Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 306
________________ लक्षणश्लोका: निरङ्गं तद्विदुर्यत्स्यादङ्गमात्रस्य रूपणम् । तद्विधा केवलं मालारूपं चेति सतां मतम् ॥ एकं विषयि यद्यन्यविषय्यन्वितमुच्यते । कार्यकारणभावेन स्यात्परम्परितं तदा || श्लिष्टश्लिष्टविभेदन तत्परम्परितं द्विधा । केवलं मालिका चेति तद्वयं द्विविधं भवेत् ॥ एवमष्टविधं प्राचां मते रूपकमिष्यते । (८) परिणामः. विषयी स्वात्मना यंत्र प्रकृतानुपयोगतः । विषयात्मत्वमभ्येति परिणामस्स ईरितः ॥ ॐ 1 (९) उल्लेखः. ग्रहीतृभिरनैकैर्यंदे कस्यानेकधा ग्रहः । रुच्यादिकारणवशात् तमुल्लेखं प्रचक्षते ॥ एकस्य विषयादीनामनेकत्व निबन्धम् । नैकधात्वं ग्रहीत्रैक्येऽप्युल्लेखस्सोऽपि संमतः ॥ (१०) स्मृति: या सादृश्यपरिज्ञानोद्बुद्ध संस्कारतस्स्मृतिः । प्रयोज्या सा स्मृतिर्नामालङ्कृतिः कथ्यते बुधैः ॥ (११) भ्रान्ति:. चमत्कृतिमती भ्रान्तिर्यस्मिन् सादृश्यहेतुका | अनूदिता स्यात्सन्दर्भे तमाहुर्भ्रान्तिमानिति ॥ (१२) सन्देहः. सम्भावनानिश्चयान्यतरभिन्ना मनोरमा | सादृश्यहेतुका बुद्धिःसन्देहालङ्कृतिर्मता ॥ 295

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330