Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
३३९
साम्यसर्वस्वाद्वारम् साम्यरहस्यनाम्नी षोडशी पदपद्धतिरिति ।।१६।।
रत्न.-अथास्य ग्रन्थस्योपसंहारवाक्यमाह-इमम्. इति. व्याख्या-इति-अमुना प्रकारेणोक्तमिममध्यात्मकल्पतरुनामानं यो मतिमानधीत्य चित्ते रमयति-क्रीडयति वारंवारं परावर्त्तनेनेति, सोऽयं मतिमान् भवान्नियतं-निश्चितं द्राक-शीघ्रं विरमतिनिवर्त्तते, संसाराद् विरक्तो भवति, अतः-अस्मात् कारणाद्-अस्मिन् मतिमति पुंसि शिवश्री:-मोक्षलक्ष्मी रमेत, कया कृत्वा ? - सहभवा-सहजाता अर्थादात्मना सहेति, ये वैरिणः-क्रोध-मान-माया-लोभ-राग-द्वेषाख्याः षट्, तेषां जयश्रियाजयलक्ष्म्या, तेषां जयेनैव शिवश्रीप्राप्तिरिति, अथवा भवः-संसारः स एव वैरी, तस्य जयश्रिया सहास्मिन् शिवश्री रमेतेत्यपि व्याख्यानमिति । मङ्गलम् ।।१६.८ ।। इति षोडशोऽधिकारः, तत्समाप्तौचाध्यात्मद्रुमनामा ग्रन्थः संपूर्णः । लिखितश्च सवृत्तिकः-उपाध्यायश्रीरत्नचन्द्रगणिभिः, स्वशिष्य पं. मतिचन्द्रगणिपठनार्थे, श्रीगन्धारबन्दिरे द्वितीयाषाढशुदि प्रतिपदि, पुष्ये [४७६] सूर्या-चन्द्रमसौ यावत् यावत् सप्तधरा धराः ।
यावत् तपागणस्तावदयं जयतु पुस्तकः ।।१।। [४७७] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु
लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः | अध्यात्म-कल्पफलदस्य चकार टीकां, तत्राधिकार इति षोडश एष सार्थः ।।१६।।
इति नवमश्रीशान्तरसभावनाऽऽध्यात्मकल्पद्रुमोऽयंग्रन्थो 'जयश्यङ्कः, श्रीमुनिसुन्दरसूरिभिर्विरचितः, श्रीतपागच्छनायक-परमभट्टारकप्रभुश्रीसोमसुन्दरसूरिप्रसादेन, विवृतश्च महोपाध्याय श्रीरत्नचन्द्रगणिभिः, श्रीतपागच्छनायक-परमगुरुभट्टारकश्रीविजयदेवसूरिप्रसादेन ।।
इति नवमशान्तरसभावनात्माध्यात्मकल्पद्रुमनामाऽयं ग्रन्थः संपूर्णः श्रीमुनिसुन्दरसूरिभिर्विरचितः, चिरं जयतु, रञ्जयतु लोकम् ।।

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398