SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ साम्यसर्वस्वाद्वारम् रत्न. - निस्सङ्गता तु ममत्वमोचनेन भवतीत्याह स्त्रीषु धूलिषु..इति. व्याख्या - हे आत्मन् ! त्वं तत्त्वं-सारं समतां-साम्यमेहि प्राप्नुहि, निजे-स्वजने , कासु ? स्त्रीषु तथा धूलिषु पुनः कस्मिन् ? पुत्रादौ तथा परे - अन्यस्मिन् वैर्यादौ, तथा कस्यां ? संपदि सुवर्ण-मणिमाणिक्य-गृहादिकायां, पुनः कस्यां ? प्रसरन्ती या आपद्-विपत् तस्यामपि, त्वं किंलक्षणो ? ममतां-ममत्वं मुञ्चसी(ती) ति ममतामुग्, इदमेव सर्वेषु पदार्थेषु स्त्र्यादिषु समताकरणे समर्थं विशेषमिति, येन समताप्रापणेन शाश्वतसुखस्यमोक्षसुखस्याद्वयम्-ऐक्यमेषि - प्राप्नोषीति, अत्र यथा धूलिषु रागं न चिन्तयसि तथा स्त्रीष्वपि मा चिन्तय, यथा च निजेषु द्वेषं न चिन्तयसि तथा परेष्वपि मा चिन्तय, यथा संपद्यागतायां मुदं वहसि, तथाऽऽपदि प्रसृतायां मम पूर्वकर्मक्षयो भवतीति दुःखितो मा भवेतिलक्षणां समतां तत्त्वमेहीति भावः ।।१६.४।। - [४७२] तमेव सेवस्व गुरुं प्रयत्ना - - दधीष्व शास्त्राण्यपि तानि विद्वन् ! | तदेव तत्त्वं परिभावयात्मन् !, येभ्यो भवेत् साम्यसुधोपभोगः ।।१६.५ ।। ३३५ [४९२] "दृढतामुपैति वैराग्यवासना येन येन भावेन । धनवि . - - I. -अथ साम्यस्यैव सकलकमनीयपदार्थसार्थसारतां दर्शयन्नुपदिशति'तमेव' इति, हे विद्वन् ! धीमन् ! तमेव गुरुं-धर्मोपदेष्टारं प्रयत्नात् सेवस्व-भजस्व, च पुनः प्रयत्नाच्छास्त्राण्यपि ग्रन्थानपि तान्यधीष्व - पठ, च पुनस्तदेव तत्त्वं-परमार्थसद्वस्तु ध्येयमित्यर्थो विपरिभावय - विचिन्तय ध्यानविषयं कुरु, येभ्योगुरु-शास्त्राध्ययन-तत्त्वचिन्तनेभ्यः साम्यसुधोपभोगः- समताऽमृतास्वादो भवेत् - स्यादिति; अत्रार्थे संवाद: तस्मिंस्तस्मिन् कार्यः काय - मनो- वाग्भिरभ्यासः ।। [१६]।।" १. धनवि.-टीकायां तत् त्वं' इति द्विपदी व्याख्या. अत्र तु 'त्वं' पदमध्याहृत्य 'तत्त्वं' इति एकपदम् व्याख्यातम् ।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy