________________
रत्नचन्द्रगणिटीकाप्रशस्ति:
[४८०] श्रीवीरपट्टाम्बुजभास्कराभः, श्रीमत्सुधर्मा गणभृद् बभूव । अद्यापि वाणी प्रसरीसरीति, यस्य प्रभोः पण्डितवक्त्रवासा ।।१।। [४८१] बभूव तत्पट्टपरम्परायां, सूरिर्जगच्चन्द्र इति प्रसिद्धः । लेभे तपागच्छ इति प्रसिद्धिं, यस्माद् गणोऽयं प्रथितावदातः ।।२।। [४८२] परम्परायामपि तस्य जातः, साधुक्रियामार्गविकासभास्वान् ।
आनन्दपूर्वो विमलाग्रसूरिर्जगज्जनानन्दकरः प्रतीतः ।।३।। [४८३] तस्यापि पट्टे विजयाग्रदानसूरिर्बभूव प्रबलप्रतापः । राशिं गुणानां किल यस्य वारां-राशेः समानीकुरुते कवीन्द्रः ।।४।। [४८४] बभूव सूरिः किल तस्य पट्टे, श्रीहीरपूर्वो विजयोऽर्जितश्रीः । 'लेभे प्रतिष्ठां किल भूयसी यो नरेन्द्रदेवेन्द्रकृतामजस्रम् ।।५।। [४८५] तस्यापि पट्टेऽजनि सूरिराजः, सेनोत्तरश्रीविजयो यशस्वी । ततार जैनागमवारिराशिं, नावा स्वबुद्ध्योत्तमभाग्यभाग् यः ।।६।। [४८६] विजयते किल तत्पदसेवया, सुलभसूरिपदः प्रणयी गुरौ । विजयदेवगुरुर्गरिमाम्बुधिस्तपगणे गगने किमु चन्द्रमाः ? |७|| [४८७] श्रीआनन्दविमलगुरुशिष्याः श्रीसहजकुशलनामानः । लुपाकमतमपास्याङ्गजमलमिव निर्मला जाताः ।।८।। [४८८] तेषां शिष्यमुख्या वाचकवरसकलचन्द्रनामानः | चन्द्रा इव वचनसुधां ववृषुर्ये विबुधवरपेयाम् ।।९।। [४८९] श्रीशान्तिचन्द्रा वरवाचकेन्द्रास्तेषां च शिष्या बहुशिष्यमुख्याः ।
बभूवुरुद्दामगुणैरुपेताः, प्रभावकाः श्रीजिनशासनस्य ||१०|| १. प्राप प्रतिष्ठामसां स सूरि-न..मु० । २. भागधेयः मु० । ३. ०लविबुधवराः - मु० ।