Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 342
________________ शुभप्रवृत्तिशिक्षाद्वारम् ३२९ वस्तुनि यस्य सः अनुत्तरविमानामराणां सर्वेषां समानत्वात् सुखमप्यनुत्तरं, ततस्तत्सुखस्य ग्रहणमिति ।।१५.९ ।। [४६३] इति यतिवरशिक्षा, योऽवधार्य व्रतस्थश् चरणकरणयोगानेकचित्तः श्रयेत । सपदि भवमहाब्धिं क्लेशराशिं च तीर्थ्यो, विलसति शिवसौख्याऽऽनन्त्यसायुज्यमाप्य ||१५.१०।। धनवि.-अथ शुभप्रवृत्तिशिक्षोपदेशमुपसंहरन्नाह - 'इति यतिवर' इति, यो व्रतस्थो-यः साधुरिति-अमुना प्रकारेणोक्तां यतिवरशिक्षाम्, यतिवरा-मुनिवराः, तीर्थकरा गणधराः पूर्वाचार्या वा, तेषां शिक्षा-हितोक्तिम्, अवधार्य एकचित्त-तदेकाग्रमनाः सन्, चरणकरणयोगान्चरणसप्तति-करणसप्ततिलक्षणान् योगान्-संयमव्यापारान् श्रयेत-सेवेत, तत्र चरणसप्ततिः - [संबोधप्रकरणे] . [४६४] '५ वय. १० समणधम्म. १७ संजम. १० वेयावच्चं. ९ च बंभगुत्तीओ.। ३ नाणाइतियं. १२ तव. ४ कोहनिग्गहाइ. चरणमेयं ।। [७३६] ।।' इतिरूपा करणसप्ततिश्च - [४६५] '४पिंडविसोही. ५समिई. १२भावण. १२पडिमा. ५य इंदियनिरोहो.। २५पडिलेहण. ३गुत्तीओ. ४अभिग्गहा. चेव करणं तु ।। [७३७] ।।'इतिरूपा स साधुः सपदि-शीघ्रं क्लेशराशिं भवमहाब्धि-संसारमहासमुद्रं तीर्थ्या-निस्तीर्य च पुनः, शिवसौख्याऽऽनन्त्यसायुज्यमाप्य-प्राप्य विलसति-सौख्यमनुभवतीत्यर्थः, अत्र क्लेशानां-जन्म-जरा-मरण-क्षुत्-पिपासा-परिभवादिलक्षणानां राशिः-समूहो यत्र स तथा तं क्लेशराशिमिति भवमहाब्धिविशेषणं, किञ्च-शिवसौख्यस्यमोक्षसुखस्य आनन्त्यम्-अविनाशिता, तया सह सायुज्यं-साहित्यं, यदुक्तम्, अभिधानचिन्तामणौ 'ब्रह्मसायुज्यम्'[८२१] इति, अस्य व्याख्याने "सह युग१. साम्यभावात् इत्यर्थः ।

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398