु मां रमानाथः ॥ शोभने अक्षिणी यस्य सः स्वक्षः 'बहुव्रीहौ सक्थ्यक्ष्णोः ' इति समासान्तष्टच् । 'न पूजनात् ' इति निषेधस्तु बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतः प्रागेव इति नियमितमाकरे । अत्र निस्तालव्यरेव वर्णैशिबन्धः, स्वरपञ्चकनियमोप्यानुषङ्गिकः ॥ 248 " किञ्चिदचञ्चलविभवं कञ्चुकिनाथाचलाञ्चलोदश्चि । त्वञ्चापलं विमुञ्चत्पञ्चायुधमञ्च दैवतं चेतः ॥ २३३७ अत्र कण्ठ्यतालव्यदन्त्यौष्ठयवर्णान्येव निबद्धानि । इदमेव निमूर्धन्यमिति व्यवहियते ॥ शिखरविशङ्कटवेङ्कटगिरिकटकविहारि हारिहारुचि । अयि किमपि वैभवं भवभवभयभरहरणमेव परिचर गीः ॥ २३३८ ॥ शिखरैः विशंकटः विशालः यो वेंकटगिरिः तस्य कटके विहरतीति तथोक्तं हारिणी मनोहरा हाररुचिः यस्य तत् । भवभव -

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330