Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 347
________________ ३३४ श्रीअध्यात्मकल्पद्रुमे नवविधपरिग्रहे ममताराहित्यम्, एहि-आ समंतादेहि "गत्यर्थाः प्राप्त्यर्था"[ ] इति वचनात प्राप्नुहीत्यर्थः; हे विदवन ! - हे धीमन् ! त्वम्, इति वक्ष्यमाणम् अवेहि-जानीहि, इतीति किमित्याह-शुचां-शोकानां मूलं-मूलकारणं ममतैवनिःसङ्गताऽभाव एव भवति, सुखाना-सकलसौख्यानां मूलं-प्रधानकारणं समतैवसाम्यमेव भवतीति ।।१६.३।। रत्न.-अथ सर्वत्र निस्सङ्गतायाः प्राधान्यमुपदिशति - निस्सङ्गतामेहि..इति. व्याख्या-हे आत्मन् ! तत्-तस्माद्धेतोः, त्वं सदा निस्सङ्गतां-स्त्री-धन-गृहादिसङ्गराहित्यमेहि-प्राप्नुहि, कस्मात् ? - साम्यस्य भावो-भावनं चिन्तनं तस्मात्, केषु ? - अशेषेष्वप्यर्थेषु, सर्वेषां पदार्थानामनित्यत्वादित्यर्थः, हे विद्वन ! - पण्डित ! शुचां-शोकानां मूलं-कारणं ममता एव वर्तते, सर्वेषां सुखानां मूलं समता-साम्यं वर्त्तते इति चावेहि, इदमेव ज्ञात्वा निस्सङ्गतामेहीति पूर्वार्धसङ्गतिरिति ।।१६.३।। [४७१] स्त्रीषु धूलिषु निजे च परे वा, संपदि प्रसरदापदि चात्मन् ! तत् त्वमेहि समतां ममतामुग् येन शाश्वतसुखाऽद्वयमेषि ||१६.४।। धनवि.-अनन्तरं सात्म्यतः सकलपदार्थविषयिणी समता निर्ममता चोपदिष्टा, अथ च विशेषविषयिणी समतां चोपदिशति - 'स्त्रीषु' इति, हे आत्मन् ! तत्-तस्मात् स्त्रीषु-ललनासु, धूलिषु-मार्गपतितरेणुषु, च पुनर्, निजे-स्वजने, परे च-परजने वैरिणि वा, च पुनः, संपदि-राज्यादिसमृद्धौ प्रसरदापदि च-निःस्वतादि-लक्षणायामागच्छद्विपत्तौ ममतामुग्-इष्टानिष्टवस्तुनि ममत्वत्यजनशीलः सन् त्व समता-साम्यमेहि-प्राप्नुहीति, येन समताकरणेन शाश्वतसुखाद्वयं-शाश्वतसुखेन-मोक्षसुखेन सहाऽद्वयम्-ऐक्यम्, एषि-अधिगच्छसीत्यर्थः ||१६.४।।

Loading...

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398