Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 322
________________ लक्षणश्लोकाः 311 (११०) भावसन्धिः भावाङ्गत्वे भावसन्धेर्भावसन्धिरलंकृतिः । (१११) भावशबलता भावाङ्गे भाबशाबल्ये भावशावल्यमुच्यते ॥ प्रयक्षादिप्रमाणानां स्याञ्चमत्कारिता यदि । तदा प्रमाणालङ्कारानष्टौ प्राहुः परे बुधाः ॥ (११२) प्रत्यक्षम् अर्थानामिन्द्रियाणां च सन्निकर्षेण यद्भवेत् । ज्ञानं तदाहुः प्रत्यक्षं चारु चेत्तदलंकृतिः ॥ __ (११३) अनुमानम् अनुमानं लिङ्गजन्यलिङ्गिज्ञानमुदाहृतम् । (११४) उपमानम् संज्ञायास्संज्ञिनश्चापि संबन्धप्रत्ययो हि यः । सादृश्यज्ञानकरण उपमानं तदुच्यते ॥ (११५) शब्दप्रमाणम् स शब्दो यत्तु शब्दस्य प्रमाणत्वेन कीर्तनम् । श्रुतिस्मृतीतिहासादिरूपः शब्द इतीर्यते ॥ . (११६) अर्थापत्तिः अन्यथाऽनुपपत्त्या यत्किञ्चिदर्थस्य कल्प्यते । अर्थान्तरं तां कथयन्त्यर्थापति विचक्षणाः ॥ (११७) अनुपलब्धिः यद्योग्यानुपलब्धेस्स्यादभावस्यावधारणम् । कृतिनोऽनुपलब्धि तां रम्यां विदुरलंकृतिम् ।।

Loading...

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330