Book Title: Gudhartha Tattvaloka Vyapti Panchak Vrutti
Author(s): Dharmadattasuri
Publisher: Dharmadattasuriji
Catalog link: https://jainqq.org/explore/009521/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ક્રમ અહો શ્રુતજ્ઞાનમ્ ગ્રંથ જીર્ણોદ્ધાર – સંવત ૨૦૬૬ (ઈ. ૨૦૧૦) . શ્રી આશાપૂરણ પાર્શ્વનાથ જૈન જ્ઞાનભંડાર - સંયોજક- બાબુલાલ સરેમલ શાહ્ हीरान सोसायटी, रामनगर, साबरमती, अमावाह - 04 (मो.) ९४२५५८५८०४ (ख) २२१३२५४३ (२हे.) २७५०५७२० પ્રાયઃ જીર્ણ અપ્રાપ્ય પુસ્તકોને સ્કેન કરાવીને સેટ નં.-૨ ની ડી.વી.ડી.(DVD) બનાવી તેની યાદી या पुस्तठी वेबसाहट परथी पक्ष SIGनलोड करी सारी. પુસ્તકનું નામ श्री सिद्धहेम बृहद्वृत्ति बृहद्न्यास अध्याय-६ 055 056 विविध तीर्थ कल्प ભારતીય જૈન શ્રમણ સંસ્કૃતિ અને લેખનકળા 058 सिद्धान्तलक्षणगूढार्थ तत्त्वलोकः 059 व्याप्ति पञ्चक विवृत्ति टीका 060 જૈન સંગીત રાગમાળા 061 चतुर्विंशतीप्रबन्ध (प्रबंध कोश) 062 व्युत्पत्तिवाद आदर्श व्याख्यया संपूर्ण ६ अध्याय 063 चन्द्रप्रभा मकौमुदी 064 विवेक विलास पञ्चशती प्रबोध प्रबंध 065 066 सन्मतितत्त्वसोपानम् 067 068 | मोहराजापराजयम् क्रियाकोश 069 070 कालिकाचार्यकथासंग्रह 071 सामान्यनिरुक्ति चंद्रकला कलाविलास टीका जन्मसमुद्रजातक मेघमहोदय वर्षप्रबोध पहेशभाला होघट्टी टीडा गुर्भरानुवाह 072 073 074 075 076 077 संगीत नाट्य उपावली જૈન સામુદ્રિકનાં પાંચ ગ્રંથો જૈન ચિત્ર કલ્પબૂમ ભાગ-૧ જૈન ચિત્ર કલ્પબૂમ ભાગ-૨ ભારતનાં જૈન તીર્થો અને તેનું શિલ્પસ્થાપત્ય 078 079 शिल्प चिन्तामशि लाग-१ 080 बृह६ शिल्प शास्त्र भाग - १ 081 बृह६ शिल्पशास्त्र लाग-२ 082 बृह६ शिल्प शास्त्र लाग-3 083 आयुर्वेधना अनुभूत प्रयोगो लाग - १ 084 085 કલ્યાણ કારક विश्वलोचन कोश કથા રત્ન કોશ ભાગ-1 086 087 5था रत्न प्रेश लाग-2 088 હસ્તસગ્રીવનમ્ એન્દ્રચતુર્વિશતિકા 089 સમ્મતિ તર્ક મહાર્ણવાવતારિકા 090 ભાષા सं सं शुभ. सं सं शु. सं सं सं सं/ ४. सं सं गु४. शुभ. शुभ. शुभ. शुभ. शुभ. शुभ. ४. शुभ. शुभ. शुभ. सं./हिं र्त्ता-टीडाडार-संचा शुभ. पू. हेमसागरसूरिजी म.सा. सं पू. चतुरविजयजी म.सा. श्री मोहनलाल बांठिया सं/हिं सं/गु४. श्री अंबालाल प्रेमचंद सं. सं/हिं सं/हिं शुभ. शुभ. सं. सं.. सं.. पू. लावण्यसूरिजी म.सा. पू. जिनविजयजी म.सा. पू. पूण्यविजयजी म.सा. श्री धर्मदत्तसूरि श्री धर्मदत्तसूरि श्री मांगरोळ जैन संगीत मंडळी श्री रसिकलाल हीरालाल कापडीआ श्री सुदर्शनाचार्य पू. मेघविजयजी गणि श्री दामोदर गोविंदाचार्य पू. मृगेन्द्रविजयजी म. सा. पू. लब्धिसूरिजी म.सा. श्री वामाचरण भट्टाचार्य श्री भगवानदास जैन श्री भगवानदास जैन श्री हिम्मतराम महाशंकर जानी श्री साराभाई नवाब श्री साराभाई नयाब श्री विद्या साराभाई नवाब श्री साराभाई नवाब श्री मनसुखलाल भुदरमल श्री जगन्नाथ अंबाराम श्री जगन्नाथ अंबाराम श्री जगन्नाथ अंबाराम पू. कान्तिसागरजी श्री वर्धमान पार्श्वनाथ शास्त्री श्री नंदलाल शर्मा श्री बेचरदास जीवराज दोशी श्री बेचरदास जीवराज दोशी पू. मेघविजयजीगणि पूज. यशोविजयजी, पू, पुण्यविजयजी आचार्य श्री विजयदर्शनसूरिजी પૃષ્ઠ 296 160 164 202 48 306 322 668 516 268 456 420 638 192 428 406 308 128 532 376 374 538 194 192 254 260 238 260 114 910 436 336 230 322 114 560 Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ “અહો શ્રુતજ્ઞાન” ગ્રંથ જીર્ણોદ્વાર ૫૯ વ્યાપ્તિપંચક (વિવૃત્તિ ટીકા) : દ્રવ્યસહાયક : સંઘસ્થવિર પ.પૂ. બાપજી મ.સા.ના સમુદાયના પ્રવચનપ્રભાવક પ.પૂ. આચાર્ય શ્રી નરરત્નસૂરિજી મ.સા. ના આજ્ઞાવર્તિની ૫.પૂ. સાધ્વીજી શ્રી જયવંતાશ્રીજી મ.સા.ની પ્રેરણાથી શ્રી અભયસાગરજી આરાધના ભવન, સાબરમતી, અમદાવાદના જ્ઞાનદ્રવ્યમાંથી બનાવેલ છે. : સંયોજક : શાહ બાબુલાલ સરેમલ બેડાવાળા શ્રી આશાપૂરણપાર્શ્વનાથ જૈન જ્ઞાનભંડાર શા. વિમળાબેન સરેમલ જવેરચંદજી બેડાવાળા ભવન હીરાજૈન સોસાયટી, સાબરમતી, અમદાવાદ-૩૮૦૦૦૫ (મો.) ૯૪૨૬૫૮૫૯૦૪ (ઓ.) ૨૨૧૩૨૫૪૩ (રહે.) ૨૭૫૦૫૭૨૦ સંવત ૨૦૬૬ ઈ.સ. ૨૦૧૦ Page #4 --------------------------------------------------------------------------  Page #5 -------------------------------------------------------------------------- ________________ अशुद्धम् द्वि तिस्थ दा वार स्य न येका ष्टसत् वह्निगतै भप ज्मेन स्वसामा प्रस्थामस निलेशे शूयस्यतद भूम गितicat कालित केन सामान्यीय शुद्धिपत्रम् | शुद्धम् द्धि त्य पदा वा स्यच नससर्गेण वेवैका ष्टस्सन् वहित्वगतै भय गमेन सामा वस्थामस निवेशे पृ० प० ४ १९ धूम गिल्वे कालिकेन साध्यसामान्यीय ક २३ ક १४ २० ु w 67 ८ ه م my 6 ू om ६ 0 १० १२ २७ १४ ३ १४ २९ १५ २ १६ २९ शूयस्यसाध्यतावच्छे १८ १३ दकसम्बन्धत्वेकालिके - नसंयोगत्वस्यतद २० १५ २० १७ २५ १८ २६ २९ Page #6 -------------------------------------------------------------------------- ________________ [२] অযুত্ত্ব vorror २९ ९ २९ २० शुद्धम् भाव भावत्व कत्व कले अशुद्धम् शुद्धम् घटत्वएब घटएव साध्याभावाभावाव साध्याभावत्वाव स्वादित्यादित्य त्वादित्य भावाद्य भावत्वाद्य स्वानि स्वनि नच्छिन्न वच्छिन्न अधिकरणतानिष्ठाधिकरणतानिष्ठाधिकरण अधिकरणतानिष्ठा तानिरूपितानिरू धिकरणतानिरू त्वा त्रा त्राति त्वेपि त्वेप्य नच नचा ता Page #7 -------------------------------------------------------------------------- ________________ ॥ श्रीः॥ व्याप्तिपञ्चकवि ॥ श्रीगणेशाय नमः ॥ व्याजस्वीकृतसेवया विधुरभूदग्रेसरः श्रीमता. म्मानव्याहतिकैतवावनमनादीशस्त्रिलोकीपतिः। सम्भिन्नाब्जकुलप्रसूतिविभवादम्भोजमब्जालयो यस्य श्रीमगिरिजापदाम्बुजयुगन्तत्स्यादीष्टप्रदम् ॥१॥ जगदीशकृतव्याप्तिग्रन्थव्याख्यावलम्बिनी। विवृतिर्धर्मदत्तेन मैथिलन वितन्यते ॥२॥ *दीधितौ समारब्धेति* समीचीनभूतकालिकारम्भविषयेत्यर्थः। आरम्भश्चाद्यकृतिः, प्रकृते कृतावाद्यत्वञ्च तत्कृतिसमवायसमवेतप्रा. माण्यपरीक्षागाचरकृतिक्षणध्वंसानधिकरणक्षणवृत्तित्वमासमवेतान्त. निवेशादन्यपुरुषकृतपरीक्षायाः पूर्ववृत्तत्त्वेऽपिन क्षतिः । आरब्धत्वकथनेन प्रामाण्यपरीक्षाया वृत्तत्वनिरासेन तदुपयोगिव्याप्तिग्रहोपायप्रतिपादनार्वैफल्यशङ्का निरस्ता । समीचीनत्वञ्चेष्टसाधनत्वादिप्र. माजन्यत्वं तेन कृतेः संवादित्वलाभेन तद्विषयपरीक्षा तत्कारणव्याप्तिग्रहोपायप्रतिपादन तत्साधनव्याप्तिस्वरूपनिरूपणानां फलवत्वलामे. नोपादेयत्वव्याक्तः । अनुमानप्रामाण्यपरीक्षेति* । परमतानिराकरणपूर्वकस्वमतव्यवस्थापनम्परीक्षा । परमतं परकीयमतिविषयः अनु. मानप्रामाण्याभावः तन्निराकरणं तज्ज्ञानेऽप्रामाण्यज्ञापनं यद्वा परमतं परमतिः सा च नानुमानं प्रमाणामत्याकारिका तन्निराकरणं तत्रा. प्रामाण्यज्ञापनं तच्चासिद्ध्यायुद्भावनं तत्पूर्वकं तदुत्तरकालिकं स्वम. तमनुमानप्रामाण्यं तद्यवस्थापनमप्रामाण्यशानानास्कन्दिततगोचरज्ञानानुकूलव्यापारः । अनुमानाप्रामाण्यशानेऽसत्यप्रामाण्यज्ञाने, अ. नुमानप्रामाण्यग्रहोत्पत्तरसम्भवेन व्यापारस्य न ज्ञानजनकत्वसम्भ. व इति भवति तस्य परमतनिराकरणपूर्वकत्वम् , अनुमानप्रामाण्यम Page #8 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकवितिः। तिपादकग्रन्थस्य' परीक्षात्वोक्त्या केवलस्वमतप्रतिपादकत्वनिराक रणादशेषजिशास्वध्ययनयोग्यतालाभेन व्याप्तिस्वरूपनिरूपणस्यापि तल्लाभः ॥ *कारणीभूतति* ॥ यत्रानवस्थादुस्थतक्कानिवर्त्यव्यभि. चारशङ्कावरुद्धोत्पत्तिकव्याप्तिग्रहासत्वानबन्धनानुामतिरूपफलानुत्पत्याऽप्रामाण्यमनुमानस्य मन्यन्ते परे चावाकादयस्तत्र नानभिधाय व्याप्तिग्रहोपायं प्रामाण्यमनुमानस्य व्यवस्थापयितुं शक्यमिति व्या. प्तिग्रहोपायप्रतिपादनस्य भवति परीक्षाकारणत्वामति भावः । व्याप्तिस्वरूपानरूपणस्य परीक्षाकारणत्वेऽपि व्याप्तिग्रहोपायप्रतिपादनस्यापि तादृशतया व्याप्तिग्रहोपायश्च वक्ष्यत इत्यनेन तत्प्रतीक्षाविधानमनुचितमित्याशङ्कानिरासाय व्याप्तिस्वरूपमविद्वांसंप्रति व्याप्तिग्रहोपायप्रतिपादनस्याशक्यतया तत्प्रथमं स्वरूपाभिधानवी. जभूतन्तदुपजीव्यत्वं दर्शयितुं परीक्षाकारणव्याप्तिग्रहोपायकारणत्वेन स्वरूपनिरूपणं दर्शितं प्रतिपादननिदानमित्यनेन . यद्यप्युक्तशङ्कानि. वृतिः कारणान्तावचनेपि भवत्येव तथाप्यनुमानप्रामाण्यनिरूपणानरूपितोयोद्धातसङ्गतिलाभाय तदुक्तिः। व्याप्तिस्वरूपगोचरपूर्वपक्षस्यैपप्रथममभिहितत्वन व्याप्तिस्वरूपनिरूपणस्याक्रियमाणत्वेऽपि तदनु. कलगोचरकृतर्विद्यमानतयाssरभ्यमाणत्वन्तत्रास्त्येवेति कुरुत इत्यनुकारभत इत्युक्तमिति । मन्वित्यादिनेतिमूले जनन्वित्यादि नन्धि. तिप्रश्नः, अनुमितरतरभेदानुमितेः, कारणं यद्याप्तिविशिष्टवैशिष्ट्या. वगाहिशानजन्यज्ञानत्वरूपहेतुस्तद्धटकव्याप्तिज्ञानस्य विषयकेत्यर्थः। यद्वा अनुमितिकारणपरामर्शविषयव्याप्ति केत्यर्थः। एतेन घटकत्वार्थकसप्तम्या समासस्य काचिकत्वऽपि कर्मधारयनार्थलाभे गुरुतरसमासान्तराश्रयणस्यायुक्तत्वेऽपि च न क्षतिः, उक्तार्थस्य कर्मधारयलभ्यत्वात्। अत्र का व्याप्तिरित्याभधानेनुमानप्रामाण्योपपावकत्वल. क्षणोपोद्धातसङ्गन्यलाभाज्झान इत्यन्तमनुीमत्युपपादिका व्याप्तिः के. स्थाभिधाने कथमनुमित्युपपादिकेत्याकासानिवर्तकस्य वक्तव्यतापस्यानुमितिहेतुव्याप्तिज्ञान इति । नचवमनुमितिहेतुशान इत्येववक्त. व्यमनर्धा पुनरुक्तिरिति वाच्यम् । अनुमित्यनुपपादकस्याप्यनुमिति हेतुसमूहालम्वनज्ञानविषयत्वसम्भवेनानुमित्युपपादकत्वाप्राप्तेः तदु. तौ च व्याप्तिविशिष्टशानेऽनुमितिजनकत्वान्वये विशेष्यतावच्छेदके सति बाधके विशेषणप्रयोजकत्वनियमेनोक्तावच्छेदकत्वात्मकप्रयोज. Page #9 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविवृतिः । कत्वस्य लाभेन जनकतावच्छेदके तत्र सर्वजनसिद्धप्रयोजकत्वस्त्र लाभसम्भवादिति । *व्याप्तिः । व्याप्तिपदार्थः, तेन व्याप्तेरनुमिति: जनकतावच्छेदकरूपत्वेपि ज्ञान इत्यन्तस्य न वैयर्थ्यम्, सप्तम्या चित्रयत्वमर्थः, किमो जिज्ञासा, साच व्याप्तिपदार्थतावच्छेदकावच्छिन्नशानं जायतामित्याकारिका ॥ *नतावदव्यभिचरितत्वमिति व्याप्तिरित्यनुषञ्जनीयम् । अनुमितिजनकतावच्छेदकमिति तदर्थः, अव्यभिचारसत्वमव्यभिचरितत्वपदार्थः । तेन साध्याभाववदवृत्तित्वादिसाधा रणस्याव्यभिचरितत्वत्वस्यैकस्याभावेपि न क्षतिः 1 भिचारपदार्थो नानुमितिजनकतावच्छेदकः साध्याभाववदवृत्तित्वादिभेदवत्त्वादिति प्रयोगः, तन्न सम्भवति प्रत्येकभेदस्य हेतुत्वेऽच्छे दकावच्छेदेन साध्यत्वे भागासिद्धिः । सामानाधिकरण्येन साध्यत्वे sअव्यभिचरितत्वपदार्थमात्रेऽभिमतस्य साध्यवद्भिन्नावृत्तित्वार्थशे जायमानव्यभिचारशङ्काया अनिवृत्तेध, मिलितस्य हेतुत्वे स्वरूपासिद्धेरिति चेन्न । अनुमितिजनकत्वं पक्षीत्य साध्याभाववदवृत्तित्वादिविषयत्वावच्छिन्नत्वाभावकूट हेतुनाऽन्य भिचारपदार्थविषयकत्वानवच्छिनत्वस्यैव साध्यत्वात् । नचानुमितिजनकतात्वावच्छेदेन साध्यता सामानाधिकरण्येन वा । नाथः । बघभाववदवृत्तिधूमादिहेतुकस्थले परामर्षनिष्ठ हेतुत्वस्य साध्याभाक वदवृत्तित्त्वविषयत्वावच्छिन्नत्वेन बाधभागासियोः प्रसङ्गात् । न द्वितीयः । विवक्षितार्थासिद्धः सर्वतज्जनकतास्वेव तस्य साधनीयत्वा. दिति वाच्यं प्रकृतपक्षतावच्छेदकतापर्याप्त्यधिकरणधर्मप तावच्छेदकताकविशेष्यतानिरूपितविषयत्वाभिन्न प्रकृतहेतुतावच्छेद अथात्राध्य व्याप्तित्वाभावस्यासिद्धे. पर्याप्तावच्छेदकता कविशेष्यतानिरूपिताव्यभिचारपदार्थतावच्छे. दकतासमानाधिकरणावच्छेदकता कविषयत्वानवच्छिन्नत्वस्य सा ध्यत्वात्तादृशहेतुविषयत्वनिरूपितसाध्याभाववद्रवृत्तित्वत्वाद्यवा नविषयत्वावच्छिन्नत्वाभावकूदस्य हेतुत्वाश्च पक्षतावच्छेदकताप्रर्यासिनिवेशाश्च वह्न्यभाववदवृत्तिधूमवत्पर्वतप्रक्षक व हिसाध्यक धूम हेतु · , कानुमितिजनकत्वेन भागासिद्धिः । अनुमितिजनकता च प्रह तहेतुतावच्छेदकावच्छिन्नलिङ्गकप्रकृतसाध्यतावच्छेदकावच्छिन्नविधे बकप्रकृतपक्षतावच्छेदकावच्छिन्न पक्षकानुमितिजनकतारूपाग्राह्या 1 जातः प्रागुक्तानुमितिजनकतायां केवल पर्वतत्त्वादिरूप पक्षतावच्छेद Page #10 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृत्तिः । कमादाय भागासिद्धितादवस्थ्यम् । नचैवमपि धूमव्यापकवह्निसामानाधिकरण्यवह्रद्यभाववदवृत्तित्वाभयवधूमवान्पर्वत इति ज्ञानीयता दशसामानाधिकरण्यत्वावच्छिन्न साध्याभाववदवृतित्वत्वावच्छिन्नविषयताया जनकतावच्छेदकत्वेन भागासिद्धितादवस्थ्यं साध्याभाववृदवृत्तित्वत्वातिरिक्तधर्मानवाच्छन्नविषयत्वानवच्छिनत्त्वन्तूभयवत्ताज्ञा नीयतद्धर्मावच्छिन्नविषयताया जनकतानवच्छदकत्वासिद्ध्या विव क्षितुमशक्यमितिवाच्यम् । प्रागुक्तविषयतात्वावच्छिन्नावच्छेदकतानि रूपि तत्त्वाभावस्यैव हेतुसाध्यविधयाप्रवेशात् । उक्तज्ञानीयविषयताया अपितादृशसामानाधिकरण्यत्वावच्छिन्नविषयता त्वेनैवावच्छेदकत्वात् । अथ परमते वह्निव्याप्यो धूमो धूमवान् पर्वत इतिज्ञानस्यापि कारणत्वेन विशिष्टविषयतायाः कारणतानवच्छेदकतया साध्याभाववदवृत्तित्वविषयताया जनकतावच्छेदकत्वेपि साध्यसिद्धिरिति न विवक्षितार्थसिद्धिरिति चेन्मैवम् । प्रकृतपक्षतावच्छेदकावच्छिन्नविशेष्यत्वनिष्ठाव च्छेदकतानिरूपित प्रकृतहेतुतावच्छेदकावछिन्नप्रकारत्वनिष्ठावच्छेदक ताविशिष्टहेतुतावच्छेदकावच्छिन्नविशेष्यत्वनिष्ठावच्छेदकतानिरूपिताव्यभिचारपदार्थतावच्छेदकावच्छिन्नविषयतात्वावच्छिन्नावच्छेदकतानिरूपितत्वाभावस्यैव साध्यत्वात् स्वनिरूपकजनकतानिरूपितत्वसम्बन्धेन वैशिष्ट्यं बोध्यम् । एवञ्च परमते निश्चयविशिष्टनिश्चयत्वेन जनकत्वेपि परामर्षस्य न दोषः । एवं सति तद्विनेत्यादिहेतुवाक्यस्यापि साध्याभाववदवृत्तित्वत्वावच्छिन्नविषयतानवच्छिन्नानुमितिजनकते त्यत्रैवतात्पर्य व्याप्तिपदानुषङ्गं विनोक्तवाक्यस्य व्याप्तिपदानुषङ्गेण तदनुमितिजनकतावच्छेदकत्वेनाभिमताव्यभिचरितत्वं, साध्याभाववदवृत्तित्वादिरूपा न व्याप्तिरितित्यर्थकरणे साध्याभाववदवृत्तित्वस्यानुमितिजनकतावच्छेदकत्व व्यतिरेकप्रतीतेः । *केवलान्वयिन्यभावादिति । केवलान्वयित्वग्रहेऽनुमितिजनकज्ञाने विषयितायाः परस्परोपश्लिष्टसाध्याभाववद वृत्तित्वनिरूपिताया अभावात्म तिबन्धकसत्त्वादित्यर्थः । तथाच तदानीमनुमित्युपपादकव्याप्तिज्ञानस्यैव सर्वत्र हेतुत्वसम्भवेन साध्याभाववदवृत्तित्वादिशानस्यानुमिति. जनकतायां मानाभाव इति भावः । ईदृशव्याख्यानक्लेशश्च प्रश्नवाक्यो द्देश्यस्योत्तरवाक्ये विधेयत्वनियमावष्टम्भेन तदनङ्गीकारे व्याप्तिरनुमि. तिजनकतावच्छेदको नाव्यभिचरितत्वपदार्थः, साध्याभाववदास वाधितार्थकत्वेन Page #11 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । त्वादिभेदकत्वादिभ्यर्थे बाधासिद्ध्याद्यभावात् वस्तुतः पक्षतावच्छेदकस्य हेतुव्यापक साध्य सामानाधिकरण्य एव सत्वात्, तन्मात्र श्रम्य तवेनानिश्चयाच्च न सिद्धसाधनम्, अत्रापि पक्षे तीत्यादेर्व्यासिदानुषङ्गेण तत्साध्याभाववदवृत्तित्वन्न व्याप्तिरित्यर्थ एव ज्यायान् । तदा सम्बन्धात्साध्याभाववदवृत्तित्वादख्यभिचरितत्व विशेषत्व लाभेन प्रकृतानुमानस्य विशेषाभावकूटहेतुकसामान्याभावसाध्यकत्वप्राक्याsप्रयोजकत्वव्युदासात्, अव्याभेचरितत्वं न साध्याभाववदवृतित्वादिस्वरूपमित्यर्थस्त्वव्यभिचरितत्वमित्यनन्तरमनुमितिजनकतावच्छेदकत्वेनाभिमतमित्यस्य पूरणेन क्लेशेन समर्थनीयः । अन्यथा अव्यभिचरितत्वे साध्याभाववदवृत्तित्वादिरूपतायाः सिद्धान्तीय सरखेन तद्भिन्नत्वस्य प्रतिपत्यसम्भवेनासङ्गत्यापत्तेः, पूरणेतु केवलान्वयिन्यभावात्साध्याभाववदवृत्तित्वादेरनुमितिजनकतानवच्छेदकतया ता शस्य तस्य भेदोऽनुमितिजनकतावच्छेदकत्वेनाभिमते सुग्रहः । तथाचाव्यभिचरितत्वस्य साध्याभाववदवृत्तित्वाद्यतिरिक्तविधाया अभावेन तेषां भेदस्यानुमितिजनकतावच्छेद के पर्यवसितत्वेऽव्यभिचरितत्वभेदः सिद्धयतीतिभावः । केवलान्वयिन्यभावादितितूक्तार्थकमेव । तेन न साध्याभाववदवृत्तित्वसिद्धयसिद्धिभ्याम्व्याघात इति दिक् ॥०॥ *साध्याभाववदवृत्तित्वमिति । अत्र वृत्तस्याभावोऽवृत्तं साध्याभाववतोऽवृत्तं साध्याभाववदवृत्तं तदस्यास्तीति साध्याभाव वदवृत्ति तस्य भावः साध्याभाववदवृत्तित्वमिति । वृत्तं वृत्ति वृत्तेरभावो ऽवृत्ति साध्याभाववतोऽवृत्ति यत्र स साध्याभाववदवृत्तिस्तस्य भावस्तन्वामेति वा विग्रहं वर्णयन्ति केचित्तन्नचारु न कर्मधारायान्मत्वथौयो वहुवीहिश्चेत्तदर्थप्रतिपत्तिकर इत्युशासनविरोधात् । तदर्थश्च बहुव्रीहीतरसमासान्मत्वर्थीयो न भवति बहुव्रीहिसमासेन मत्वर्थीयार्थलाभे अगुणवत्त्वमित्यत्र गुणस्याभावोऽगुणन्तदस्यास्तीत्यगुणवानिति विग्रहनिराकरणेन न गुणवानगुणवानिति विग्रहस्य गु· प्रकाशरहस्यादौ दर्शनेन कर्मधारयपदस्य बहुव्रीहीतर परत्वात् नच बहुव्रीहीतरत्वं समासत्वञ्च व्यर्थे वहुव्रीहेरन्यपदार्थप्रधानतया तदुत्तरमत्वर्थीयार्थस्य तावत्पदबहुव्रीहिणा बोधयितुमशक्यत्वात् । कृदन्ततद्धितान्तादिपदोत्तरमत्वर्थीयार्थस्य तादृशपदबहुव्रीहिसमासस्यैवासम्भवेन बोधयितुमशक्यत्वाच्चेति वाच्यम् । उद्देश्यांशे उपरञ्जक Page #12 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकवितिः । स्यापि विशेषणत्वेन स्वरूपबोधनार्थत्वात् । नच न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तत्रसम्भवतीत्येव वाच्यमिति वाच्यम् । राजपुरुषवा. नित्यत्र राजापुरुषोयत्रतिबहुव्रीहेस्सम्भवात् नचैवमपि यत्रराजाराज. सम्बन्धी पुरुषश्चास्ति तत्रमतुबाध्यस्य देशविशेषस्य बहुव्रीहे. प्र. तिपत्तिसम्भवेनानुपपत्तितावस्थ्यमिति वाच्यम् । यत्पदेन यादृशधर्मावच्छिन्नविषयताको बोधी मत्वीयसमभिव्याहतेन जायते मतुपः समभिव्याहारं विना तेन पदेन बहुव्रीहिया तादृशधर्मावच्छिन्नविषयताकयोधसम्भवे तत्पदान्मत्वर्थीयो न भवतीत्यर्थस्य विवक्षितत्वात् । तथाच राजसम्बान्धपुरुष सम्बन्धित्वावच्छिन्नविषयताकोबोधो मतुपसाभमन्याहृतेन राजपुरुषपदेन जायते बहुव्रीहिसमासेन तु राजाभित्रपुरुषसम्बन्धित्वेनैवेति न दोषः । एवञ्चारूढवानरवानिति अरश्चित्रगुमानिति चारुढवानरसम्बन्धित्वेन जरदभिन्नचित्रगोसम्बम्धिपुरुषसम्बन्धित्वेन बोधतात्पर्यण साधुरेव । बहुवाहणा स्वकर्म कारोहणकर्तृवारनरसम्बन्धिसम्बन्धित्वेन जरदभिन्नचित्रगोसम्बन्धि. नः सम्बन्धित्वेन च मत्वर्थीयार्थस्याप्रत्ययादिति । अथाऽसुब्यत इति भाष्यप्रयोगदर्शनाद्रक्तदण्डवानित्यादिलोकिकप्रयोगदर्शनादुक्तव्युत्प. त्तेः प्रायिकत्वेनात्रापि तत्क्षतेरनतिदोषत्वमिति चेदेवमप्यवृत्तमि. त्यस्यावृत्तीत्यस्य च पूर्वपदार्थप्रधानाव्ययीभावसमासत्वेन पूर्वपदार्थ. प्रधानसमासघटकोत्तरपदार्थेन समं समासाघटकपदस्यानन्वितत्कनियमेन वृत्तित्वे साध्याभाववतोन्वयस्यासम्भवो दोषः । नचोक्ता नियमे किम्मानं भूतलस्याघटमित्यत्र घटे भूतलानम्वयः । एवं सा. भग्राभाववृत्तामसिवदभ्युपगममात्रेण भूतलोपघटमित्यस्य सस्वेपि घटे भूतलस्यामन्वयः, अव्ययीभावसमासस्याव्ययत्वेपि शोभनोपकुम्ममित्यादेः प्रामाणिकत्वेऽव्ययीभाधात्मकाव्ययातिरिक्ताव्ययेकै धाब्यायिभावस्य समस्यमानत्वेन परिगणिताव्ययातिरिक्तस्याप्यव्यशोभावस्य समाससामान्यशानेण समस्यमानवस्य चाभ्युपगमनीयतया घास्तविके वा भूतलोपकुम्भमित्यादौ भूतलानन्धयः । शोभनोपकुम्भमित्यस्याप्रामाणिकत्वे उक्ताभ्युपगमे प्रयोजनविरहेण साध्याभाववतो वृत्तेरनन्वयापेक्षयाऽवृत्तमित्यव्ययी. भावेन साध्याभाववतः समासत्वासम्भवनिबन्धनताशपदासाधुत्वरुपो बलीयानपिदोषः साहशव्याख्याने वदितव्य इति । तस्मात् साध्या Page #13 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । भाववतो न वृत्तिर्विद्यते यत्र तत्साध्यभाववदवृत्ति तस्य भावस्तत्वमित्येव विग्रहं स्वीकुर्वन्त्यभियुक्ताः । व्यधिकरणबहुव्रीहिश्चायं हेतुःसाध्याभाववदवृत्तिरित्या देस्साध्याभाववदवृत्तपदो तरेण प्रत्ययादिना निर्वाहासम्भवेन स्वीकरणीयः / एवं व्यधिकरणबहुव्रीहेरुदाहरणान्तरस्य सत्त्वेऽपि तद्वशेनात्र व्यधिकरणबहुव्रीहिस्वीकारासम्भवात्तस्यासार्वत्रिकत्वादुक्तप्रयोग एवोदाहरणतया वक्तव्य इति दिक् ॥ ० ॥ * जगदीश्यामिदश्चेति अव्याप्यवृत्तिसाध्यकसद्धेतावव्याप्ति दानञ्चे. त्यर्थः । साध्यतावच्छेदकावच्छिन्नाभावप्रवेशेपि संयोगसम्बन्धावच्छिघटाभावस्य समवायावच्छिन्नवह्न्यभावस्य च तादृशतया तमादाय व्याप्यवृत्तिसाध्य केऽव्याप्तिःस्यादतो धर्मविधया यः साध्यतावच्छेदको धर्मविधया तदवच्छिन्नत्वस्य संसर्गविधया यः साध्यतावच्छेकः संसर्गविधया तदवच्छिन्नत्वस्य प्रतियोगितायां प्रवेशसूचनायाह "येनरू. पेण येन सम्बन्धेनेति" । अथ साध्यतावच्छेदकीभूतधर्मावच्छिन्नत्वे सति साध्यतावच्छेदकीभूतसम्बन्धावच्छिन्नत्वप्रवेशेऽपेि घटाभावादिवारणसम्भवाद्धर्मसंसर्गविधया तदवच्छेदकत्वप्रवेशो व्यर्थ इति चेन्न तत्समवायिनः संयोगेन साध्यतायां तत्समवायिनः समवायेनाभावीयप्रतियोगिताया वारणाय साध्यतानिरूपित संसर्गतावन्निष्ठावच्छेदकताकत्वस्य तत्संयोगिनः संयोगेनाभावप्रतियोगिताया वारणाय साध्यतानिरूपित किञ्चित्सम्बन्धावच्छिन्नावच्छेदकतावन्निष्टावच्छेदकत्वस्य प्रवेशनीयत्वात्, संयोगिनः समवायेनाभावीयप्रतियोगितावारणाय व प्रतियोगितावच्छेदकताया अपि धर्मसंसर्गविधयाप्रवेशनीयत्वात् । वस्तुतः साध्यतावच्छेदकधर्मावच्छिन्नत्वस्य साध्यतावच्छेदकातिरिक्तधर्मानवाच्छन्नत्वरूपस्यैव वाच्यतया तत्र साध्यतानिरूपितधर्मविध'यावच्छेदकतावदितरनिष्ठाबच्छेदकत्वानिरूपितस्वमात्रप्रवेशे तादशा तिरिक्तसंसर्गमादायासंभवस्स्यादिति धर्म्मविधयावच्छेदकत्वानिरूपितत्वं साध्यतावच्छेदकसम्बन्धावच्छिनत्वस्यापि साध्यतावच्छेदकसम्बन्धातिरिक्तसम्बन्धानवच्छिन्नत्वरूपस्यैव वाच्यतया तादृशसंसर्गातिरिक्तनिष्ठावच्छेदकत्वानिरूपितत्वमात्रप्रवेशे तादृशसंसर्गाति रिक्तधर्म्ममादायासम्भवस्स्यादिति संसर्गविधयावच्छेदकत्वानिरूपि तस्थं च प्रवेशनीयम् । एतेन संयोगिनस्समवायेनाभाववारणाय धर्म Page #14 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविकृतिः। विधया संसर्गविधया वाग्वछेदकत्वस्य निरूपितत्वम्प्रवेश्यं नतूभयमिति शङ्का निरस्ता। अथ साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपर्याप्त्यनुयोगितावच्छेदकरूपवृत्ति प्रतियोगित्वस्य वक्ष्यमाणरी. त्यावश्यविवक्षणीयतया तत्र धर्मविधया संसर्गविधयावच्छदकत्वत्वेनावच्छेदकत्वस्यानन्तर्भावेणैकविधनिवेशेनैवपूर्वोक्तनिखिलाभावार• णसंभवः संयोगिनस्समवायेनाभावीयप्रतियोगिनायामपि साक्षात्परम्परासाधारणसाध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छे दकस्वरूपसमवायसंयोगगतरूपवृत्तित्वस्य विरहात् । प्रतियोगितायां समवायस्य संसर्गविधया अवच्छेदकत्वेन स्वरूपस्य तदनवच्छेद. कत्वादिति चेन् मैवम् समवायिनस्संयोगाश्रयत्वेन साध्यतायां संयोगाश्रयस्य समवायेनाभावमादायाव्याप्ते१रुद्धरत्वात् इति ॥ ॥ । अन्यथा तु व्याप्यवृत्तिसाध्यकेत्यादि । ननु साध्यतावच्छेदकाव. च्छिन्नत्वस्य प्रवेशेऽपि महानसीयवह्नयभावस्य न वारणसम्भवः न च साध्यतानिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वं वाच्यम् वैशिष्टयञ्च स्वसामानाधिकरण्य स्वावच्छेदकसम्बन्धाव. च्छिन्नत्व स्थानवच्छेदकानवच्छिन्नत्व स्ववृत्तित्वै तच्चतुष्टयसम्वन्धेन । स्वसामानाधिकरण्यानवेशाद्वह्निमान्धूमादित्यत्र निरवच्छिन्नघटत्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावमादाय न दोषः स्वावच्छेदक. सम्बन्धावच्छिन्नत्वनिवेशात् घटानुयोगिककालिकेन वह्नित्ववदभा. वमादाय वह्नित्वाश्रयवान्धूमादित्यत्र नाव्याप्तिः, स्वानवच्छेदकानवच्छिन्नत्वनिवेशान्महानसीयवाह्नवृत्तित्वविशिष्टजात्यवच्छिन्नाभावमा दाय न लक्षणासम्भवः स्ववृत्तित्वनिवेशाद्रूपत्वन्यूनवृत्तिजातिमद्वानरूपादित्यत्र निरवच्छिन्ननीलत्वादिनिष्ठावच्छेदकताकप्रतियोगिताकाभावमादाय न व्याप्यत्वानिर्वाहः एतेन साध्यतावच्छेदकाति रिक्तधनिवच्छिन्नत्वस्य विवक्षणे प्रमेयवतस्समवायेन साध्यतायां सत्वे हेती साध्यतावच्छेदकातिरिक्ताप्रसिद्धिनिवन्धनो दोषो नि. रस्तः साध्यतावच्छेदकताविशिष्टान्यघटत्वादिनिष्ठावछेदकत्वस्य प्रसिद्धत्वादितिवाच्यम् यत्र प्रतियोगिनिष्ठनानाविशेष्यतानिरूपिता परंपराऽनिरूपिता वा अवच्छेदकप्रकारता तत्रवावच्छेदकतायाभिन्नत्वेन महानसीयवह्नयभावीयप्रतियोगितावच्छेदकताया ऐक्येन तत्र विशिष्टान्यत्वविरहादव्याप्तितादवस्थ्यात् नच स्वानवच्छेदकम. Page #15 -------------------------------------------------------------------------- ________________ ध्याप्तिपश्चकविकृतिः। हानसीयत्वत्वावच्छिन्नत्वसवेन विशिष्टान्यत्वसम्भव इति धान्यतार्णवह्मथभावमादायाव्यातेः यदिवेकसम्बन्धेनेकप्रकारेण भासमा नधर्मवकाचच्छेदकत्वमन्यर्थकाधच्छदकत्व निरर्वाच्छजवसावच्छिन्न त्वयोर्विरुद्धयोस्सम्बन्धद्धयाबच्छिन्नत्वस्यचापत्तेः नचतत्तद्धर्मवृति. त्वावच्छेदेनोभयोःस्वीकारे क्षत्यभावःप्रतिबध्यप्रतिबन्धकभावगुरुत्वा. पत्तः तथा हि समवायेन महानसीयत्वविशिष्टत्वे सति कालकेन वहित्धविशिष्टवत्तावुद्धौ समपायेन वह्नित्वविशिष्टं सत्कालिकेन महा. नसीयत्वविशिष्टोनास्तीति बुद्धेः प्रतिबन्धकरवापत्तिः समवायसम्ब. न्धावच्छिन्नमहानसीयत्वनिष्ठावच्छेदकतानिरूपिता सती कालिका सम्वन्धावच्छिन्नघह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावावगा. हिनिश्चयत्वस्य प्रतिवन्धकतावच्छेदकस्य तद्बुद्धावपि सत्त्वादतो महानसीयत्ववृत्तिस्वावच्छेद्यसमवायसम्बन्धावच्छिन्नत्वबदवच्छेदकतानिरुपितासती वह्नित्वकृत्सित्वावच्छेद्यकलिकसम्बन्धावच्छिन्नत्ववइवच्छेदकताकप्रतियोगिताकाभावावगादिनिश्वयत्वेन प्रतिबन्ध कत्वम्वाच्यमितिगौरवम् अथ समवायसम्वन्धावनिमहानसीयत्व. प्रकारतानिरूपितकालिकसम्बन्वावच्छिन्नवह्नित्वनिष्टावच्छेदकतानि. रूपितविशेष्यत्वावच्छेद्यप्रतियोगित्वसम्बन्धावच्छिन्नप्रकारतानिरूपि. ताभावत्वावच्छेद्यविशेष्यत्वावच्छिन्नप्रकारताशालिनिश्चयत्वेनप्रतिबन्धकताया वाच्यत्वानदोष इति चेन्न तथाविधाभाववत्ताबुद्धी विशेप्येविशेषणन्तत्रापि विशेषणान्तरामित्तिरीत्या जायमानायाः स. मवायेन महानसीयत्वविशिष्यत्वे सति कालिकेन वह्नित्वविशिष्टवता. बुद्धेः प्रतिवन्धकतापत्तिवारणाय तत्तसम्बन्धावच्छिन्नतर्मनिष्ठाबच्छेदकताकप्रकारताशालिनिश्चयत्वेन प्रतिबन्धकस्वं बाध्यं तथासत्युपलक्षणस्य प्रकारतावच्छेदकत्वे मानाभावेन मापत्तिः तत्रैकावच्छदकत्वस्वीकारे कालिकेनमहानसीयत्वविशिष्यत्वे सति समवायेनवहिन्वविशिष्टवैशिष्टयावगाहिबुद्धेः प्रतिबन्धकत्वापत्तेर्वारणायततद्वृत्तित्वावच्छेद्यसम्बन्धावच्छिन्नत्वस्यनिवेशनीयतया गौरवतादवस्थ्यात् नच प्रकारतावच्छेदकत्वस्य नैकत्वस्वीक्रियतइतिवाच्यंप्रतियो. गितावच्छेदकत्वेऽपितदापत्तेरिति विभाव्यते तदापि महानसीयवहि. मान्तज्ज्ञानत्वादित्यत्र वह्नयभावमादायाव्याप्त्यापत्तरितिचेदत्रकारीत् साध्यतावच्छेदकतात्वावच्छिनपर्याप्त्यनुयोगिताच्छेदकरूपवृत्तित्वमे Page #16 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकवितिः । वसाध्यतावच्छेदकाधच्छिनत्वपदेनविवक्षणीयं वृत्तित्वं च स्वावच्छे. इकतावावच्छिन्नपात्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाच महानसीयत्ववाहित्ययोरेका ब्यासज्यवृत्यवच्छेदकता भिन्ना वास्तु प्रतियोगितावच्छेदकतात्वेनोभयथैव तस्या व्यासज्यवृत्तितया तत्प्रतियोगिसाकप्रर्याप्त्यनुयोगितावच्छेदकत्वस्य द्वित्व एव सत्वेन तेन सम्ब न्धने तत्प्रतियोगिताया वह्निगतैकत्ववृत्तित्वविरहेण महानसीयवहयभावस्य महानसीयत्ववाहित्वगतद्वित्वे वह्नयभावप्रतियोगिताया वृत्तित्वविरहेण तदभावस्य च लक्षणाघटकत्वान्नाव्याप्तिसम्भवः । सादृशावच्छेदकतात्वाच्छिन्नत्वश्च निरूपितत्वसम्बन्धाबंच्छिवसाध्यत्वादिनिष्ठावच्छेदकताभिन्नावच्छेदकतात्वनिष्टावच्छेदकताभिन्नावच्छेदकत्वानिरूपितत्वं तेन महानसीयवह्नित्वावच्छिन्नसाध्यतानिरुपितवहिन्ववृत्यवच्छेदकतापर्याप्तयनुयोगिताबच्छेदकवह्नित्वगतैकत्वे वह्नयभावप्रतियोगित्वस्य वाढत्वावच्छिन्नसाध्यतावच्छेदकतापाप्स्यनुयोमितावच्छेदकवहिरवगतैकत्वे स्वनिरूपितवाहित्यनिष्ठावच्छदकतापापप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन महानसीयवह्नयभावप्रतियोगित्त्वस्य च वृत्तित्वेऽपि न क्षतिः यदिचैकम्वह्नित्वं महानसीयवह्नित्यायाच्छिन्नस्य प्रतियोगित्वस्य साध्यत्वस्य वावच्छेदकमिति प्रतीतिविरहण महानसीयवाहत्वावच्छिन्नप्रतियोगित्त्वाद्यवच्छेदक तात्वेन तत्पात्यनुयोगितावच्छेदकत्वं वह्नित्वगतैकत्वे मास्तु पर. न्त्वेकम्बह्नित्वमवच्छेदकमितिप्रतीतेः प्रामाणिकत्वेऽवच्छेदकतात्वावच्छिन्नप्रतियोगिताया यथाविवक्षितानिरुपितत्ववत्यानिरुपिकीभूतस्य पर्याप्तधनुयोगित्वस्य यहिन्वगतैकत्वेऽवच्छेदकत्वस्य सत्त्वादव्याप्तितादवस्थ्यमिति विभाव्यते तदा साध्यत्वादिनिष्ठावच्छेदकता. निरूपिसत्वमप्युपादेयम् । अथ चह्नित्वावच्छिन्नसाध्यतावच्छेदकता. या ऐक्येन तनिष्ठप्रतियोगितावच्छेदकत्वस्य लाघवन तव्यक्तित्व. स्यैव कल्पनीयतया साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगित्वाप्रसिद्ध्याऽव्याप्तिरिति चेन्न एतल्लक्षणकर्तृमते गुस्धर्मस्यप्रतियो. मितावच्छेदकत्वस्वीकारात् अन्यथा प्रमेयवह्निमानधूमादित्यत्रसाध्याभावाप्रसिधातद्धटभिनंपटत्वादित्यत्रताशवृत्तित्वाभावाप्रसिद्धा चाब्याम्यापत्तेः । अथवा साध्यतावच्छेदकतात्वादिसमनियतप्रतियोगितोपादेया व्याप्यताच वाहत्वगतकत्वावच्छिन्नानुयोगिताक Page #17 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । पीतीयतद्ध्यक्तित्वावच्छिन्नप्रतियोगितायामेव नतु महानसीयत्ववह्नित्वगताद्वत्वावच्छिन्नानुयोगिताकपर्थ्याप्तीय प्रतियोगितायां साध्यतावच्छेदकतात्वस्येति न दोषः साध्यतावच्छेदकत्वावृत्तिरूपतित्वम्बा विवक्षणीयं वृत्तित्वञ्च स्वावच्छिन्नानुयोगिताकपर्थ्यातिप्र तियोगितावच्छेदकधर्मशून्यत्वसम्बन्धन तथाच वह्नित्वकत्व. पर्याप्त प्रतियोगितावच्छेदकतयतित्वशून्यत्वस्य बहानसीयत्वनिठावच्छेदकतायां सत्त्वेन महानसयिवह्निसाध्यकस्थले न वहयभावस्य लक्षणघटकताप्रसङ्गः रूपवृत्तिस्वञ्च परम्परायाः संसर्गस्वाभ्युपगमे यथाश्रुतमेवान्यथा तादशरूपावच्छिन्नानुयोगिताक पर्याप्तयायानिरुपितत्वसम्बन्धावच्छिनाकीश्च विद्यावच्छदेकताम नावच्छेदकतात्वानेष्ठावच्छेदकत. भिज्ञावच्छेदकत्वानिरूपित प्रतियोगिता सदाश्रयावच्छेदकतानिरूपितत्वम्. एवञ्चानुपदोक्तावृत्तित्वम " पि सा. ताक पर्याप्त्य तुयोगितावच्छेदकत्व रुपम्बाव्यमवच्छेदकतात्वावच्छि प्रतियोगितावारणाय चावच्छेदकतास्वन्यूनवृत्तिधर्मावच्छिन्नस्वेत प्रतियोगिता विशेषणीया नन्वत्रतार्णवद्वेर्विषयितया ध्यतायां तज्ज्ञानत्वे सद्धेतौ बह्नितार्णाभावमादायाव्याप्तिः प्रतियोगित्व साध्यत्वयोः समानधर्मावच्छिन्नत्वादिति चेन्न प्रतियोगिताभेदम्बिनाभावभेदस्या सम्भवेन तार्णवहन्यभावप्रतियोगिताव.