________________
३४०
श्रीअध्यात्मकल्पद्रुमे धनविजयटीकाप्रशस्ति: [४७८] श्रीहीरविजयसूरीश्वरशिष्यै रामविजयविबुधवरैः ।
श्रीसुमतिविजयवाचकशिष्यैरपि सूरविजयज्ञैः ।।१।। [४७९] संभूय शोधिताऽसावध्यात्मसुरद्रुमस्य पदघटना ।
निर्दोषैर्दोषज्ञैर्निर्दोषा खलु विधेयेति ।।२।।
रत्नचन्द्रटीका प्रतपुष्पिका रत्नटी.-इति नवमशान्तरसभावनात्माऽध्यात्मकल्पद्रुमोऽयंग्रन्थः जयश्यङ्कः श्रीमुनिसुन्दरसूरिभिः समर्थितः, श्रीतपागच्छ-नायकपरमगुरुभट्टारकप्रभुश्रीसोमसुन्दरसूरिप्रसादेन, विवृतश्च महोपाध्यायश्री-सकलचन्द्रगणिशिष्योत्तमउपाध्यायश्रीशान्तिचन्द्रगणिशिष्यरत्नउपाध्याय-श्रीरत्नचन्द्रगणिभिः श्रीतपागच्छनायकप्रवर्द्धमानसागरकुमतनिवारणजगदुपकारकृद्-भट्टारकप्रभुयुगप्रधानसमानश्री ५ विजयदेवसूरिसूरिदेवानां प्रसादेन दीक्षागुरुविद्यागुरु-श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रप्रमेयरत्नमञ्जूषा-वृत्तिकारकमहोपाध्यायश्रीशान्तिचन्द्रगणिप्रसादेन ।। एवं मुद्रितपुस्तके पाठः
१. धन टी. - प्रतस्य पुष्पिका - संवत् १९२६ रा ना वर्षे माघमासे कृष्णपक्षे, तिथौ ३ तृतीयां, सौम्य वासरे मुंबई मध्ये, ब्राह्मण सिरोहिया चतुर्भुजेण लिखितम्, मुनिश्री वृद्धिविजय आत्मार्थे लखावितम्