Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 325
________________ 314 अलकारमाणहारे छेकानुप्रासः छेकानुपासमाहुर्यत्साम्यं व्यानयोस्सकृत् । द्वयोईयोर्व्यअनयोर्युग्मयोर्या निरन्तरा । आवृत्तिः क्रियते सोयं छेकानुप्रास ईयते ॥ वृत्यनुप्रासः उल्लङ्घय सङ्ग्यानियमं पौनरुक्त्यं भवेद्यदि । एकद्वित्रयादिवर्णानां वृत्त्यनुप्रासमूचिरे ॥ लाटानुप्रासः तात्पर्यमात्रभिन्ना या शब्दार्थपुनरुक्तता । सोऽयं शाब्दः काव्यविद्भिाटानुपास ईर्यते ॥ वाक्यावृत्तौ पदावृत्तौ नामावृत्तौ च तत्रिधा । समासैक्ये तद्धितायां स्यात्समासासमासयोः ॥ नामावृत्तौ पुनस्त्रेधा लाटानुमास ईरितः । पञ्चप्रकार एवं च लाटानुपास इरितः ॥ यमकम् अनर्थका वा भिन्नार्थास्सार्थकानर्थकाश्च वा । क्रमादावर्तिता वर्णा यदि तद्यमकं भवेत् ॥ श्लोकापादतद्भागावृत्त्या स्यात्तच्चतुर्विधम् । आवृत्तावाद्यपादादेर्द्वितीयादौ भिदा नव ॥ द्विधा विभागे पादानां प्रथमाद्यादिमा यदि । द्वितीयाद्यादिभागेषु यम्यन्ते. स्युर्भिदा दश । प्रथमाधन्तिमा भागा द्वितीयाद्यन्तिमांशगाः।

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330