Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala

View full book text
Previous | Next

Page 350
________________ साम्यसर्वस्वाद्वारम् ३३७ त्यर्थः तान्येव महासमुद्रास्तेभ्यः, तान् निर्मथ्येत्यर्थः, यद्-यस्मात् कारणाद् यूयमिहापि मुक्तेः सुखवर्णिकां लभेध्वम्, अपरोऽपि सुधारसो विबुधैः-देवैर्निपीयते महार्णवसमुद्धृतश्च भवति, तं स विबुधाः पीत्वा इहापि देवभवेऽपि मुक्तिसुखवर्णिकां लभन्त इति साम्यस्य सुधारसोपमान-मन्वर्थमिति ।।१६.६ ।। [४७४] शान्तरसभावनात्मा मुनिसुन्दरसूरिभिः कृतो ग्रन्थः । ब्रह्मस्पृहयाऽध्येय: स्वपरहितोऽध्यात्मकल्पतरुरेषः ||१६.७।। धनवि.-अथ ग्रन्थकारस्तच्छिष्यो वा ग्रन्थकारनामविषयप्रयोजनानि सूचयन्नेतद्ग्रंथाध्ययनं कर्त्तव्यमित्युपदिशन्नाह - 'शान्तरसभावना' इति, एषः-अनन्तरमुक्तः, शान्तरसभावनात्मा-नवमरसभावनस्वरूपो मुनिसुन्दरसूरिभिः-संतिकरस्तोत्र-गुर्वावलीप्रभृत्यनेकग्रन्थग्रथनानैपुण्यद्वादशकरैः श्रीतपगच्छप्रकाशनदिनकरैः श्रीसोमसुन्दरसूरिपट्टधरैः श्रीमुनिसुन्दरसूरिगणधरैः कृतो-निर्मितः स्वपरहितः-स्वस्य-ग्रन्थकर्तुः परस्य च-ग्रन्थश्रोतुर्हितःसदैव सुन्दरपरिणामोऽध्यात्मकल्पतरु:-अध्यात्मकल्पद्रुमनामा ग्रन्थः-शास्त्रं ब्रह्मस्पृहया-मुक्तिकामनयाऽध्येया-पठनीयः, अत्र मुनिसुन्दरसूरिभिरित्यनेन ग्रन्थकारनाम सूचितं, शान्तरसभावनेत्यनेन विषयः सूचितः, ब्रह्मस्पृहयेत्यनेन प्रयोजनं सूचितमिति ।।१६.७ ।। रत्न.-अथास्य ग्रन्थस्य सान्वर्थनामकथनपूर्वकमध्ययने प्रवर्तयन्नाह - शान्तरस-भावना...इति. व्याख्या-अध्यात्मकल्पद्रुमनामैष ग्रन्थो विबुधैःपण्डितैरध्येयः-पठनीयोऽथवा ध्येयः-चिन्तनीयः, कया ? - ब्रह्मणः-प्रथमपक्षे ज्ञानस्य, अपरस्मिन् पक्षे मुक्तेः स्पृहया-वाञ्छया, किंलक्षणः ? - शान्तरसस्य भावनमेवात्मा-स्वरूपं यस्य सः, पुनः किंलक्षणः ? - कृतो-निर्मितः, कैः ? - मुनिसुन्दरसूरिभिः, पुनः किंलक्षणः ? - स्वस्य-ग्रन्थकर्तुः परेषां च-शिष्यादीनां हितो-हितकृद्, अध्यात्म-शास्त्रत्वादुभयेषामपि हितकृदित्यर्थः ।।१६.७ ।।

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398