Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 295
________________ 284 अलङ्कारमणिहारे ल्लभामित्यपि व्यज्यते। प्रसाधयति अलंकरोति। अलं कूलंकषधीः प्रबन्धगतचमत्कृतिसर्वस्ववेदी उचितानुचितविमर्शकारीत्यपि व्यज्यते । सः कृती कुशलः इतरकृतीः अन्यानसारान् प्रबन्धान इतरवधूरित्यपि व्यज्यते । कथं लुलोकिषते द्रष्टुमपि नेच्छति किमुत पश्यदिति । अत एवात्र समासोक्तयलंकारः॥ अभ्यस्तैकैकविद्याः क्वचन मम कृतिं वीक्ष्य हृष्यन्तु मा वा तत्ताहक्सर्वविद्यापरिचयनिपुणा हन्त हृष्यन्त्यवश्यम् । प्रायो मात्सर्यमेषां न खलु विधिवशायद्यमीषामपि स्यात् किं काये श्रीहयास्योजयति गुणनिधिस्सर्वविद्यानिषद्या॥ विद्याविहृतिनिषद्या हृद्या तुरगानना धुतावद्या। हृद्याहिता प्रसद्यादाद्या सा देवता बुधासाद्या ॥ २४०५॥ ब्रह्माणं प्रविधाय नाभिकमले वेदानपि प्राहिणोद्यत्तस्मै मधुकैटभोत्थविपदो यत्त्रायते स्माथ तान्। तद्धामावतु पाञ्चकालिकपथप्रस्थाननिष्ठैतिश्रेष्ठश्रीनिगमान्तदोशकमुखैर्दत्ताहणं देशिकैः ॥ या वाण्या यतिराजराजवशगा चर्चिता या चिरात् प्राचार्यनिगमान्तदेशिकमणिश्रीब्रह्म

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330