Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 307
________________ 296 अलङ्कारमाणिहारे (१३) अपहृतिः . आहार्याभेदबुद्धे श्चेन्निषेधोऽङ्गयङ्गमेव वा ॥ एतां सामान्यतः प्राहुरपहृतिमलङ्कृतिम् ॥ अन्यारोपफलो यस्स्यात्मकृते धर्मनिहवः । अलङ्कतिरियं शुद्धापडुति म गद्यते ॥ स एवापह्नवो युक्तिपूर्वश्चेद्धत्वपहुतिः । पर्यस्तापह्नुतिर्यत्र कचित्तद्धर्मनिह्नवः ॥ वर्णनीये तदारोपफलको वर्ण्यते यदि । भ्रान्तनिवारणेऽन्यस्य शङ्कायां भ्रान्त्यपहुतिः ।। अन्यस्य शङ्कया छेकापडुतिस्तथ्यनिहतौ । छलच्छद्मनिभायैश्च वपुरात्मादिकैः पदैः । निहुतिश्चेदभिव्यङ्गया कैतवापइतिार्ह सा ॥ (१४) उत्प्रेक्षा. यदन्यधर्मसंबन्धादन्यस्यान्यत्वतर्कणम् । सोत्प्रेक्षोक्ता त्रिधैषा स्याद्वस्तुहेतुफलात्मना । उक्तानुक्तास्पदत्वन वस्तूत्पेक्षा द्विधा मता। हेतूत्प्रेक्षाफलोत्पेक्षे सिद्धासिद्धास्पदस्वतः ॥ (१५) अतिशयोक्तिः. निगीर्य विषयं यत्र विषय्येवाध्यवस्यते । रूपकातिशयोक्ति तामलङ्कारविदो विदुः ॥ उक्ता सापह्नवा सैव यद्यपहुतिगर्भिता। भेदकातिशयोक्तिर्यत्मस्तुतस्यान्यतोच्यते ॥ असंबन्धेऽपि संवन्धो वोत्कृष्टयै यदीर्यते । संबन्धातिशयोक्तिं तामलङ्कारविदो जगुः ॥

Loading...

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330