SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३३९ साम्यसर्वस्वाद्वारम् साम्यरहस्यनाम्नी षोडशी पदपद्धतिरिति ।।१६।। रत्न.-अथास्य ग्रन्थस्योपसंहारवाक्यमाह-इमम्. इति. व्याख्या-इति-अमुना प्रकारेणोक्तमिममध्यात्मकल्पतरुनामानं यो मतिमानधीत्य चित्ते रमयति-क्रीडयति वारंवारं परावर्त्तनेनेति, सोऽयं मतिमान् भवान्नियतं-निश्चितं द्राक-शीघ्रं विरमतिनिवर्त्तते, संसाराद् विरक्तो भवति, अतः-अस्मात् कारणाद्-अस्मिन् मतिमति पुंसि शिवश्री:-मोक्षलक्ष्मी रमेत, कया कृत्वा ? - सहभवा-सहजाता अर्थादात्मना सहेति, ये वैरिणः-क्रोध-मान-माया-लोभ-राग-द्वेषाख्याः षट्, तेषां जयश्रियाजयलक्ष्म्या, तेषां जयेनैव शिवश्रीप्राप्तिरिति, अथवा भवः-संसारः स एव वैरी, तस्य जयश्रिया सहास्मिन् शिवश्री रमेतेत्यपि व्याख्यानमिति । मङ्गलम् ।।१६.८ ।। इति षोडशोऽधिकारः, तत्समाप्तौचाध्यात्मद्रुमनामा ग्रन्थः संपूर्णः । लिखितश्च सवृत्तिकः-उपाध्यायश्रीरत्नचन्द्रगणिभिः, स्वशिष्य पं. मतिचन्द्रगणिपठनार्थे, श्रीगन्धारबन्दिरे द्वितीयाषाढशुदि प्रतिपदि, पुष्ये [४७६] सूर्या-चन्द्रमसौ यावत् यावत् सप्तधरा धराः । यावत् तपागणस्तावदयं जयतु पुस्तकः ।।१।। [४७७] श्रीशान्तिचन्द्रवरवाचकदुग्धसिन्धु लब्धप्रतिष्ठवरवाचकरत्नचन्द्रः | अध्यात्म-कल्पफलदस्य चकार टीकां, तत्राधिकार इति षोडश एष सार्थः ।।१६।। इति नवमश्रीशान्तरसभावनाऽऽध्यात्मकल्पद्रुमोऽयंग्रन्थो 'जयश्यङ्कः, श्रीमुनिसुन्दरसूरिभिर्विरचितः, श्रीतपागच्छनायक-परमभट्टारकप्रभुश्रीसोमसुन्दरसूरिप्रसादेन, विवृतश्च महोपाध्याय श्रीरत्नचन्द्रगणिभिः, श्रीतपागच्छनायक-परमगुरुभट्टारकश्रीविजयदेवसूरिप्रसादेन ।। इति नवमशान्तरसभावनात्माध्यात्मकल्पद्रुमनामाऽयं ग्रन्थः संपूर्णः श्रीमुनिसुन्दरसूरिभिर्विरचितः, चिरं जयतु, रञ्जयतु लोकम् ।।
SR No.022283
Book TitleAdhyatma Kalpdrum
Original Sutra AuthorN/A
AuthorTattvaprabhvijay
PublisherJinprabhsuri Granthmala
Publication Year2016
Total Pages398
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy