Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 305
________________ 294 अलङ्कारमाणिहारे लाभाद्वोपमेयस्य स्यादन्यानादरश्च तत्.। . उपमाया अनिष्पत्तिर्वयेनान्यस्य चापि तत् ॥ .. उपमानस्य कैमर्थ्य प्रतीपं पञ्चमं विदुः । । (७) रूपकं. यत्स्याद्विषयिरूपेण विषयस्योपरञ्जनम् । रूपकं तद्विधाऽभेदताद्रूप्यावसितं विदुः ॥ आरोपे ससभेदस्याभेदरूपकमुच्यते । ताप्यरूपकं तत्स्यात्ताप्यस्य स चेद्भवेत् ॥ तवयं च त्रिधाऽऽधिक्यन्यूनत्वानुभयोक्तिभिः । पूर्वावस्थात आरोप्यमाणस्याधिक्यवर्णनम् ॥ वायां चेदवस्थायामधिकाभेदरूपकम् । न्यूनता पागवस्थातश्चेन्नयूनाभेदरूपकम् ॥ आधिक्यन्यूनताभावेऽनुभयाभेदरूपकम् । ताप्यरूपकेऽप्येवं त्रैविध्यं सद्भिरूह्यताम् ॥ प्राचां मते विभागोऽपि रूपकस्य निरूप्यते । त्रिधा साङ्गं निरङ्गं च परम्परितमिसदः ॥ समस्तवस्तुविषयमेकदेशविवति च । इति सावयवं चापि द्विविधं तत्र रूपकम् ॥ यत्परस्परसापेक्षनिप्पत्तीनां निबध्यते ।... रूपकाणां तुः संघातो भवेत्सावयवं हि तत् ॥ ... निरूपणेऽवयविनोऽवयवानां च शब्दतः । समस्तवस्तुविषयं भवेत्सावयवं हि तत् ॥ आरोप्यमाणं शाब्दं चेत्कचिदार्थ च कुत्रचित् । एकदेशविवयाख्यमिदं सावयवं विदुः ॥

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330