Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 320
________________ लक्षणश्लोकाः 309 (९५) छेकोक्तिः स्याचेल्लोकोक्तिरन्यार्थगर्भा छेकोक्तिरिष्यते ॥ (९६) वक्रेक्तिः अन्याभिप्रायकान्योक्तमन्यथाऽन्येन योज्यते । श्वेषेण यदि काका वा सा वक्रोक्तिरितीर्यते ॥ (९७) स्वभावोक्तिः जात्यादिस्थस्वभावोक्तिस्स्वभावोक्तिरितीर्यते । (९८) भाविकम् वर्णनादद्भुतार्थस्य वस्तुनी भूतभाविनी ॥ प्रत्यक्षे इव दृश्यते यत्र तद्भाविकं मतम् । (९९) उदात्तम् तदुदात्तं वस्तु यत्र वर्ण्यते मुसमृद्धिमत् । अन्योपलक्षकं श्लाघ्यचरित्रं वा निबध्यते । (१००) अत्युक्तिः अद्भुतातथ्यशौर्यादिवर्णनाऽत्युक्तिरिष्यते । (१०१) निरुक्तिः सा निरुक्तिोगतो यन्नाम्नोऽर्थान्तरकल्पनम् ॥ (१०२) प्रतिषेधः प्रतिषेधः प्रतीतस्य प्रतिषेधस्य वर्णनम् ॥ . . (१०३) विधिः सा विध्यलकातयत्र सिद्धमेव विधीयते ॥

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330