________________
३४२
श्रीअध्यात्मकल्पद्रुमे [४९०] श्रीमज्जम्बूद्वीपप्रज्ञप्तेर्वृत्तिसूत्रणे चतुराः । येषां बुद्धिं सुरगुरुरपीहते विश्वगेयशुभयशसाम् ।।११।। "इति गीत्यार्या" [४९१] तेषां गुरूणां गुणसागराणां, प्रसादलेशं समवाप्य चक्रे । अध्यात्मकल्पद्रुमवृत्तिमेनां, परोपकृद् वाचकरत्नचन्द्रः ।।१२।। [४९२] श्रीविद्यमानगच्छाधिराजवरविजयदेवसूरीणाम् । प्राप्यानुज्ञां तपगणगगनाङ्गणभास्करश्रीणाम् ।।१३।। [४९३] युग-मुनि-रस-शशिवर्षे मासीषे विजयदशमिकादिवसे । शुक्लेऽध्यात्मसुरद्रुमवृत्तिश्चक्रे मया ललिता ||१४।। (युग्मम्) [४९४] अध्यात्मशास्त्रे विवृतिं विवृण्वता, यदर्जितं पुण्यमनन्यचेतसा । सङ्ग्रेषु कल्याणपरम्परा परा, प्रवर्त्ततां तेन दिने दिनेऽधिका ।।१५।। [४९५] मात्सर्यमुत्सार्य कृतज्ञलोकैः, संशोधनीया परिवाचनीया । धर्मोपदेशेन च लेखनीया, वृत्तिः किलैषा च प्रवर्तनीया ।।१६।। [४९६] अनुष्टुभां सहस्र द्वे, तथोपरि चतुःशती । एकोनषष्ठ्यभ्यधिका, वर्धते वर्णयामलम् ।।१७।। ग्रन्थाग्र २४५९, श्लोकाः अक्षर २. इत्यध्यात्मकल्पद्रुमवृत्तिः अध्यात्मकल्पलतानाम्नी चिरं जयतु ।
मुद्रितप्रतौ त्वित्थं पुष्पिका - १. श्रुत. मु० । २. नाम्नी संपूर्णा - मु० । ३. संवत् १६७४ वर्षे आश्विनमासि शुक्लदशम्यां श्रीसूरतबंदरे उपाध्यायश्रीरत्नचन्द्रगणिभिरध्यात्मकल्पलता विरचिता || श्रीप्रद्युम्नचरित्र १ श्रीसम्यक्त्वसप्ततिसम्यक्त्वरत्नप्रकाशनामबालावबोध २ श्रीसमवसरणस्तवबालावबोध ३ श्रीहितोपदेश ४ भ्रातृभिः सह श्रीभक्तामरस्तव १ श्रीकल्याणमन्दिरस्तव २ श्रीदेवाप्रभोस्तव ३ श्रीधर्मस्तव २ श्रीऋषभवीरस्तव ५ श्रीकृपारसकोष ६ श्रीनैषधमहाकाव्य ७ श्रीरघुवंशमहाकाव्य ८ वृत्तिभगिनीभिः सह रममाणा श्रीअध्यात्मकल्पद्रुम-वृत्तिरध्यात्मकल्पलतानाम्नी विबुधपाणिगृहीता बहुसंतानपरंपरावती चिरं जयतु ।।