________________
३३८
श्रीअध्यात्मकल्पद्रुमे [४७५] इममिति मतिमानधीत्य चित्ते,
रमयति यो विरमत्ययं भवाद् द्राग् । स च नियतमतो रमेत चास्मिन्, सह भववैरिजयश्रिया शिवश्रीः ||१६.८।।
धनवि.-अथ ग्रन्थकारः स्वकृतग्रन्थस्याव्युच्छित्तिनिमित्तं प्रान्तमङ्गलाचरणकरणव्याजेन स्वप्रतिज्ञातजयश्यङ्कमुपदर्शयन्नेतद्ग्रन्थाध्ययने एतद्ग्रन्थोक्ताचरणे च फलमाह, अथवा पूर्वपद्ये पठनफलमुपदर्शितमथ च पठनानन्तरं तत्रैव मनोरमणे फलं दर्शयति -
'इममिति' इति, यो मतिमान्-बुद्धिमान् पुमान्, इमम्-अनन्तरोक्तं श्रुतिप्रत्यक्षमध्यात्मकल्पद्रुमाभिधं ग्रन्थम्, अधीत्य-अध्ययनविषयीकृत्य, इतिग्रन्थोक्ताचरणप्रकारेण, इमम् एव ग्रन्थं चित्ते-मनसि रमयति-पुनःपुनरनुभवति, सोऽयम्-अध्ययनानन्तरं पुनःपुनरनुभविता पुमान्, भवात्-संसारात्, द्राग्-शीघ्र विरमति-निवर्त्तते; अतः-अस्माद् भवविरमणात्, अस्मिन्-ग्रन्थाध्ययनानुभवितरि पुंसि च, भववैरिजयश्रिया सह शिवश्रीः मोक्षलक्ष्मीः कल्याणकमला वा रमेतक्रीडां कुर्यात्; अत्र भवः-संसारः, स एव वैरी-शत्रुः, तस्य जयश्रीः-विजयलक्ष्मीः, तया भववैरिजयश्रिया; अत्र जयश्री इत्यनेन ग्रन्थस्यास्य जयश्यकता दर्शिता, तदर्शनेन चैतद्ग्रन्थकारस्य स्वप्रतिज्ञानिर्वाहोऽपि समर्थितो भवतीति ।।१६.८ ।।
इति नवमश्रीशान्तरसभावनात्मस्वरूपोऽध्यात्मकल्पद्रुमग्रन्थो जयश्यङ्कः श्रीमुनिसुन्दरसूरिभिः कृतः समाप्तः । श्रियेऽस्तु शुभं भवतु ।
इति श्रीतपागच्छनायकभट्टारकश्रीमुनिसुन्दरसूरिनिर्मितस्य तत्पट्टपरम्पराप्रभावकपातसाहश्रीअकब्बरप्रतिबोधकभट्टारकश्रीहीरविजयसूरिश्रीविजयसेनसूरिभावितार्थस्य षोडशसाखस्या-ऽध्यात्मकल्पद्रुमस्या-ऽधिरोहिणीटीकायां सकलशास्त्रारविन्दप्रद्योतनमहोपाध्यायश्रीकल्याणविजयगणिशिष्योपाध्यायश्रीधनविजयगणिविरचितायां