Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 304
________________ लक्षणका कचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता । - कचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥ या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा । एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः ॥ एकस्यैवोपमेयस्य यद्यनेकोपमानता । तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥ पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् । उपमानत्वमेषोक्ता कविभी रशनोपमा ॥ (२) उपमेयोपमा उपमेयोपमा सा स्यादुपमानोपमेययोः । पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥ (३) अनन्वयः. अनन्वयो यदेकस्यैवोपमानोपमेयता ॥ (४) असमः उपमायास्सर्वथैव निषेधोऽसम उच्यते । प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥ (५) उदाहरणम्ः सामान्योक्तसुबोधाय तदेकांशनिरूपणात् । उक्ते तयोरवयवावयवित्व उदाहृतिः || (६) प्रतीपम्. प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता । अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥ 293

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330