च्छेदकत्वन्तार्णत्वविशिष्टवह्नित्ववह्नितार्णाभावमतियोगितावच्छेदक यत्किश्चित्साध्यतावच्छेदकत्वावृत्तिधम्मनिवशिप्रतियोगि त्वम्वह्नित्व विशिष्टतार्णत्वे वाच्यं तादृशावच्छेदकतात्वावच्छिन्नपर्या. पर्त्यनुर्यागितावच्छेदकत्वमपिबुद्धिभेदेनभिन्नयोस्तार्णत्ववहित्वगत त्ववहित्वतार्णत्वगताद्वत्वयोः कल्पनीयमितितार्णवहयभावप्रतियो गितासमानप्रकृतसाध्यतावच्छेदकतापयप्यनुयोगितावच्छेदकतार्णत्ववहित्वगतद्वित्वे प्रतियोगिताया वृत्तित्वविरहेणाव्याप्त्यसम्भवादिति अथावच्छेदकतात्वाव (छिन्नत्वस्य तादृशावच्छेदकतात्वातिरिक्तधर्म्मानवच्छिन्नत्वरूपतया तादृशावच्छेदकतात्वस्यापितादशा वच्छेदकतास्वगगनोभयभेदवत्वेनासम्भवप्रलङ्गः अवच्छेदकतात्वभेवस्यापि तथैवपरिष्कारेऽनवस्थाप्रसङ्गः यदि च विलक्षणप्रतियोगिता संसर्गेण तादृशावच्छेदकतत्त्वविशिष्टभेदवदच्छिनत्वविशिष्टाभावस्ववरूपमेव तदित्युच्यते तदा विलक्षणस्वावच्छिन्नप्रतियोगि Page #18 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । तासंसर्गेण साध्यतावच्छेदकविशिष्टाभाव एव साध्याभाषपदार्थोंस्वलमुक्तक्रमेण पर्याप्तिघटिततदूव्युत्पादनेनेति चेत्सत्यम् उक्तरूपवृत्तित्वस्यतत्तद्धर्मावच्छ्त्रित्वरूपताप्रतिपादनेन विलक्षण प्रतियोगितायवाले व्युत्यादयितुं शक्यः नान्यथा । तद्धकभेदादिषु तच्छङ्कायां तदादिशब्दोपबन्धेन तद्धर्मावच्छिन्नप्रतियोगिताकाभा. वश्च तद्धर्म्मातिरिक्तधर्म्मानवच्छिन्नप्रतियोगिताकाभाव इति सामाम्येन विलक्षणप्रतियोगितामात्रे व्युत्पादयितुं शक्य इत्युक्तरूपेण लक्षणकरणन्ना युक्तमिति गृहाण एवञ्च यद्यपिवह्निसाध्यकस्थलीयं लक्षणं वह्नित्यगतैकत्ववृत्तिप्रतियोगिताकाभाववदवृत्तित्वमेवैषमेवचेतरसाध्यकस्थलीयमपि लक्षणं तथापि प्रकृतसाध्यतावच्छेदेकत्वत्वावच्छि नपथ्यप्त्यिनुयोगितावच्छेदकरूपवृतिप्रतियोगिताकाभाववदवृत्तित्वा दिना प्रतिपादनन्नायुक्तंसह दुक्तयैव वालव्युत्पादनार्थत्वात् प्रकृतशब्दस्यतदादिवद्बुद्धिविषयतावच्छेदकावच्छिन्नत्वार्थकत्वात् अकावच्छेदकत्वं रूपस्य परिचायकमात्रमन्यथा तद्विशेषितरूपवृत्तिप्र तियोगिताकाभाववदवृत्तित्वनिश्चयस्य वह्नित्वगतैकत्ववृत्तिप्रतियोगिताकाभाषववृतित्वग्रहे प्रतिबन्धकत्वानुपपत्तेः एवञ्चतादृशावच्छेदकत्वसमानाधिकरणरूपनिष्ठाकच्छेदकता निरूपितवृतित्वनिष्ठा. वच्छेदकतानिरूपितप्रतियोगित्वनिष्ठावच्छेदकतानिरूपिता भावनिष्ठावच्छेदकता निरूपिताधिकरणनिष्ठावच्छेदकता निरूपितवृत्तितात्वनिठावच्छेदकताकप्रतियोगिताकाभावश्वेनलक्षणता वोध्या अथा त्रैकत्वादेः पर्याप्त्यमभ्युपगमेवह्निमान्धूमादित्यादाकयाप्तिः कालि केन महानसीयत्वावशिष्ठस्य समवायेन वह्नित्वविशिष्टस्य साध्यतायां धूमे सद्धेतौ समवापेन महानसीयत्वविशिष्टस्य कालिके - न वह्रित्वविशिष्टस्याभावमादायाव्याप्तिश्च नचैतदभावमादायाव्याप्तिवारणाय साध्यतावच्छेदकताविशिष्टान्यावच्छेदकत्वानिरूपितत्वमपि प्रतियोतिताविशेषणम्बाच्यं वैशिष्टयञ्च स्वसामानाधिकरण्यस्वावच्छेदकसम्बध्धा बाच्छनत्वोभपसम्बन्धेन तथाच प्र तियोगितानिरूपितमहानसीयत्वनिष्ठावच्छेदकतायास्साध्यतानिरूपि तमहान स्त्रीयत्वनिष्ठावच्छेदकतावच्छेदकसम्बन्धानवच्छिन्नत्वान्नाव्याप्तिरिति वाच्यं कालिकेन प्रमेयविशिष्टत्वे सति समवायेन प्रमेयविशिष्टशेयः कालिकेन महानसी पत्वा बशिष्ट सति समवाये. Page #19 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकवितिः। १३ न घह्निन्वविशिष्टस्तस्य साध्यतायां धूमे समवायेन महामसीयत्वविशिष्टोक्तत्रितयविशिष्टाभावमादापाव्याप्तेः सामानाधिकर. ण्याम्यहाय व्यापकत्वस्यप्रवेशेऽपिलमवापेन वह्नित्वावशिष्टत्वे सति कालिकेन वह्नित्वविशिष्टस्य विषार्यतया साध्यतायां तज्ज्ञानत्वे सद्धेतो समवापेन वह्नित्वविशिष्टाभावमादायाव्याप्त्यापत्तेः नच साध्यताका च्छेदकताघटकसंसर्गतावच्छेदकतात्वावच्छिन्नपाप्यनुयोगिताव. च्छेदकरूपवृत्तित्वमेव साध्यतावच्छेदकताघटकसम्वन्धावच्छिन्नाव. च्छेदकताकत्वं वृत्तित्वञ्च स्वनिरूपितावच्छेदकता घटकसंसर्गतावच्छेदकतात्वावच्छिन्नपप्याप्स्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाच न दोष इति वाच्यं कालिकेन वह्नित्वविशिष्टत्वे सति समवायेन वह्नित्कविशिष्टत्वे सति समवायेन द्रव्यत्वविशिष्टस्य साध्यतायां तज्तानत्वे कालिकेन बद्वित्वविशिष्टत्वे सति समयायेन द्रव्यत्वविशिष्टाभावमा. दायाव्याप्त्यापत्तेः यद्यपि साध्यतावच्छेदकावच्छिन्नत्वं प्रकृते सा. ध्यतासमानियतत्वं सामनयन्यञ्च स्वनिरूपितावच्छेदकतावत्वसम्बन्धेन अवच्छेदकतावत्ता च स्वसामानाधिकरण्यस्वावच्छेदकसम्वन्धाच. च्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वैतत्रितयसम्बन्धेन तथा च नप्रा. गुक्तदोषाणामवकाशः तत्र प्रतियोगिताव्यापकत्वादिशि व्यापकताघ. टकसम्बन्धकोटी प्रयाणामुपादाने व्याप्यताघटकतया तत्तत्सम्वन्धा. नामनुपादाने च घटत्व निष्ठावच्छेदकत्वकालिकसम्वन्धावच्छिन्नवहित्वनिष्ठावच्छेदकत्वसावच्छिन्नवह्नित्वनिष्ठावच्छेदकत्वान्यादायवहिमान्धमादित्यादौव्याप्तिलक्षणाप्रसक्तिःव्यापकताघटकसंसर्गेऽपि तदनुपादाने विषायतया वह्निसाध्यकस्थले तार्णवन्ह्यभावमादायविषयितया समवायेन वह्नित्वविशिष्टसाध्यकस्थले कालिकेन वह्नित्वविशिष्टत्वे सति समावयेन वह्नित्वविशिष्टाभावमादाय विषयितयावह्निसाध्यकस्थले समवायेन वह्नित्वविशिष्ठवन्ह्यभावमादायाव्याप्तिस्स्यादिति तत्त सम्वन्धनिवेशः साध्यताव्यायकत्वदिशि व्याप्यताघटकसम्बन्ध. कोटी तत्तत्सम्बन्धानुपादान उक्तरीत्यैव वह्निमान्धूमादित्यत्राव्याप्ति. स्स्यात् व्यापकताघटकसम्बन्धेष्वपि तेषामनुपादाने विषायतास. म्वन्धेन तार्णवाहसम्ध्यकस्थले वन्यभावमादाय कालिकेन वह्नित्ववि. शिष्टत्वे सति समवायेन वह्नित्वविशिष्टस्य विषयितपा साध्यतायां समवायेन वह्निरवविशिष्टाभावमादायविषपितयावह्नित्वविशिष्टवाह्नसा Page #20 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकवितिः। ध्यकस्थले बन्यभावमादायाव्याप्तिस्स्यादिति तत्तत्सम्बन्धमिवेशः अत्र तार्णवह्नधिषयितयासाध्यतायां वल्लितार्णाभावमादायाव्याप्तिवा. रणायैकत्वादेः पर्यप्त्यभ्युपगम्गेन साध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वविवक्षणे. स्षावच्छेदकसम्बन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेनावच्छेदकतावत्त्वम्वाच्यं तदुभय फलन्तु कालिकेन महानसीयत्वविशिष्टत्वे सति समवा. येन वह्नित्वविशिष्टसाध्यकस्थले सभवायेनमहानसीयत्वविशिष्टत्वे सति कालिकेन वह्नित्वविशिष्टाभावमादायाव्याप्तिवारणं वह्नितार्णा भावमादायाव्याप्तिवारणायैकत्वादेः पाप्स्यनभ्युपगमे स्वाव. च्छेद्यविशेष्यतावच्छेदकतावृत्तित्वसम्बन्धावच्छिन्नसाध्यत्वाभाववत्त्वं प्रतियोगिताविशेषणं वृत्तित्वञ्च स्वात्मकसम्बन्धावच्छिन्त्रप्रमीयप्रका. रत्वावच्छेद्यविशेष्यतावच्छेदकतावत्वसम्बन्धेन तद्वत्ता च सामानाधिकरण्यसम्वन्धेन प्रमीयत्वानिवेशादुक्तप्रतियोगितासम्बन्धेन ताणंवलिप्रकारकम्रमसत्वेऽपि न क्षतिः पवश्चावच्छेदकतावस्वं पूर्वोक्तत्रितयसम्बन्धेनैव सामनयत्यव्यावृत्तिरपि पूर्ववत् तथापि कालिकेन महानसीयत्वविशि| सत्समवायेन वतित्वविशिष्टं यत्तद्विशिष्टस्य साध्यसायां सद्धेतो समवायेन महानसीयत्वविशिष्रत्ये सति कालिकेम व. हित्यविशिष्टं यत्तादात्म्येन तद्विशिष्टाभावमादायात्याप्तेरनुद्धार एव स्वानवच्छदकानवच्छिन्नत्वस्य स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छे. दकत्वानिरूपितस्वरूपत्वे तद्वारणेऽपि प्रागुक्तलाध्यात्मकविशिष्टवतसाध्यतायां प्रागुक्तयुक्तयाऽध्याप्तेरनुद्धार पव तद्वारणायोक्तवैशिष्टय. स्य स्वसामानाधिकरण्य स्वावच्छेदकसम्वन्धावच्छिन्नत्व स्वनिरूपिता. वच्छेदकताविशिष्वान्याधच्छेदकत्वामिकापतन्वैतत्रितयसम्वन्धेन विवक्षणेऽनवस्थाप्रसङ्ग इतिचेदबोच्यते साक्षास्यरस्यरासाधारणनिरू. पितत्वमङ्गीकृत्यावच्छेदकतावत्स्वनियामकस्वानवच्छेदकानवच्छिन्नत्व स्य स्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकतानिरूपितत्वसम्वन्धावच्छिन्नस्वाभाववत्वरूपत्वोक्तौ न दोषावकाशः वैशिष्टयश्च स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिम्नत्वोभयसम्बन्धेन यत्नु स्वानवच्छेदकानवच्छिन्नत्वस्य स्वसामानाधिकरण्येन स्वावच्छेदकताः विशिष्टान्यावच्छेदकत्वानिरूपितत्वरूपत्वे प्रमेयसाध्यतावच्छेदकतावच्छेदकस्थलेस्वनिरूपितावच्छेदकताविशिष्टान्यावच्छेदकत्वाप्रसि Page #21 -------------------------------------------------------------------------- ________________ ध्यातिषश्चकविकृतिः। द्धिस्स्यादिति स्वानवच्छेदकानवच्छिन्नत्वस्य वैशिष्टयघटकतयोपा. दानमावश्यकमेकत्यनप्रस्थामसङ्गःनिच स्वसाजात्यमेव वैशिष्टयघट. के तथासति मिरवच्छिन्नावच्छेदकत्वे विशिष्टान्यत्वप्रसिद्धिः साजा. त्यञ्च सावच्छिन्नत्वनिरवच्छिन्नत्वान्यतररूपेण एवञ्च नानवस्थाप्र. सङ्ग इति वाच्यं प्रमेयावशिष्टवतस्साध्यतायां घटत्वविशिष्टवदभावमादायाव्याप्त्यापत्तेः । घटत्वत्वावच्छिन्नावच्छेदकतायां विशिष्टान्यत्वविरहादित्येवं केवलस्वानवच्छेदकानवच्छिन्नत्वस्यैवावच्छेदकतावत्त्वनियामकसंसर्गतामभ्युपेत्याप्यनवस्थापादनन्तन्न स्वनिरूपितयत्किञ्चिदवच्छदकत्वावृत्तित्वसम्बन्धावच्छिन्नस्वाभाववत्त्वस्यैव तद्रपतया विवक्षायान्तदसम्भबात् वृत्तित्वञ्च स्वनिरूपितावच्छेदकतासामानाधिकरण्यसम्वन्धन पवञ्च घटत्वनिष्ठावच्छेदकतायां स्वनिरूपितप्रमे. यत्वनिष्ठावच्छेदकत्वावृत्तित्वस्यैवसवेन न दोष इत्यलम् ॥ अथ निरवच्छिन्नात्मत्वादिसाध्यतास्थले साध्यतावच्छेदकाप्र. सियाऽव्याप्तिरिति चेन्न साध्यवदन्यावृत्तित्वादिरूपव्याप्तेरेव तस्य लक्ष्यत्वात् । यद्वा आत्मत्वत्वातिरिक्तधर्मानवच्छिन्नप्रतियोगिता.. काभावषदवृत्तित्वस्यैव तत्र व्याप्तित्वादात्मत्वत्वस्य साध्यतानवच्छेदकत्वेऽपि क्षत्यभावात् । शब्देक्यस्यानुपादेयत्वातू । केचित्तु साध्यताविशिष्टनिरूपकताकाधिकरणत्वाभाववदवृत्तित्वमेवायमात्माक्षानादित्यादिस्थलसाधारण्यानुरोधेन व्याप्तिः। वैशिष्टयञ्च स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वानवच्छेदकानवच्छिन्नत्वस्ववृत्तित्वैतचतुष्टयसम्बन्धेन वृत्तित्वञ्च स्वानवच्छेदकानवच्छिमत्वसम्बन्धन तथा च न कोपि दोष इति । यन्तु साध्यताविशिष्टाव. च्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगिताबच्छेदकरूपवृत्तिनिरूपकता. काधिकरणत्वाभाववदवृत्तित्वं व्याप्तिः। वैशिष्ट्यश्च स्वनिरूपितत्व. निरवच्छिन्नस्वसमानाधिकरणसाधारणधर्मनिष्ठावच्छेदकतावा- . न्यतरसम्वन्धेन वृत्तित्वञ्चस्वावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकत्वसम्बन्धेन तथाचायमात्माज्ञानादित्यत्र तादृशं रूपमात्मत्वनिष्ठतद्यत्वक्तित्वगतैकत्वमेव प्रसिद्धमिति न र्दोष इति तमु. च्छम् । पूर्वोक्तदोषेण पर्याप्तिघटितकल्पस्यानुपादेयत्वादिति वदन्ति । नन्वत्राधेयत्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छदकतानिरूपितप्रतियोगित्वनिष्ठाव. Page #22 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविदृतिः । च्छेदकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठाव १६ च्छेदकता निरूपितवृत्तितात्वनिष्ठा वच्छेदकताकप्रतियोगिताकाभावत्वेन तादृशाभावस्य लक्षणत्वेन तस्य च वह्नित्येतरधम्र्म्मानवच्छिन्नवह्नित्वावच्छिन्नप्रतियोगिताकाभाववानरूपितवृत्तित्वाभावरूप स्य धूमहे तो सत्वेनाव्याप्त्यभावाद्यर्थमेव प्रागुक्तसाध्यतावच्छेदका - वच्छिनत्वपरिष्करणमिति चेन्न । महानसीयत्रह्निमान्धूमादित्यत्र वहित्वेतरधर्मानवच्छिन्नवहित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावा धिकरणनिरूपितवृतित्वाभावस्य हेतौ सत्त्वेनातिव्याप्त्यापत्तेः । न. च साध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगि. तावच्छेदकरूपनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकता. निरूपितानुयेोगित्वनिष्ठ वच्छेदकतानिरूपित पर्थ्याप्तिनिष्ठावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छे दकतानिरूपिताभावनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदक तानिरूपितवृत्तितात्वनिष्ठां वच्छेदकताकप्रतियोगिताकाभावत्वेन तादृशाभावप्रवेशेनोक्तदोष इति वाच्यम् 1 वह्निमान् महानसीयवह्निविषयकवह्निविषयकज्ञानमहानसीयवह्निविषयकज्ञानान्यतरत्वा दित्यत्र वह्नित्वगतैकत्वावच्छिन्नानुयोगिताक पर्थ्यामिकायच्छेकता कमहानसीयवह्नित्वावच्छिन्नप्रतियोगिताकाभावाधिकरणनिरूपितवृतित्वाभावस्य हेतौ सत्वेनातिव्याप्त्यापत्तेः । तद्वारणायेतर वारकपर्थ्याप्तिनिवेशे वृत्तित्वाभावकूटनिवेशे वा वह्निमान्धूमादित्यश्राव्यायापत्तेरुक्क परिष्कारस्य सार्थक्यसम्भवादिति । अत एव साध्यतावच्छेदकता त्वावच्छिन्नप्रतियोगिताक पर्याप्त्यनुयोगितावच्छेदकरूपवृत्तिसाध्य निष्ठावच्छेदकतानिरूपितप्रतियोगित्वानेष्ठावच्छेद कतानिरूपिताभावनिष्ठावच्छेदकतानिरूपिताधिकरणनिष्ठावच्छेदकता, निरूपितवृत्तितत्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावत्वेन तार1 उक्तव्यभिचारिणि महानसीयवह्नित्वावच्छिन्नवह्निनिष्ठप्रतियोगिताकाभावाधिकरणनिरूपितवृत्तित्वाभावस्य हेतौ सत्त्वेनातिव्याप्त्यापत्तेः तद्वारणाय सामान्याभावस्य कूटस्यवा निनेशे वह्निमान्धूमादित्यत्रा व्याप्त्यापत्तेरिति ॥ अथ तथाप्युक्तप रिष्कारो व्यर्थः । महानसीयवह्नद्यभावस्य हदवृतेर्य्यदिधिकरणं तनि रूपितवृत्तित्वाभावस्य महानसीयवयभावाधिकरणहदनिरूपितवृत्ति. शाभावनिवेशोप्यपास्तः Page #23 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविवृतिः। स्वाभावस्य ताशवृत्सित्वघटोभयाभावस्य हेतौ सत्त्वेनान्याप्त्यभावा. दिति चेन्न । उक्तयुक्त्येव धूमवान्वहरित्यादावतिव्याप्त्यापत्या वृत्तित्व. सामान्याभावस्यैवप्रबश्यतया ऽव्याप्तिवारणासम्भयात् नवमयभावादिनिष्ठावच्छदकतायान्ताशप्रतियोगित्वादिनिष्ठावच्छदकताभिनावच्छेदकत्वानिरूपितत्वनिवेश्यतांप्रतियोगित्वनिष्ठावच्छेदकता. यां तु प्रतियोगित्वविशेषणीभूतरूपवृत्तित्वनिष्टावच्छेदकतानिरूपितत्वमात्रमेव दोषाभावादिति वाच्यम् तत्क्षणविशिष्टप्रतियोगिताघटितवृत्तित्वाभावमादायातिव्याप्तस्तथासत्यवारणात् । वस्तुतस्तु साक्षा. त्परम्परासाधारणनिरूपितत्वस्य स्वीकृततयावृत्तित्वनिष्ठप्रतियोगितायामेव प्रतियोगितावच्छेदककोटिप्रविष्टतत्तद्धर्मनिष्ठावच्छेदकतामित्रावच्छेकत्वानिरूपितत्वं प्रवेश्यं लाघवादिति प्रतियोगिताधिशेषणधर्मावच्छिन्नत्वस्येतरचारकस्य प्रवेश आवश्यक प्रति तयक्तः स्वरूपतोभानाभ्युपगमे वह्नयमावप्रतियोगितात्मकतव्यक्तिवहयभावात्मकतध्यक्तिधूमाभाषाधिकरणजलात्मकतध्यक्तीरादायधूमवान्बहेरि. त्यत्रातिव्याप्तिवारणायाधिकरणनिष्ठावच्छेदकतापर्यन्तन्तसदवच्छेदकतानिरूपितत्वंनिबेश्यं वृत्तित्वनिष्ठप्रतियोगितायामवच्छदकता. निरूपितत्वन्नोपादेयम् । स्वरूपसम्बन्धावच्छिन्नत्वस्यप्रतियोगितायामावश्यकतया ध्वंसीयप्रतियोगितामादायदोषाप्रसक्तः यसु प्रति योग्यंशे उपलक्षणविधयाभानस्यापि स्वीकृततया ताशप्रतीतीयप्रतियोगितामादाय दोष इति तन्न क्वचिदुपलक्षणविधया भानस्वी. कारेऽपि तस्य प्रतियोगितावच्छेदकत्वस्वीकारेण दोषासम्भवात् । परन्तु लक्ष्यमात्रवृत्तेरेवलक्षणत्वे व्याप्तिमिन्ने वृत्तित्वसामान्याभावे. ऽप्युक्ताभावस्य वृत्तितया तस्य व्याप्तिलक्षणत्वानुपपत्तिभयेनाधिकरणादिनिष्ठावच्छेदकतानिरूपितत्वमुपादेयमेबोक्ताभावत्वेनवृत्तित्वसा. मान्याभावस्यापि व्याप्तित्वेनोपादेयमेवेत्यवधेयमिति दिक् । येन सम्बन्धेनेति अथ साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वप्रवेशेऽपि संयोगसमवायोभयसम्बन्धेन वह्निर्धास्तीत्यभावमादायाव्याप्तिः । साध्यतानिरूपितसंसर्गतानवच्छेदकीभूतवमानवच्छिन्नसंसर्गतानिरूपितत्वनिबेश उक्तदोषवारणेऽपि संयोगत्वसमवाय. त्वान्यतरवत्सम्बन्धेनवह्निसाध्यकधूमे सवमायेन वह्नयभावमादायाव्याप्तेरनुद्धार इति चेन्न स्वानरूपितसंसर्गतावच्छेदकतात्वावच्छिन्न. Page #24 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविकृतिः । पर्याप्यनुयोगितावच्छेदक रूपवृत्ति संसर्गतानिरूपितत्वविवक्षायान्दोषाभावात् 1. एतेन साध्यतावच्छेदकसम्बन्धातिरिक्त सम्बन्धानवच्छिनत्वनिवेशे साध्यतावच्छेदकसम्बन्धावच्छिन्नत्वस्य वैयर्थ्य १८ मित्यप्यपास्तमुक्तनिवेशस्योभयपर्य्यबसायित्वात् । यत्तु रूपवान् । पृथिवीत्वादित्यादी रूपध्वंसीय प्रतियोगितावारणाय तन्निवेश इति तत्र ध्वंसीयप्रतियोगितायां सामान्यधम्मनिछिन्नत्वे मानाभावेन तस्य लक्षणाघटकत्वादिति एकत्वादेः पर्या• दत्यनभ्युपगमपक्षे साध्यतानिरूपित संसर्गतासमनिपतसंसर्गताकत्वंविवक्षितम् । सामनैयत्यश्च स्वनिरूपितावच्छेदकतावत्वसम्बन्धेन । अवच्छेदकतावत्ताच | स्वावच्छेदकसम्बन्धावच्छिन्नत्वस्वसामानाधिकरण्योभयसम्बन्धेन समवायेनसाध्यतास्थले स्वरूपत्वावच्छि असंसर्गतामादायाव्याप्तिवारणाय स्वसामानाधिकरण्यनिवेशः स्वसंयोगवृत्तिसंयोगत्वाश्रयस्य तदवच्छेदकत्वे च समवायेन तादृशसंयोगत्वावच्छिन्न संसर्ग तामादायाव्याशिवारणाय स्वावच्छेदकसम्ब म्यावच्छिन्नत्यप्रवेशः अतएव स्वसंयुक्तघटसंयोगवृत्तितद्यक्तित्वस्य कालिकेन स्वसंयुक्तवायुसंयोगवृत्तियक्तित्वस्य च स्वरूपेणाश्रयस्य -संसर्गत्वे विनिमयेन तादृशतद्व्यक्तित्ववत्सम्बन्धावच्छिन्नप्रतियोगिसाकाभावमादायाव्याप्तिरित्यप्यपास्तमिति दिक् । - अथ साध्यतावच्छेदकनिष्ठं यत्तन्निरूपक प्रतियोगिताकाभाव एव प्रवे-श्याङ्किमवच्छेदकत्व पदोपादानेनेति चेन समवायेनप्रमेयसाध्यकसम्वे प्रमेयत्वनिष्ठवृत्तितानिरूपक घटाभावी प्रतियोगितामादायाव्याप्त्यापत्तेः नच साध्यतावच्छेदकनिष्ठं यत्तन्निरूपितत्वमेववाच्यमधिकरणे वृत्तितानिरूपकत्वस्यैव सत्त्वेनाव्याप्त्यभावादिति वाच्यं घटामाव साध्यकघप्रभावत्वत्वे घटाभावत्वनिष्ठप्रतियोगित्वाभावाभावस्य प्रतियोगिता रू. पस्य स्वरूपसम्बन्धावच्छिन्नस्य साध्यतावच्छेकनिष्ठतया तन्निरूपित -प्रतियोगित्वाभावनिष्ठप्रतियोगिताकाभावाधिकरणे घटाभावखे हेतो -स्सत्वेनाव्याप्त्यापत्तेः नचावच्छेदकत्वाभावाभावस्यावच्छेदकतारूप• क्य घटाभावत्वनिष्ठस्य निरूपिताया अधच्छेदकत्वाभावनिष्टप्रतियो- गिताया निरूपकीभूतस्याभावाधिकरणे हेतोः सत्त्वेनावच्छेदकस्यपदोपादनेऽपि अव्याप्तितादवस्थ्यमिति वाच्यं साध्यतावच्छेदकनिष्ठाबच्छेदकतात्वावच्छिन्न निरूपकतानिरूपित निरूप्यतावत्त्वस्य विव Page #25 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविवृतिः । 1 ननु:: तादात्म्येन क्षितत्वात् अवच्छेदकत्वाभावनिष्ठप्रतियोगितात्वेनावच्छेदकत्वाभा वाभावत्वेनैव निरूप्यनिरूपक मावेनातदोषासम्भवात् कालिकसम्बन्धावच्छिन्नघटत्वनिष्ठाधेयत्वेन: कालिकेन विशिष्टस्य : साध्यतायां घटत्वे सद्धेतौस्वरूपसम्बन्धावच्छि प्रतादृशवृत्तित्वनिष्ठावच्छेदकताक प्रतियोगिताकाभावमादायाव्याप्तिः अवच्छेदकताया अवच्छेदकस्वरूपतानये स्वरूपसम्बन्धावच्छि नावच्छेदकत्वस्यापि कालिकसम्बन्धावच्छिन्नत्वादतः साध्यतावच्छे. दकताघटकसंसंगतात्वावच्छिन्ननिरूपकनानिरूपित निरूष्यतावच्छेदकीभूतावच्छेदकतात्वावच्छिन्ननिरूपकतानिरूपित निष्यतावत्वम्बिव १९ क्षणीयन्तत्र निरूप्यतावच्छेदकतयावच्छेदकतात्वप्रवेशोविफलः घ टाभावत्वानष्टप्रतियोगितात्वस्यैवाक्ताने रूप्यतावच्छेदकत्वेन तस्य प्र तियोगित्वाभावप्रतियोगिता निष्ठनिरूप्यतानिरूपित निरूपकतानवच्छेदकत्वेन पूर्वोक्ताव्याप्तेरप्रसक्तेरिति चेदवच्छेदकतायाः पदार्थान्तरत्व उक्तरूपेण विवक्षायां प्रयोजनाभावात् अधिकरणस्यचासाधारणधर्मपुरस्कारेणानिरूप्यत्वेप्यधिकरणत्वविशिष्टस्य सनिरूपक त्वात्कस्येदमधिकरणमित्याकाङ्क्षा दर्शनात्प्रमेयत्वनिष्ठवृत्तितामादाय पूर्वोक्ताव्याप्तेर्दुर्वारत्वाद्वाऽवच्छेदकतात्वमुपादेपमेवेति गृहाण नव वह्नेर्वहित्वावच्छिन्नप्रतियोगित्वाभावानुयोगिकस्ववृत्तिवाच्यत्ववत्त्वादि सम्वन्धेन साध्यतायां तादृशाभावनिष्ठतयक्तित्वस दे तावहिस्वावच्छिन्नप्रतियोगितायाः प्रतियोगित्वाभावाभावात्मिकायानिरूपकस्य प्रतियोगित्वाभावनिष्ठप्रतियोगित्वस्य स्वाभावाभावतयाऽभाव स्याधिकरणेहेतोः सत्वेनाव्याप्त्याप्रागुक्तनिरूप्यतावच्छेदकीभूतं