Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 323
________________ 312 अलङ्कारमाणिहारे (११८) संभवः सम्भवोऽधिकसद्भावानयूनस्थिसवधारणम् । (११९) ऐतियम् यत्रेतिहोचुरित्याद्यमनिर्दिष्टप्रवक्तृकम् । पारम्पर्य प्रवादस्य तत्रैतिह्यमलंकृतिः ॥ (१२०) संसृष्टिः अलंकृतीनां सर्वासां यथासंभवमेळने । लौकिकानामिवैतासां चारुताशियेक्षणात् ॥ नरसिंहप्रक्रियया भात्यलंकारता पृथक् । अतस्तनिर्णय प्राचां मतेनात्राभिदध्महे ॥ तिलतण्डुलससंगरीत्या यत्रेतरेतरम् । संसृज्येरन्नलंकारास्सा संसृष्टिरितीर्यते ॥ शब्दालंकारयोरालंकृत्योश्च परस्परम् । उभयोरपि संसृष्टिरिति सा त्रिविधा मता ॥ __ (१२१) सङ्करः यत्रान्योन्यमलंकाराः क्षीरनीरनयादमी । संकीर्येरन् संकरोऽयमिति काव्यविदो विदुः ॥ सोऽयमङ्गाङ्गिभावेन समप्राधान्यतस्तथा । संदेहेन तथा चैकवाचकानुप्रवेशतः ॥ चतुर्धा सङ्करः प्रोक्तश्श्रीमदप्पयदीक्षितैः । एवं नृसिंहाकृतयः पञ्चालंकृतयो मताः ॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330