________________
श्रीअध्यात्मकल्पद्रुमे
सद्यः- शीघ्रं, ते किं भवस्य-संसारस्य भीतिं भयं भिनत्सी (त्ती ) ति भवभीतिभेत्ता तस्य
३३२
भवन्ति - हस्तशायिन्यो मोक्षश्रियः स्युरित्यर्थः, कथं ?
कर्तुः ?
।।१६.१।।
[४६८] त्वमेव दुःखं नरकस्त्वमेव,
-
त्वमेव शर्मापि शिवं त्वमेव । त्वमेव कर्माणि मनस्त्वमेव, जहीह्यविद्यामवधेहि चात्मन् ! ।।१६.२।।
धनवि.—अथ साम्यबीजमविद्यात्यागमुपदिशन्नाह
‘त्वमेव' इति, हे आत्मन ! दुःखं प्रतिकूलवेद्यं त्वमेवासि दुःखसाधनोपायप्रेरकत्वात्, च पुनर्, नरको - निरयनाम्नी दुर्गतिः, त्वमेवासि नरकगतिनामकर्मार्जकत्वात्, च पुनः, शर्मापि-सुखमपि त्वमेवासि सुखसाधनोपायप्रेरकत्वात्, च पुनः, शिवं त्वमेवासि सकलकर्मराहित्येन जायमानत्वात्, च पुनः, कर्माणि-शुभाशुभरूपाणि त्वमेवासि शुभाशुभकर्मार्जकत्वात्, च पुनर्, मनः-शुभाशुभकर्मबन्धकश्चेतो-व्यापारस्त्वमेवासि मनोव्यापारकत्वात्, अत्र 'अत' इत्यध्याहार्यम्, तेनातः कारणाद्अविद्याम्-अनन्तरोक्तार्थवैपरीत्यलक्षणं मिथ्याज्ञानं, 'ममायं सुखदो, ममायं दुःखद’ इत्यादिरूपां मिथ्यावासनां वा जहीहि-त्यज, च पुनर् - अवधेहि-यथा सुखं भवति दुःखं च न भवति तथा सावधानो भव; अत्र वृत्ते प्रतिपादितार्थस्य संवादकगाथा
-
[४६९] अप्पा नई वेअरणी, अप्पा मे कूडसामली ।
अप्पा कामदुधा धेणू, अप्पा मे नंदणं वण ।। [ उत्तराध्ययने २०.३६ ] ।। इत्यादिकाऽवसेया इति । नन्वात्मनो दुःख - नरकादिरूपताऽत्र कथं दर्शितेति चेत् ? - न, धर्म-धर्मिणोरभेदात् संवृतत्वा ऽसंवृतत्वपर्यायभेदेऽपि पर्यायपर्यायिणोरभेदाच्च ।।१६.२।।
रत्न. - अथ सर्वत्रात्मनः प्राधान्यं निरूपयन्नात्मानं सावधानताविषये उपदिशति