Book Title: Alankar Manihar Part 04
Author(s): R Shama Shastry
Publisher: Oriental Library
View full book text
________________
266
अलङ्कारमणिहारे
अथशब्दयोर्द्वयोश्श्रवणात् । पूर्वार्धगतस्याथशब्दस्यानन्तर्यर्थकत्वेन उत्तरार्धगतस्याथशब्दस्य मङ्गळार्थकताया एवावश्यवक्तव्यत्वात् । अन्यथा पौनरुक्तयस्य दुर्वारत्वादित्यास्तां तावत् । अथ मङ्गळः यः ऋषभाचलः वृषाद्रिः तस्य यत् कूटं शिखरं तस्य आपीडे शेखरभूते भगवतीत्यर्थः । इदं विशेष्यम् । अतिश - यिता च सा घृणा च अतिघृणा निरतिशयकरुणा । सैव झरी प्रवाहः तेन बाढे प्रशस्ते 'भृशप्रशस्तयोर्बाढम्' इत्यमरः । गोऽवे अवतीत्यत्रः गवां धेनूनां वेदवाचां वा गोः भुवः दिवश्व वा. अवः रक्षिता तस्मिन् । सदा ऋद्धे समृद्धिमति । ओजः खच्छाये ओजसि तेजसि विषये खं व्योम छाया प्रतिमा यस्य तथांते गगनतलश्यामले इत्यर्थः ' छाया त्वनातपे कान्तौ प्रतिबिम्बा कयोषितो:' इति विश्वः । 'छाया पङ्कौ प्रतिमायाम्' इति हेमचन्द्रश्च । शठ धूर्त हे मनः ! इहि गच्छ । कर्मणोऽधिकरणत्वविवक्षया सप्तमी | श्रीनिवासं शरणं व्रजेत्यर्थः । अत्रोक्तं व्यञ्जनं पुनर्वोक्तमित्यपुनरुक्तव्यञ्जनं नाम चित्रम् | अचां पौनरुक्तयेऽपि न व्यञ्जनपौनरुक्तयमित्यवधेयम् ॥
अथ समसंस्कृतप्राकृतचित्रम्.
फणधरवरगिरिगेहं लवणिमपरिवाहधीकलनबाहम् । वरगुणमणिसंदोहं वन्देऽहं सुन्दरं विसन्देहम् || २३६५ ॥
यथावा --
हरिधरणिधरविहारं हारिमहाकिरणभारमणि

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330