Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library

View full book text
Previous | Next

Page 316
________________ लक्षणश्लोकाः (६२) काव्यलिङ्गम् यत्सामान्यविशेषत्वानालीढं स्यात्समर्थनम् । समर्थनीयस्यार्थस्य काव्यलिङ्गं तदुच्यते ॥ (६३) अर्थान्तरन्यासः समर्थनं विशेषस्य सामान्येनास्य तेन वा । आहुरर्थान्तरन्यासं साधम्र्येणेतरेण वा ॥ (६४) विकस्वरः सामान्येन विशेषस्य क्रियते यत्समर्थनम् । पुनस्तस्य विशेषेण स विकस्वर ईर्यते ॥ (६५) प्रौढोक्तिः यदुत्कर्षानिमित्तस्य तन्निमित्तत्वकल्पनम् । प्रौढोक्तिरेषा कथिता जयदेवमुखैर्वधैः ॥ (६६) सम्भावना सम्भावनं स्याग्रद्येवं स्यादित्यूहोऽन्यसिद्धये ॥ (६७) मिथ्याध्यवसितिः मिथ्यार्थोऽन्यः कल्प्यते चेत्किञ्चिन्मिथ्यात्वसिद्धये । मिथ्याध्यवसितिर्नाम सालंकृतिरुदाहृता ॥ (६८) ललितम् धर्मिणि प्रस्तुते वर्ण्यवृत्तान्तोल्लेखनं विना । तत्र तत्प्रतिबिम्बस्य वर्णनं ललितं मतम् 11 (६९) प्रहर्षणम् विना यवादभीष्टार्थसिद्धिस्स्याच्चेत्प्रहर्षणम् । अभीप्सितार्थादधिक लाभश्चापि महर्षणम् ॥ 305

Loading...

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330