________________
३३४
श्रीअध्यात्मकल्पद्रुमे नवविधपरिग्रहे ममताराहित्यम्, एहि-आ समंतादेहि "गत्यर्थाः प्राप्त्यर्था"[ ] इति वचनात प्राप्नुहीत्यर्थः; हे विदवन ! - हे धीमन् ! त्वम्, इति वक्ष्यमाणम् अवेहि-जानीहि, इतीति किमित्याह-शुचां-शोकानां मूलं-मूलकारणं ममतैवनिःसङ्गताऽभाव एव भवति, सुखाना-सकलसौख्यानां मूलं-प्रधानकारणं समतैवसाम्यमेव भवतीति ।।१६.३।।
रत्न.-अथ सर्वत्र निस्सङ्गतायाः प्राधान्यमुपदिशति -
निस्सङ्गतामेहि..इति. व्याख्या-हे आत्मन् ! तत्-तस्माद्धेतोः, त्वं सदा निस्सङ्गतां-स्त्री-धन-गृहादिसङ्गराहित्यमेहि-प्राप्नुहि, कस्मात् ? - साम्यस्य भावो-भावनं चिन्तनं तस्मात्, केषु ? - अशेषेष्वप्यर्थेषु, सर्वेषां पदार्थानामनित्यत्वादित्यर्थः, हे विद्वन ! - पण्डित ! शुचां-शोकानां मूलं-कारणं ममता एव वर्तते, सर्वेषां सुखानां मूलं समता-साम्यं वर्त्तते इति चावेहि, इदमेव ज्ञात्वा निस्सङ्गतामेहीति पूर्वार्धसङ्गतिरिति ।।१६.३।। [४७१] स्त्रीषु धूलिषु निजे च परे वा,
संपदि प्रसरदापदि चात्मन् ! तत् त्वमेहि समतां ममतामुग्
येन शाश्वतसुखाऽद्वयमेषि ||१६.४।। धनवि.-अनन्तरं सात्म्यतः सकलपदार्थविषयिणी समता निर्ममता चोपदिष्टा, अथ च विशेषविषयिणी समतां चोपदिशति -
'स्त्रीषु' इति, हे आत्मन् ! तत्-तस्मात् स्त्रीषु-ललनासु, धूलिषु-मार्गपतितरेणुषु, च पुनर्, निजे-स्वजने, परे च-परजने वैरिणि वा, च पुनः, संपदि-राज्यादिसमृद्धौ प्रसरदापदि च-निःस्वतादि-लक्षणायामागच्छद्विपत्तौ ममतामुग्-इष्टानिष्टवस्तुनि ममत्वत्यजनशीलः सन् त्व समता-साम्यमेहि-प्राप्नुहीति, येन समताकरणेन शाश्वतसुखाद्वयं-शाश्वतसुखेन-मोक्षसुखेन सहाऽद्वयम्-ऐक्यम्, एषि-अधिगच्छसीत्यर्थः ||१६.४।।