Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 309
________________ २९६ श्रीअध्यात्मकल्पद्रुमे धनवि.-अथ द्वितीयस्य वाग्योगस्य संवरमुपदिशति - 'वचो' इति, वचोऽप्रवृत्तिमात्रेण-वचनप्रवृत्त्यभावमात्रेण-वाक्प्रयत्नासामर्थ्येनेत्यर्थः मौनं-वाग्व्यापारराहित्यं, के के एकेन्द्रियादयो, रोगविशेषेण पञ्चेन्द्रियाश्च जन्तवो न बिभ्रते-न धरन्ति, अपि तु सर्वेऽपि धरन्तीति; तु-पुनर, येषां मुनीनां वचो-वचनं निरवयं-निष्पापं वर्त्तते, तान्-वचोगुप्तान् वाग्गुप्तिधरान् मुनीन् स्तुवेस्तुतिगोचरान् कुर्वे ।।१४.६ ।। रत्न:-अथ मनःसंवरमुद्दिश्य चतुर्भिः श्लोकैर्वाक्संवरमाह - वचोऽप्रवृत्तिमात्रेण-इति. व्याख्या-हे अङ्गिन् ! वचसोऽप्रवृत्तिरप्रवृत्तिमात्रं, तेन के के प्राणिन एकेन्द्रियादयो मूका वा मौनं न बिभ्रते ? - न धारयन्ति? वचनयोगाभावाद् द्रव्येन्द्रियोपघाताद् वा, अपि तु बहवो बिभ्रते, परं वागयोगे सति द्रव्येन्द्रियपाटवे सति वा, येषां महात्मनां निरवयं-सावद्यप्रवृत्तिरहितं वचो वर्त्तते, तान्-वचसा गुप्तान्-वाग्गुप्तिमतः स्तुवेऽहमिति ।।१४.६ ।। [४२६] निरवद्यं वचो ब्रूहि, सावधवचनैर्यतः | प्रयाता नरकं घोरं, वसुराजादयो द्रुतम् ।।१४.७।। धनवि.-अथ वाग्गुप्त्यभावेऽनिष्टफलं दृष्टान्तपूर्वकं दर्शयन्नुपदिशति - 'निरवद्यम्' इति, ततः कारणात्, निरवद्य-निष्पापं वचो-वचनं ब्रूहि-वद, यतः-कारणात् सावधवचनैः-अलीकवचनैर्, वसुराजादयो-वसुनामनृपप्रभृतयः सपापवचनवक्तारो द्रुतं-शीघ्रं घोरं-रौद्रं सप्तमं नरकं प्रयाता:-प्रकर्षण प्राप्ताः । भावार्थस्तु वसुराजकथातोऽवसेयः, तत्कथा चेयम् - अस्ति चेदिषु विख्याता, नाम्ना शुक्तिपुरी पुरी । शुक्तिमत्याख्यया नद्या, नर्मसख्येव शोभिता ।।१।। १. वचो० - मु० । २. शोभना । मु० ।

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398