Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 345
________________ श्रीअध्यात्मकल्पद्रुमे सद्यः- शीघ्रं, ते किं भवस्य-संसारस्य भीतिं भयं भिनत्सी (त्ती ) ति भवभीतिभेत्ता तस्य ३३२ भवन्ति - हस्तशायिन्यो मोक्षश्रियः स्युरित्यर्थः, कथं ? कर्तुः ? ।।१६.१।। [४६८] त्वमेव दुःखं नरकस्त्वमेव, - त्वमेव शर्मापि शिवं त्वमेव । त्वमेव कर्माणि मनस्त्वमेव, जहीह्यविद्यामवधेहि चात्मन् ! ।।१६.२।। धनवि.—अथ साम्यबीजमविद्यात्यागमुपदिशन्नाह ‘त्वमेव' इति, हे आत्मन ! दुःखं प्रतिकूलवेद्यं त्वमेवासि दुःखसाधनोपायप्रेरकत्वात्, च पुनर्, नरको - निरयनाम्नी दुर्गतिः, त्वमेवासि नरकगतिनामकर्मार्जकत्वात्, च पुनः, शर्मापि-सुखमपि त्वमेवासि सुखसाधनोपायप्रेरकत्वात्, च पुनः, शिवं त्वमेवासि सकलकर्मराहित्येन जायमानत्वात्, च पुनः, कर्माणि-शुभाशुभरूपाणि त्वमेवासि शुभाशुभकर्मार्जकत्वात्, च पुनर्, मनः-शुभाशुभकर्मबन्धकश्चेतो-व्यापारस्त्वमेवासि मनोव्यापारकत्वात्, अत्र 'अत' इत्यध्याहार्यम्, तेनातः कारणाद्अविद्याम्-अनन्तरोक्तार्थवैपरीत्यलक्षणं मिथ्याज्ञानं, 'ममायं सुखदो, ममायं दुःखद’ इत्यादिरूपां मिथ्यावासनां वा जहीहि-त्यज, च पुनर् - अवधेहि-यथा सुखं भवति दुःखं च न भवति तथा सावधानो भव; अत्र वृत्ते प्रतिपादितार्थस्य संवादकगाथा - [४६९] अप्पा नई वेअरणी, अप्पा मे कूडसामली । अप्पा कामदुधा धेणू, अप्पा मे नंदणं वण ।। [ उत्तराध्ययने २०.३६ ] ।। इत्यादिकाऽवसेया इति । नन्वात्मनो दुःख - नरकादिरूपताऽत्र कथं दर्शितेति चेत् ? - न, धर्म-धर्मिणोरभेदात् संवृतत्वा ऽसंवृतत्वपर्यायभेदेऽपि पर्यायपर्यायिणोरभेदाच्च ।।१६.२।। रत्न. - अथ सर्वत्रात्मनः प्राधान्यं निरूपयन्नात्मानं सावधानताविषये उपदिशति

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398