________________
लक्षणका
कचिल्लुप्ता वाचकोपमेयाभ्यामपि संमता । - कचित्समास एव स्याद्वाचकावर्ण्यलोपिनी ॥ या धर्मवाचकावर्ण्यलुप्ता सा स्यात्समासगा । एवमष्टविधा लुप्ताः प्राचां रीत्या निरूपिताः ॥ एकस्यैवोपमेयस्य यद्यनेकोपमानता । तदा मालोपमामेतामाहुः केचिद्विचक्षणाः ॥ पूर्वपूर्वोपमेयस्य भवेद्यद्युत्तरोत्तरम् । उपमानत्वमेषोक्ता कविभी रशनोपमा ॥
(२) उपमेयोपमा
उपमेयोपमा सा स्यादुपमानोपमेययोः । पूर्वयोर्वैपरीत्यं चेत्परतः पुनरुच्यते ॥
(३) अनन्वयः.
अनन्वयो यदेकस्यैवोपमानोपमेयता ॥
(४) असमः
उपमायास्सर्वथैव निषेधोऽसम उच्यते । प्राञ्चो नेदमलङ्कारान्तरमित्येव मन्वते ॥
(५) उदाहरणम्ः सामान्योक्तसुबोधाय तदेकांशनिरूपणात् । उक्ते तयोरवयवावयवित्व उदाहृतिः ||
(६) प्रतीपम्.
प्रतीपमुपमानस्य वर्ण्या चेदुपमेयता । अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः ॥
293