Book Title: Adhyatma Kalpdrum
Author(s): Tattvaprabhvijay
Publisher: Jinprabhsuri Granthmala
View full book text
________________
साम्यसर्वस्वाद्वारम्
रत्न. - निस्सङ्गता तु ममत्वमोचनेन भवतीत्याह
स्त्रीषु धूलिषु..इति. व्याख्या - हे आत्मन् ! त्वं तत्त्वं-सारं समतां-साम्यमेहि
प्राप्नुहि,
निजे-स्वजने , कासु ? स्त्रीषु तथा धूलिषु पुनः कस्मिन् ? पुत्रादौ तथा परे - अन्यस्मिन् वैर्यादौ, तथा कस्यां ? संपदि सुवर्ण-मणिमाणिक्य-गृहादिकायां, पुनः कस्यां ? प्रसरन्ती या आपद्-विपत् तस्यामपि, त्वं किंलक्षणो ? ममतां-ममत्वं मुञ्चसी(ती) ति ममतामुग्, इदमेव सर्वेषु पदार्थेषु स्त्र्यादिषु समताकरणे समर्थं विशेषमिति, येन समताप्रापणेन शाश्वतसुखस्यमोक्षसुखस्याद्वयम्-ऐक्यमेषि - प्राप्नोषीति, अत्र यथा धूलिषु रागं न चिन्तयसि तथा स्त्रीष्वपि मा चिन्तय, यथा च निजेषु द्वेषं न चिन्तयसि तथा परेष्वपि मा चिन्तय, यथा संपद्यागतायां मुदं वहसि, तथाऽऽपदि प्रसृतायां मम पूर्वकर्मक्षयो भवतीति दुःखितो मा भवेतिलक्षणां समतां तत्त्वमेहीति भावः ।।१६.४।।
-
[४७२] तमेव सेवस्व गुरुं प्रयत्ना
-
-
दधीष्व शास्त्राण्यपि तानि विद्वन् ! | तदेव तत्त्वं परिभावयात्मन् !,
येभ्यो भवेत् साम्यसुधोपभोगः ।।१६.५ ।।
३३५
[४९२] "दृढतामुपैति वैराग्यवासना येन येन भावेन ।
धनवि . -
-
I. -अथ साम्यस्यैव सकलकमनीयपदार्थसार्थसारतां दर्शयन्नुपदिशति'तमेव' इति, हे विद्वन् ! धीमन् ! तमेव गुरुं-धर्मोपदेष्टारं प्रयत्नात् सेवस्व-भजस्व, च पुनः प्रयत्नाच्छास्त्राण्यपि ग्रन्थानपि तान्यधीष्व - पठ, च पुनस्तदेव तत्त्वं-परमार्थसद्वस्तु ध्येयमित्यर्थो विपरिभावय - विचिन्तय ध्यानविषयं कुरु, येभ्योगुरु-शास्त्राध्ययन-तत्त्वचिन्तनेभ्यः साम्यसुधोपभोगः- समताऽमृतास्वादो भवेत् - स्यादिति; अत्रार्थे संवाद:
तस्मिंस्तस्मिन् कार्यः काय - मनो- वाग्भिरभ्यासः ।। [१६]।।"
१. धनवि.-टीकायां तत् त्वं' इति द्विपदी व्याख्या. अत्र तु 'त्वं' पदमध्याहृत्य 'तत्त्वं' इति एकपदम् व्याख्यातम् ।

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398