प्रतियोगितात्वघटितधर्म्मावच्छिन्ननिरूपकतानिरूपित निरुण्यतावत्त्व स्य विवक्षणीयतयावृत्तित्वनिष्ठनिरूपकतानिरूपितनिरूप्यतावच्छेदकाधिकरणत्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यत्वस्याभावे रहेण प्रागुक्तदोषाप्रसक्तर्नोपादेयमवच्छेदकतात्वमिति वि वाच्यमेवं सत्येतल्लाभायैवावच्छेदकतात्वस्योपादेयत्वात् वस्तुतस्तूक्तसार्थक्यं प्रक्रियाया यथा श्रुतलक्षणाश्रितत्वेनाशष्यबुद्धिवैशद्यमात्रप्रयोज नत्यमेव सिद्धान्ते पर्य्याप्तिघटितकल्पे सिद्धान्ततमे सामनेययत्य घटितकल्पे च वैयर्थ्यशङ्कापिनास्ति तथा हि साध्यतानिरूपितत्वा वच्छिन्न पर्थ्याप्तिप्रतियोगित्वस्य विवक्षितत्वे साध्यतानिरूपितत्वस्य Page #26 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविकृतिः। साध्यतात्वनिष्ठाधयेतादौ सत्त्वेन साध्यतानिरूपितत्वावच्छिन्नपयाप्त्यनुयोगितावच्छेदके साध्यतात्वसाध्यतावच्छेदकगतद्वित्वादौ प्रतियोगित्वस्य वृत्तित्वासम्भवेनासम्भवापत्तिः यत्किञ्चिग्निरूपित. स्वाविवक्षणे साध्यत्वाभावमादाय महानयिवहिसाध्यकस्थले ब. हयभावादिकमादायाव्याप्त्यापत्तिः सामनयत्यघटिते तु स्वनिरूपि. तत्वस्यैव संसर्गत्वे तेन च सम्बन्धेन साध्यत्वस्य साध्यतात्वनि. वृत्तित्वे सत्त्वेन तत्र प्रतियोगित्वस्य सत्वासम्भवनासम्भवापत्ति. रित्युपादेयमेवावच्छेदकतात्वमित्युपरम्यते ।। अत्र प्रतियोगित्वानुपादाने वह्नित्वनिष्ठावच्छदकतात्मकाधिककरणनिरूपिताधेयत्वनिरूपकावच्छेदकतात्मकाभावाधिकरणे वह्नित्वे यहित्वत्वस्य वृत्तितयाऽऽधेयतया वह्नौ साध्ये वह्नित्वत्वेऽव्याप्तिः यद्यप्यवच्छेदकतात्वावच्छिन्ननिरूपकतानिरूपितनिरूप्यतावच्छेदकीभूतधविच्छिन्ननिरूपकत्वविवक्षायान्नसम्भवति आधेयतात्वेन ता. अशावच्छेदकतात्वेन निरूप्यानरूपकभावविरहात्तथापि घटाभाबस्य साध्यतायां भूमहेती घटाभावत्वनिष्ठावच्छेदकतानिरूपितघटाभाव. त्वावच्छिन्नवृत्तितानिरूपकपटाभाबाधिकरणे पर्वतादौ हेतोस्सत्वे. नाव्याप्तिर्भवत्येवेति प्रतियोगितात्वोपादानम् सामनयत्यघटिते पर्याप्तिघटितेऽप्ययमेव दोषोबोध्यः नच प्रतियोगित्वोपादानेऽपि घटाभाववान् घटाभावत्वत्वादित्यादी तादृशप्रतियोगितानिरूपितावच्छेदकत्वाधिककरणे घटाभावत्वे हेतोः सत्त्वेनाव्याप्तिरतोऽभाव. स्वावच्छिन्ननिरूपकत्वम्विवक्षणीयन्तथाच प्रतियोगित्वानुषादानेऽपि वृत्तितानिरूपकपटाभावात्मकाधिकरणमादाय न दोष इति वाच्यं घटाभावत्वावच्छिन्नवृत्तितानिरूकत्वस्य पटाभावत्वेन सम्भवात्पटाभावस्य कृतित्वमिति प्रतीतेः नचाभावत्वावच्छिन्ननिरूपितत्वमेव. विवक्षणीयं पटाभावस्याधिकरणत्वेनैववृत्तितानिरूपितत्वाददोष इति घाच्यमभावे प्रतियोगित्वनिरूपकत्वस्यैव स्वीकारेऽसम्भवापत्तेरिति ध्येयम् ॥ अथ प्रतियोगितानिरूपकत्वेनवाभावः प्रवेश्यतामभावत्वेन त. स्प्रवेशोव्यर्थ इति चेन्न वह्नित्वावच्छिन्नप्रतियोगितानिरूपकावच्छद करवाधिकरणे वह्नित्वे वह्नित्वत्वस्य वृत्या वहिमान्वह्नित्वत्वादित्यत्रा. व्याः अधच्छेदकरवस्थावच्छेदकस्वाभावाभावत्वेऽपि प्रतियोगितानि. Page #27 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकवितिः। २१ रूपकतावच्छेदकाभावत्वावच्छिन्नाधिकरणत्वस्य प्रवेशात्प्रतियोगितानिरूपकत्वविशिष्टाभावत्वावच्छिन्नाधिकरणत्वस्य वा प्रवेशाहो. षासम्भवादिति यद्वा घटाभावस्थ समवायसम्बन्धावच्छिन्नप्रतियोगिताकस्य स्वरूपेण साध्यतायां घटत्वे सद्धसो घटाभावत्वावच्छिन्न प्रतियोगितानिरूपकानुयोगित्वाधिकरणे घटे हेतोस्सत्वनाव्याप्त्या. भावत्वेनाभावप्रवेश इति बोध्यम् यत्तु तत्सम्बन्धावच्छिन्नाधे. यत्वतत्संसर्गप्रतियोगित्वयोरैक्यपक्षमाश्रित्य संसर्गीयप्रतियोगितानिरूपकस्वाधिकरणत्वादिरूपसंसर्गस्य साध्यवत्ताबुद्धिविरोधिघटकस्वरूरूपेणाधिकरणे पर्वते स्वाधिकरणत्वसम्बन्धेन वह्निसा. ध्यकधूमहतोवृत्याऽव्याप्तिरतोऽभाबत्वेनाभावप्रवश इति तन्न आधे. यतानिष्ठकालिकासम्बन्धावच्छिन्नाधेयत्वस्य कालिकेन सा. ध्यतायां घटत्वे प्रतियोगितायाः प्रतियोगिस्वरूपत्व आधेयत्वनिष्ठप्रतियोगिताया आधेयतात्मकत्वेन कालिकसम्बन्धावच्छिन्नतया तन्निरूपकाभाववतिघटे. हेतोवृत्तित्वेनाव्याप्तिरतस्साध्यतानिरूपि. तसंसर्गतावच्छेदकीभूतधर्मावच्छिन्नसंसर्गतात्वावच्छिन्ननिरूप्यतानिरूपितप्रतियोगितात्वावच्छिननिरूपकत्वस्य प्रवशनीयतया संस तात्वेन सांसर्गिकप्रतियोगितात्वेन निरूप्यनिरूपकभावविरहेणाभावपदार्थप्रवेशमन्तराव्याप्तिविरहादिति॥ __ अथ साध्याभावाधिकरणत्वं सम्बन्ध सामान्येनसायन्धविशेषेण वा नाचः कालिकेन वन्यभावाधिकरणे पर्वतेधूमस्य वृत्यावह्निमान्धूमादित्यत्राव्याप्त्यापत्तेः न द्वितीयः तद्धि न स्वरूपं घटत्वाभाववान् पटत्वादित्यत्राव्याप्त्यापत्तेः नाप्यत एव संयोगः नापि समवायः घटाधिकरणत्वाभाववान् तद्यक्तित्वादित्यत्राव्याः अत्र केचिादभावाभावस्यातिरिक्तत्वे स्वरूपेण साध्याभावाधिकरणत्यविवक्षायां न दोष इत्याहुः अन्येतु घटत्वाभावाभावस्य घटत्वरूपत्वेऽपि घटत्वत्वेनैव स्वरूपेण विरोधस्सत्तायांनतु घटत्वाभावाभावत्वेन तथा च साध्याभावत्वावच्छिन्नस्य स्वरूपेणाधिकरणत्वविवक्षायान्नदोष इति वदन्ति येतु स्व. रूपसमवायान्यतरसम्बन्धन साध्याभावाधिकरणत्वविवक्षायान्न दोषः नच संयोगसम्बन्धावच्छिन्नघटाभाघे साध्ये कपालत्वहेतौघटात्मक. साध्याभावस्य समवायेनाधिकरणकपालत्वस्यवत्तित्वादव्याप्तिरिति वाच्यं सत्सम्बन्धावच्छिन्नप्रतियोगिताकासावत्यावच्छिन्नस्य Page #28 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । तेनैवाधिकरणत्व स्वीकारेणोक्तदोषासम्भवात् नचान्यतरसम्बन्धेन तदवच्छिन्नाधिकरणत्वाप्रसिद्धिरिति वाच्यम् संयोगस्वरूपसमवाया न्यतमसम्बन्धेनाधिकरणत्वस्य विवक्षितत्वादिति मन्यन्ते तेषां कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाभावे साध्य आत्मत्वे साध्याभावत्वावच्छिन्नाधिकरणत्वाप्रसिद्ध्या कालिकसम्बन्धघटिताम्यतमसम्वन्धपादाने वह्निमान्धूमादित्यादौचाव्याप्तिर्बुरुद्ध रैवोतिषोध्यम् ॥ नव्यास्तु साध्यवत्ताबुद्धिविरोधिताघटकसम्बन्धेन साध्याभावोधिकरणत्वोक्तौ न कोऽपिदोषः । साध्यवत्तावुद्धिविरोधित्वञ्च सा. ध्यतावच्छेदकतात्वावच्छिन्नप्रतियोगिताकपय्यपिनुयोगितावच्छेदः करूपवृत्तिप्रकारतानिरूपित कश्चिद्धम्मविच्छिन्न विशेष्यताकप्रहत्वव्यापक प्रतिबध्यतानिरूपितप्रतिबन्धकत्वम्बोध्यम् । नच तादृशप्रका रत्वावच्छिन्नप्रतिबध्यत्वमेवोच्यतामलं व्यापकत्वप्रवेशेनेति वाच्यम् २२ कालिकसम्बन्धावच्छिन्नप्रतियोगिताकात्मत्वाधिकरणत्वाभावसाध्यकस्थले स्वरूपेण तादशात्मत्वाधिकरणत्वाभाव गगनत्वोभयाभावबद्वह्नित्वमित्यादिनिश्चयप्रतिबन्धकतानिरूपिताया एकत्रद्वयंरीतिज्ञानसाधारणप्रतिबध्यतायास्तादृशप्रकारित्वावच्छिन्नत्वेन स्वरूपस्यापिवि रोधिताघटक सम्बन्धत्वेनाव्यायापतेः प्रतिबध्यता च साध्यतावच्छे. दकविशिष्टविषयक ग्रहत्वाव्यापिका ग्राह्या नातो वह्निमत्पर्व्वतकालीनात्मत्वाधिकरणत्वाभाव साध्यकस्थले स्वरूपसम्बन्धमादायाव्याप्तिरिति वस्तुतस्तादृशप्रतिबन्धकतावच्छेदकप्रकारताविशिष्टसाध्याभावत्वावच्छ्न्निनिरूपकत्वमवश्यं वाच्यं वैशिष्ट्यञ्च स्वावच्छेदकसम्बन्धावच्छिन्नत्वं स्वावच्छेदकी मूतधर्म्मावच्छिन्नत्वोभयसम्बन्धेन तथाच पूर्वोक्तदोषद्वयस्यासम्भवेन तादृशग्रहत्वव्यापकत्वमव्यापकत्वञ्च नवि वक्षणीयम् अतएव कालिकेन वह्नयभावव्याप्यधूमस्य कालिकेन बुद्धेः प्रतिबन्धकतया तदवच्छेदककालिकसम्बन्धावच्छिन्नसाध्याभावत्वावच्छिन्ननिरूपकताकाधिकरणत्वमादाय न दोषः निरूपकतायां सा. ध्याभावत्वावच्छिन्नत्वप्रवेशाद्धदस्य प्रतियोगितया साध्यतायां घटाभावत्वे हेतौ पटाभावः प्रतियोगितया घटवानितिबुद्धिप्रतिबन्धकीभूतस्य पटाभावे घटाभाव इति ज्ञानस्य या प्रकारता तद्विशिष्टस्व. रूपसम्बन्धावाच्छन्नाधेयत्वसम्बन्धावच्छिन्नपटा भावत्वावच्छिन्ननिरू. पकताकाधिकरणतावति घटाभावे हेतोः सत्त्वेऽपि नाव्याप्तिः । नच Page #29 -------------------------------------------------------------------------- ________________ ध्याप्तिपश्वकवितिः। प्रकारतायामाधयत्वसम्बन्धानवाच्छन्नत्वम्बाच्यमिति वाच्यमाधेयत्वसम्बन्धावच्छिन्नप्रतियोगिताकाभावसाध्यकस्थले तादृशाभावाभावत्यावच्छिन्नस्यान्यसम्बन्धेन सत्ताविरहेणाव्याप्त्यापत्तेः नच स्वापच्छेदकधर्मावच्छिन्नत्वम्बिहाय स्वसामानाधिकरण्यस्यैवास्तु 'सम्बम्धतेति वाच्यं घटवृत्तित्वाभावस्य कालिकसम्बन्धावच्छिन्नाभावे साध्य आत्मत्वे साध्यवाम्घटइतिबुद्धिप्रनिबन्धकीभूतायास्साध्यंघटावृत्तीतिबुद्धास्वरूपसम्बन्धावच्छिन्नघटवृत्तित्वाभावत्वावच्छि. भप्रकारतातद्विशिष्टनिरूपकतामादायाव्याप्त्यापत्तेः स्वावच्छेदकधर्मावच्छिन्नवर्माप पर्याप्तिगर्भ वाच्यमन्यथाऽनुपदोक्तस्थले म. हानसीयवह्नयादिसाध्यकस्थले च कालिकेन वह्निसामान्याभावव्याप्यमहानसीयवह्नयभाववानितिप्रतिबन्धकहानीयप्रकारतामादाया. व्याप्यापत्तेः प्रतिबध्यता च साध्यामावविषयत्वानवच्छिन्ना ग्राह्या. नातोविषयतात्वसाध्यकप्रकारतात्वे सखेती विषयतात्बाभावाविषय. तात्ववानितिबुद्धिप्रतिबन्धकस्य विषयतात्वाभावे विषयतात्वाभाव इतिज्ञानस्य या स्वरूपसम्वन्धावच्छिन्नाधेयत्वसम्बन्धावच्छिन्नविषयतात्वाभावत्वावच्छिन्नप्रकारता तामादायाव्याप्त्यापत्तिः प्रतिबन्धकतावच्छदकता च प्रकारतात्वावच्छिन्ना वाच्या तेन ह्रदवृत्तिवह्नयभाववान् कालिकेनपद्धतइतिज्ञामीया या हदवृत्तित्वप्रकारतानिरूपितविशेष्यतात्वेन प्रतिबन्धकतावच्छेदिकायाः कालिकसम्बन्धावच्छिन्नवयभावत्वावच्छिन्नप्रकारतायाः कालिकसम्बन्धावच्छिननिरूपकतायां सत्त्वेऽपि न वहिमान्धूमादित्यत्राव्याप्तिः प्रकारता चावच्छेकदतानात्मिकात्र विवाक्षता नातोवढेः साध्यतायान्तचह्नित्बे सद्धती वह्नयभावव्याप्यवत्तानिश्चयप्रतिबन्धकतावच्छेदकप्रतियोगित्वसम्बन्धावच्छिन्नवह्नयभावत्वावच्छिन्नप्रकारतामादायाव्याप्तिः ताशप्रकारताया अवच्छेदकतात्वेनावच्छेदकत्वपक्षेऽवच्छेदकतानास्मकत्वनोपादेयम् प्रतिबन्कता च ज्ञानवैशिष्ट्यानवच्छिन्ना ग्राह्या तेन स्वरूपेणहयवभाववान्कालिकेनवह्नयभाववानितिनिश्चयविशिष्टस्य कालिकेन वयभाववानिति निश्चयस्य प्रतिबन्धकत्वेऽपि न क्षतिः अथ महानसीपवह्निसाध्यकतधूमहेतुकस्थले वह्नयभाववदभाववत्का लीन घटोमहानसीयवह्निमानितिबुद्धी तादृशघटः कालिकेनमाहानसी. यवन्ह्यभाववानित्यस्य प्रतिबन्धकतया तदीपप्रकारतामादायाव्याप्तिः Page #30 -------------------------------------------------------------------------- ________________ २४ व्याप्तिपञ्चकचिवृतिः । नच तस्य निश्चयविशिष्टनिश्वयत्वनैव प्रतिबन्धकत्वं तादृशघटत्वाव च्छिन्नविशेष्यतानिरूपिताभावत्वावच्छिन्नप्रकारताशालिनिश्चयत्वन प्रतिबन्धकत्वसम्भवे निश्चयविशिष्टनिश्चयत्वेनप्रतिबन्धकत्वे मानाभावात् नच साध्याभावविषयत्वानवच्छिन्नत्वेन प्रतिबध्यत्वस्य वारण वन्ह्यभावस्यासाध्याभावत्वात् । सध्य प्रतियोगि काभावनिवेशे वन्हय. भावकालीनमहानसीपवह्निसाध्यकस्थले महासीय वहयभावकाली. नवह्निसाध्यकस्थले चाव्याप्त्यापत्तेरितिचेन तादृशप्रतिबन्धकतावच्छेदकताविशिष्टनिरूपकताया विववक्षितत्वात् वैशिष्टयश्च स्वाश्रयावच्छेदकसम्बन्धावच्छिनत्य स्वनिरूपितावच्छिन्नत्वसम्ब धावच्छिन्नावच्छेदकतात्वावछिन्नपर्ण्यापत्यनुयोगितावच्छेदकरूपवृतित्वोभयसम्बन्धेन तथासत्यभावत्वावच्छिन्न प्रकारतात्वावच्छिन्नावच्छेदकतावच्छेदकतात्वावच्छिन्नपय्याप्त्यिनुयोगितावच्छेदकाभाव स्वगतैकत्ववृत्तित्वस्यानिरूपकतायां विरहेणाव्याप्त्यसम्भवात् । यद्वा साध्यतावच्छेदकतात्वावच्छिन्नपर्य्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्वं प्रतिबध्यतायाश्निवेशनीयम् । वृत्तित्वञ्चस्वनिरूपित प्रकारत्वनिष्ठावच्छेदकतानिरूपितावच्छिन्नत्वसम्बन्धावच्छिन्नावच्छेदकतात्वावच्छिन्नपय्यदित्यनुपयोगितावच्छेदकत्वसम्बन्धेन तथाचोकप्रतिबध्यताया उक्तसम्बन्धेन वह्नित्वगतैकत्व एव वृत्तित्वन्नतु महानसीयत्ववह्नित्वगतद्वित्व इति न दोष एवम् साध्यवत्ताग्रहप्रतिबन्धकतानिरूपित प्रतिबध्यतावच्छेदकप्रकारतावच्छेदकसम्बन्धाबच्छिन्नत्वविवक्षयैवोक्तदोषो वारणीयः एतस्य च परिष्कारः स्वयमुह्य एतेन महानसीयवह्निव्यापकाभाववदभाववत्कालीन घटधस्मिक महान सीयवह्निमत्तावुद्धिप्रतिबन्धकतामादायाव्याप्तिरुक्तविवक्षायामप्यनिवार्येति निरस्तम् अथवा साध्याभावविषयत्वानवच्छिन्न त्वम्परित्यज्यैकत्ववृत्तिविशेष्यत्वावच्छिन्नत्वस्यप्रतिबध्यत्वाविशेषणतया विवक्षायाम्नकोऽपिदोष इति । नच घटभिन्नङ्कपालत्वादित्यत्र साध्याभावस्य घटत्वरूपस्य विरोधिताघटकसमवायेनाधिकरणे कपाले हेतोर्वृत्याऽव्याप्तिरिति वाच्यम् तस्य घटत्वस्वरूपत्वे ऽपि घटभेदाभावात्वावच्छिन्नाधिकरणतायाः घट एव स्वीकारेणादोषासम्भवादितिप्राहुः ॥ परंतु साध्यतावच्छेदकतात्वावच्छिन्न प्रतियोगिताकपय्यप्त्यि Page #31 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविवृतिः। नुयोगितावच्छेदकरूपवृत्तित्वे सति साध्यतानिरूपितसंसर्गताव. च्छेदकतात्वावच्छिन्नपप्याप्त्यनुयोगितावच्छेदकरूपहात्तसंसर्गताकप्रतियोगिताकाभाववृत्तिसाध्यसामान्यीयप्रतियोगितावच्छेदकसम्बन्धेन साध्याभावाधिकरणत्वविवक्षायाभदोषः वृत्यन्तमात्मत्वप्रकारकप्रमाविशेष्यत्वस्य कालिकेनाभावस्य स्वरूपेण साध्यताया. मात्मत्वे कालिकसम्बन्धावच्छिन्नसाध्याभावस्य स्वरूपेणाभावस्य साध्यात्मकतया तत्प्रतियोगतावच्छेदकस्वरूपेण साध्याभावाधिक. रणे हेतोवृत्याऽव्याप्तियारणाय विशेष्यत्वाभावसाध्यकस्थले तारशप्रतियोगितावच्छेदकोयो यः सम्बन्ध स्तत्तत्सम्बन्धेन साध्याभावाधिकरणत्वविवक्षणे स्वरूपकालिकाभ्यां विशेष्यत्वाधिकरणे जन्य. आत्मत्वहेतो रवृत्याऽव्याप्तिविरहाद्वशेष्यत्व आत्मत्वप्रकारकप्रमा. निरूपितत्वनिवेशनन्तथासति तस्योभयसम्बन्धेनाधिकरणत्वाप्रास येवाव्याप्तिसम्भवः । अथात्मानुयोगिकस्वरूपसम्बन्धावच्छिन्न. साध्याभावस्यात्मत्वप्रकारकप्रमाविशेष्यतानात्मकतया तदभावस्य स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकस्यात्मानुयोगकस्वरूपेण वृत्तिमत्साध्यस्वरूपतया तदवच्छेदकस्वरूपमादायात्मत्वप्रकारकप्रमाविशेष्यत्वाभाववानात्मत्वादित्यत्राव्याप्त्या तधटासमानकाली नघटस्य कालितकेन योऽभावस्तस्यतद्घटानुयोगिकस्वरूपेणसा. ध्यतायान्तघटत्वे स्वरूपेण साध्याभावस्योक्तघटस्वरूपतया कालिकेन तदभावस्य साध्यात्मकस्य प्रतियोगितावच्छेदकेन कालिकेन साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्याभावस्य तद्घटसमानका. लीनपदार्थान्तरवृत्तितया ऽतिरिक्तस्याधिकरणे हेतोवृत्याऽव्याप्त्या च रूपवृत्तिसंसर्गताकत्वमवश्यं विवक्षणीयन्तथाचात्मत्वप्रकारका प्रमाविशेष्यत्वाभावस्य स्वरूपेणाभावस्योक्तविशेष्यत्वरूपतया स्व. रूपेण तदभावस्य सर्वथा त्मावृत्तेस्साध्यस्वरूपत्वविरहेणाव्यापत्यभावात् साध्यप्रतियोगिकत्वनिवेशनम्व्यर्थमिति चेन्न कालिके न घटाभावस्य यः कालिकेनाभावस्तस्यकालिकेन साध्यतायां अ. न्यत्वहेतावव्याप्तेः साध्यताधच्छेदकसम्बन्धावच्छिन्नप्रतियोगिताकघटाभाववृत्तिसाध्यनिरूपितप्रतियोगितावच्छेदकेन कालिकेन साध्याभावाधिकरणे जन्यत्वहेतोवृत्तेः नचैमवपि रूपवृत्तिप्रतियोगिताकत्वनिवेशनस्व्यर्थमिति वाच्यम् आत्मवृत्तित्वविशिष्टोक्तविशे. Page #32 -------------------------------------------------------------------------- ________________ २६ व्याप्तिपश्चकवितिः। प्यत्वाभावस्य यस्स्वरूपेणाभावस्तस्यातिरिक्तस्य स्वरूपेणाभावस्य आत्मवृत्तित्वविशिष्टोक्तविशेष्यत्वाभावरूपत्वेन साध्यतया तत्प्रति. योगितावच्छेदकस्वरूपमादायात्मत्वप्रकारकप्रमाविशेष्यस्वाभावधानात्मत्वादित्यादी तयटवृत्तितद्घटासमानकालीनघटाभावस्य स्व. रूपेण साध्यतायांतद्धटत्वे शुद्धतादृशघटाभावाभावस्य तारशघ. टरूपतया कालिकेन तदभावात्मकसाध्यप्रतियोगितावच्छेदककालिकमादायाव्याप्त्यापत्तश्चेति । यतु प्रतियोगित्वोपादानमनर्थकमिति तन्न तादृशरूपवृत्तिसा. ध्यतावच्छेदकसम्बन्धावच्छिन्नात्मत्वप्रकारकप्रमाविशेष्यत्वाभाव. स्वावच्छिन्नवृत्तितानिरूपकस्य कालिकसम्बन्धावच्छिन्नसाध्याभा. वस्य · स्वरूपेणाभावात्मकसाध्यप्रतियोगितावच्छेदकस्वरूपमादायाव्याप्त्यापत्तेः नचैवमप्यभावत्वेन अभावप्रवेशो व्यर्थ इति वाच्यं कालिकेनावच्छेदकत्वाभावस्य कालिकेन साध्यतायां, जन्यत्वे ता. दृशप्रतियोगितानिरूपकावच्छेदकतावृत्तिसाध्यनिरूपितप्रतियोगिता वच्छेदककालिकसम्बन्धेन साध्याभाववति हेतोवृत्या ऽव्यापत्या. पत्तः, अथ कालिकेनप्रमेयाभावस्य कालिकेन साध्यतायां जन्यत्वहेतो साध्यनिरूपितप्रमपत्वावच्छिन्नप्रतियोगिताया निखिलप्रमेय. वृत्तस्साध्याभाषवृत्तितया तरच्छेदकालिकमादायाव्याप्तिरभावो. पादानेऽपि दुवारैवेति चेन्मैवम् अभावोपादानेसाध्याभावत्वसमनि. यतप्रतियोगिताकत्वस्य विवक्षितुंशक्यतयोक्तदोषवारणसम्भवाद. न्यथा तादृशप्रतियोगिताकत्वस्यावकछेदकत्वादिसाधारणतया तत्समनियतप्रतियोगित्वाप्रसिच्चाऽसम्भवापत्तेः नच प्रमेयाभावसाध्य. कम्थलीयदोषस्य व्याप्यत्वविवक्षयापि वारणसम्भवेन व्यापकत्व. निवेशे प्रयोजनाभाबादभावत्वप्रवेशो व्यर्थ इति वाच्यं । समबायस. म्बन्धावच्छिन्नप्रतियोगिताकप्रमपाभावस्य स्वरूपेण साध्यतायां जातित्वादिहेतावव्याप्त्यापत्तेः कालिकसम्बन्धावच्छिप्रतियोगिताकसा. ध्याभावस्य यः स्वरूपणाभावस्तस्यापि साध्यरूपतया तदीयप्रतियोगित्वस्य केवलान्वायनः साध्याभावत्वस्य व्याप्यतया च तदवच्छेद कस्वरूपेण साध्याभावाधिकरणे हेतो वृत्तः यद्वा सामान्यीयप्रतियो. गिताय साध्याभावत्वावच्छिन्नत्वमुपादेयन्तथाच कालिकन प्रमेयाभावलाध्यकस्थले न दोषः कालिकसम्बन्धःवच्छिन्नप्रतियोगितायाः Page #33 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृति। साध्याभावत्वानवच्छिन्नत्वात् नच साध्यतावच्छेदकावच्छिन्न साध्य. तावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिकत्वावच्छिन्नत्वमेवोच्यतामलमभावत्वप्रवेशेनेतिवाच्यं तादृशप्रतियोगितात्वावच्छिन्ननिरूप्यतानिरूपितनिरूपकतावत्संसर्गतालाभार्थत्वात् तदप्रवेशे विशेष्यत्वाभावस्य स्वरूपसम्बन्धेन साध्यतायामात्मत्वे स्वाभाववत्त्वसंसर्गीया या सा ध्याभावत्वावच्छिन्ना प्रतियोगिता तस्यास्तत्संसर्गेण साध्यात्मकेन निरूपितततया तत्सम्वन्धावच्छिन्नाधेयतारूपतयाच तदवच्छेदक. स्वाभाववत्त्वसम्वन्धन साध्याभावाधिकरणे हेतोर्वृत्तित्वात् अत्यन्ताभावनिरूपितत्वोपादाने संसर्गीयप्रतियोगितामादायोक्तदोषासम्भवेऽपि अत्यन्ताभावत्वसाध्यकतयक्तित्वे सद्धेतौ साध्याभावनिष्ठा या स्वाभाववत्वससर्गीयप्रातयोगता तामादायाव्याप्तिः । प्रतियोगित्वाधेयत्वादीनामाश्रयात्मकत्वेनैकत्वे वह्निनिष्ठसंयोगसम्ब. न्धावच्छिन्नप्रतियोगित्वकालिकसम्बन्धावच्छिन्नाधेयत्वयोरैक्येन का. लिकस्य प्रतियोगितावच्छेदकसंसर्गत्वेनाव्याप्तिश्च दु.रास्यादित्यवधेयम् अथ घटाभनपटत्वादित्यत्र साध्याभावस्यघटत्वस्व. रूपतया तवृत्तिभेदीयप्रतियोगित्वाप्रसिद्ध्याव्याप्तिः । साध्याभावस्य घटात्मकत्वे प्रतियोगित्वप्रसिद्धावपि तदवच्छेदकतादात्म्येन घटस्वात्मकसाध्याभावस्याधिकणे घटत्यत्वस्य वृत्त्याऽव्याप्तधापत्ति. घंटभिन्नं घटत्वत्वादित्यादावितिचेन धर्मिमभेदधर्मात्यन्ताभावयोरेक्यस्वीकारेण घटत्वनिष्ठप्रतियोगिताया अपि भदेनिरूपितत्वसम्भ. वात् । नच घटाभिन्नं घटत्वत्वादित्यत्राव्याप्तितादवस्थ्यमिति वाच्यम् । अत्यन्ताभावत्वनिरूपितत्वेनप्रतियोगित्वस्यविशेषणीयत्वात् । अथैवमाप घटभिन्नं कपालस्वादित्यत्रात्यन्ताभावस्वनिरूपितप्रतियोगितावच्छेदकसमवायेन घटात्मकसाध्यामावाधिकरणे कपाले कपालत्वतोवृत्तितयाऽव्यात्यापत्तिः नच साध्याभावत्वावच्छिन्ननिरूपकतायां ताशप्रतियोगिताविशिष्टत्वं स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन वाच्यं तथाच घटत्वनिष्टसमवायसम्वन्धावच्छिन्नप्रतियोगिताविशिष्टत्वस्य घटनिष्ठीनरूपकतायाम्बिरहान्नाव्यप्तिः एवं साध्याभावस्य घटघटत्वोभयात्मकत्वेऽपि तादात्म्यावच्छिन्नायास्समवायावच्छिन्नाया वा घटभेदाभावत्वाव. च्छिन्ननिरूपकताया निरूपितमाधिकरणत्वं घट एव. कपालादिषुघट. Page #34 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । भेदोनास्तीत्य प्रत्ययात् । तथाच विनाष्युक्तनिवेशस्वारणसम्भव इति वाच्यम् अत्यन्ताभावत्वनिरूपितत्वस्य व्यर्थत्वापत्तेरितिचेन्न । अभावाभावस्य प्रतियोगिरूपत्वस्यापि दर्शनाद्धटस्य तादात्म्येन. साध्यतायां घटभेदाभावस्य घटानात्वकत्वे साध्याभाववृत्तिसाध्यसा मान्यीय प्रतियोगित्वाप्रसिद्ध्याऽव्याप्तेश्च घटभेदाभावस्य घटस्वरूपत्वेऽपि लाघवाद्धटभेदाभावत्वावच्छिन्नाधिकरणतानिरूपकत्वस्य घटत्वे एवस्वीकरणीयत्वात् तथाच न घटाधिकरणतामादायघटाभअंकपालत्वादित्यत्राव्याप्तिप्रसक्तिः नवात्यन्ताभावत्वनिरूपितत्ववैय ૨૮ यै यदिचात्यन्ताभावत्वभेदत्वयोर्विरुद्धत्वेऽत्यन्तामावत्वनिरूपितप्रतियोगितायाम्भेदात्मक साध्यनिरूपितत्वासम्भवः एवम् भेदाभावस्यभेदप्रतियोगितत्वावच्छेदकान्यतररुपताया एच सिद्धान्तत्वेन तादात्म्येनघदविशिष्टभेदसाध्यकस्थले भेदाभावस्योभयथैव घटरूपतया तदत्यन्ताभावस्य साध्यानात्मकत्वेनात्यन्ताभावत्वनिरूपित साध्यनिरूपितप्रतियोगित्वाप्रसिद्ध्याऽव्याप्तिरिति विभाव्यते साध्याभावत्वसमनियतं साध्याभावत्वावच्छिन्नम्बा यदत्यन्ताभावत्वनिरूपितं साध्यनिरूपितप्रतियोगित्वं यच्च साध्याभाववृत्तिभेदश्वनिरूपितसाध्यनिरूपितप्रतियोगितावच्छेदत्वं तदन्यतरविशिष्टसाध्याभावत्वावच्छिन्ननिरूपकत्व म्बिवक्षणीयम् | वैशिष्ट्यञ्च स्वायच्छेदकसम्वन्धावच्छिन्नत्वसम्बन्धेन एवञ्च घटभिन्नं घटत्वत्वाद्धटभिन्नं कपालत्वादित्यत्र घटत्वनिष्ठतादात्म्यावच्छिन्नघटनिष्ठसमवा. यावच्छिन्ननिरूपकत्वआदायनाव्याप्तिः भवति च तादात्म्यावच्छिन्ना घटत्वनिष्ठा निरूपकतापि तादशीत्यत्यन्ताभावत्वनिरूपितत्व प्रवेशः तथाच भेदप्रतियोगितानिरूपितसमवायावच्छिन्नावच्छेदकतैव घटभेदाभावाभावस्य घटभेदानात्मकत्वेऽपि साध्याभाववृत्तिरिति न दोषः कालिकेन घटविशिष्टस्य समवायावाच्छिन्नाभावस्य साध्यत्वे - गुणत्वादौ कालिकेन घटविशिष्टात्मकसाध्याभावस्य घटस्यापि स्वरूपतया तद्वृत्तिसाध्यनिरूपित प्रतियोगितावच्छेदकताघटक कालिकमादायाव्याव्याप्तिवारणाय भदेत्वनिरूपितत्वं प्रतियोगिताविशेषणम् । साध्यतावच्छेदकगतरूपवृत्तिसाध्यतानिरूपित संसर्गतावच्छेदकगत. तदा पूर्ववदेव रूपवृत्तिस सर्गताकप्रतियोगिताकाभाववृत्तित्वप्रवेशफलं इयास्तु विशेषो यत्तत्र तदत्यन्ताभावाभावमादायात्र तदत्यन्ताभाव Page #35 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । २९ वद्भेदमादायेति नच कालिकेनप्रमेयवद्धटभेदस्य साध्यतायां सद्धोतौकालिकसम्बन्धावच्छिन्नप्रमेयत्वावच्छिन्नावच्छेदकतामादायाव्याप्तिरितिवाच्यम् । साध्याभावत्वावच्छिन्नाधिकरणताया: कालिकेनापिघटत्ववसत्वात् समवायेनघटत्वाधिकरणवृत्तित्वविशिष्टप्रमेयस्यैव साध्याभावत्वात् उभयस्य साध्याभावरूपत्वे तु तादृशावच्छेदकतात्वव्यापकत्त्वतादृशप्रतियोगितावत्त्वान्यतरवदधिकरणावृत्तित्वमेव व्यासिः व्यापकता च स्वनिष्ठाधरणतानिरूपित साध्याभावत्वावच्छिन्ननिरूपकतावच्छेदकसम्बन्धावच्छिन्नत्वसम्बन्धेन प्रतियोगितावत्ता · व स्वावच्छेदकसम्बन्धावच्छिन्नसाध्याभावाभावावच्छिन्नरूनिपकताकाधिकरणतावत्स्वसम्बन्धेन तथाच नाव्याप्तिरिति । एतेन कालिकसम्बन्धेनप्रमेयविशिष्टभेदस्य विषयितया साध्यतायान्तज्ज्ञानत्वे प्रमेयनिष्ठावच्छेदकताघटककालिकमादायाव्याप्तिरित्यपास्तम् तादृशावच्छेदकतात्वस्य स्वरूपसम्बन्धावच्छिन्नावच्छेदकतायामपि सत्त्वेनतत्र साध्याधिकरणज्ञानस्यासत्वात् यद्वा अवच्छेदकतायां साध्याभावत्वसमनियतत्वं प्रवेश्यकालिकावच्छिन्नावच्छेदकताया अतादृशत्वान्नाव्याप्तिरिति कालिकेनप्रमेयविशिष्टघटभेदे साध्यकस्थलाव्यातिश्च साध्याभावत्वस्य घटत्वमात्रस्वीकाराद्वारणीया । अथ सर्वत्रैव साध्याभाववद्भेदमादाय लक्षणस्यसम्भवात्साध्यनिरूपितप्रतियोगितावच्छेदकताघटक सम्बन्धमात्रमुपादेयं व्यर्थमन्यतरोपादानमिति चेन्न कपिसंयोग्येतत्त्वादित्यादित्यत्र शुद्ध स्वरूपेणककपिसंयो कपिसंयोगाभाववद्भेदस्यालीकत्वानिरवच्छिन्नस्वरूपेण गाभाववद्भेदस्य मूलावच्छेदेनापि सत्तया कपिसंयोगास्वरूपत्वादव्याप्तेस्सर्वथैवदुरुद्धरत्वादिति यद्यप्यतिरिक्तं कपिसंयोगिभेदाभावे कपिसंयोगिभेदनिरूपितप्रतियोगितावच्छेदकत्वन्नास्तीतिभवतिमति स्तथाप्यतिरिक्तकापसंयोगिभेदाभाववद्भेदस्य साध्यीभूतकपिसंयोगि. भेदरूपतयातन्निरूपित प्रतियोगितावच्छेदकत्वस्य साध्याभावे सम्भवेन कपिसयोगिभिन्नं गुणत्त्वादित्यादौ नाव्याप्तिसम्भवः ॥ नन्वत्र वि षयितयावह्नेस्साध्यतायान्तज्ज्ञानत्वेऽव्याप्तिः विषापत्वसम्बन्धावच्छिन्नवत्यभावाभावत्वावच्छिन्नाधिकरणत्वस्य विषयितया वह्निशानेऽसम्भवात्तज्ज्ञानस्यतादृशाभावत्वेन बह्नघनवगाहित्वात्स्वरूपेण तस्य सत्त्वस्वाच्यमिति न तश्य वह्निरूपत्वमिति साध्याभाववृत्तिसा Page #36 -------------------------------------------------------------------------- ________________ ३० व्याप्तिपञ्चकवितिः। ध्यसामान्यीयप्रतियोगित्वाप्रसिद्धरितिचेन्न विषयितयाव्याप्यव्यापकभावानम्युपगमएवैतल्लक्षणप्रणयनमित्यभ्युपगमात् । प्रतियोगितायां साध्यसाध्यसमानियतान्यतरनिरूपितत्वस्य वा विवक्षितत्वात्सा. ध्यसामनयत्यं स्वरूपेणेति साध्यसमनियतातिरिक्ताभावनिरूपित त्वस्य सत्त्वान्नको पिदोषः पदमादधाति ।। अत्रेदमवधेयम् । साध्याभावत्वावच्छिन्न साध्याभावत्वसमनि. यतम्वा यत्प्रतियोगित्वं साध्यसामान्यनिरूपितं तद्विशिष्टसाध्याभावत्वावच्छिन्ननिरूपकताविवक्षणीया वैशिष्टश्चस्वावच्छेदकसम्बन्धावाच्छन्नत्व स्वसामानाधिकरण्योभयसम्बन्धेन एवञ्च घटभेदाभावस्य घटस्वरूपस्य तादात्म्येन घटत्वे घटरूपस्प समवायन कपाले सत्त्वेऽपि तत्तत्सम्बन्धावच्छिन्नततनिष्ठनिरूपकतायास्ताहश्यासमवायावच्छन्नघटत्वनिष्ठप्रतियोगितयातादात्म्यावच्छिन्नघटनि प्रतियोगितया वा विशिष्टत्वाद्घभिनङ्कपालत्वाद्घटत्ववाद्धे. त्यादी नाव्याप्तिः तथासत्यत्यन्ताभावत्वनिरूपितत्वस्यापि प्रयोज. नविरहेणानिवेशनीयतया समवायेनघटभेदाभावाभावस्य घटभेदा. स्वरूपत्वेऽपि घटात्मकसाध्याभावनिष्ठभेदीयप्रतियोगितामादायैव घटभेदसाध्यकस्थले लक्षणसङ्गतिः अत्रनिरूपकतायां साध्याभाव. त्वावच्छिन्नत्वप्रवेशाद्विशिष्टसत्ताभाववान्गुणत्वादित्यत्र सत्ताभावा. भावत्वावच्छिन्नानरूपकत्वमादाय नदोषः अथ महानसीयवन्ह्यभावाद्यवच्छिन्ननिरूपकतायांसाध्यनिरूपितवह्निसामान्याभावनिष्टप्रतियोगत्वसामानाधिकरण्यावरहणाव्याप्त्यसम्भवान्निरूपकतायांविवक्षितसाध्याभावत्वावच्छिन्नत्वनप्रवशनीयमिति चेन्निरूपकभेदेन निरुपकतायास्तादृशनिरुपकतानिरुपितत्वनचाधिकरणताया भिन्नत्वेन प्रवेशशनीयम् । प्रतियोगितायान्तत्प्रवेशादेव प्रयोजनस्य वृत्तत्वात् निरूपकतायानिरूपकभेदेन भेदाभावे तु वह्निसामान्याभावलाधारणवह्निनिष्ठप्रतियोगिताकाभावत्वावच्छिन्नवह्नित्वनिष्ठावच्छेदकताकप्रतियोगिताकाभावत्वावच्छिन्ननिरूपकत्वादिकमादायाव्याप्तिवारणाय सा. ध्यतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपवृत्तित्व. निष्ठावच्छेदकतानिरूपित प्रतियोगित्वनिष्ठावच्छेदकतानिरूपितनिरूपकत्वं प्रवेशनीयमेव । यदि●वं सति घटभेदाभावत्वावच्छिन्नतादात्म्याचवच्छिन्नघट. Page #37 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । ३१ घटत्वसाधारणैकनिरूपकतामादाय घदभिघडत्वत्वादित्यादावव्यातितादवस्थ्यमितिवाच्यं घटेघटत्व रूपत्वाद्धरत्वेच घटत्वत्वरूपत्वादूर्घट मेदाभावत्वरूपानुयोगिताया उभयत्रैक्यस्वक्कृित्याभावत्वव्याप्यानुयोगितावच्छिन्नत्वं प्रतियोगितायांनिरूपकतायाञ्च निवेशनीयम् उभयावृत्तिधर्म्मावच्छिन्नत्यस्वावाच्यमेवश्च वह्निमान्धूमादित्यादौ पूर्वोक्तयुक्त्यादोषाभावेन उक्तरूरीत्यानिरूपकत्वप्रवेशो न कार्यः किन्त्वनुयोगिताविशेषावच्छिन्ननिरूपकतायामिवशिष्टसताभाववान् गुणत्वादित्यन्नाव्याप्तिवारणाय साध्यनिष्ठप्रतियोगिता निरूपकत्वावच्छिन्नत्वं प्रवेशनीयमिति विभाव्यते तदाऽनुयोगित्वविशेषावच्छि नत्वप्रवेशार्थमेवतादृशनिरूपकतोक्तिरिति सामानाधिकरण्यानुयोगित्वविशेषावच्छिन्नत्वेऽप्रवेश्य स्वावच्छेदकावच्छिन्नत्वस्य प्रवे. शेकते न वैयर्थ्यशङ्कापीति द्रष्टव्यम् ॥ प्रमेयसाध्यकज्ञानत्वादिहेतुक. साध्य सामान्योयत्वाप्रवेशे हेतुतावच्छेदकसम्वन्धावच्छिन्नवृ. तित्वीय स्वरूपसम्वन्धावच्छिन्नप्रतियोगिताकाभावनिवेशस्य क्ष्यमाणस्यानुसन्धाने समवायेन स्थले कालिकसम्बन्धावच्छिन्नसाध्याभावाभावस्यापि साध्यरूपतया तत्प्रतियोगितावच्छेदककालिकमादायाप्यव्याप्तिः वक्ष्यमाणस्थाननुसन्धाने तु समवायेन प्रमेयसाध्यकद्रव्यत्वप्रकारकप्रमाविशेष्यत्वादेिहेतावव्याप्तिव्यध्या अथसाध्यसामान्यीयत्वश्च स्वानि. व रूपकयावत्साध्यकत्वस्वानिरूपकयत्किञ्चित्साध्यकभिन्नत्वन्तदपेक्षया साध्ये साध्यतावच्छेदकसम्बन्धेनवृत्तित्वस्य लघुतया तदेव विवक्षणीयं कालिकसम्बन्धावच्छिन्न साध्याभावाभावस्यातिरिक्तस्य स. मवायेनावृत्तित्वादितिचेन कालिकेन प्रमेयस्य साध्यतायां जन्यत्वादिहेतावव्यात्पापत्तेः कालिकसम्बन्धावच्छिन्नसाध्याभावस्यापि कालिकेत वृत्तित्वादित्यलम्पल्लवितेन ॥ ० ॥ ननुसाध्याभावाधिकरणनिरूपिताभावएव व्याप्तिरस्तु किंवृत्तितुरत्व प्रवेशेनेति चेन्न वह्नन्यभावाधिकरणधूमावच्छिन्नप्रतियोगिता. निरूपितावच्छेदकत्वस्य धूमे सत्त्वेनाव्यात्यापत्तेः नचहेतुतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वीय स्वरूपसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वेन नाव्याप्तिसम्भव इति वाच्यम् तत्सम्बन्धावच्छिन्ना Page #38 -------------------------------------------------------------------------- ________________ पाप्तिपश्चकविकृतिः। धेयतत्संसर्गीयप्रतियोगितयोगिरेकतयासाध्याभावाधिकरणसंयोगप्रतियोगित्वमादायऽव्याप्त्यापत्तेः । वृत्तितात्वानच्छिन्नप्रतियोगिकस्वरूपसम्बन्धावच्छिन्नप्रतियोगितानिवेशेसाध्याभावावधिकरणनिरूपितत्वावच्छिन्नस्यतत्सम्बन्धस्यब्यधिकरणत्वेनतत्सम्बन्धावच्छिन्न तदभाषस्यकेवलान्वायत्वेनज्यभिचारिमानेऽतिव्यात्प्यापत्तेः वृत्तिता त्वोपादामे तु साध्याभावाधिकरणतावच्छेदकधर्माबाच्छि. अनिरूप्यतानिरूपित निरूपकतावद्धृत्तितात्वावच्छिन्नाभावस्यनिवेशेन दोषाभावादिति अथैवमपि साध्याभावाधिकरणधूमाधिकरणतानिरूपितवृत्तित्वस्यैवहेतौसत्त्वेनाव्याप्तिः नचाधिकरणताभिन्नत्वमधिकरणविशेषणमधिकरणताभिन्नं धूमादित्यत्राव्याप्तेः नापि हेत्वधिकरणताभिन्नत्वंधूमाधिकरणताभिन्नंधूमादित्यत्रदोषातू नापि साध्या. भावाधिकरणनिष्ठाधिकरणतानिरूपितवृत्तित्वस्य लक्षणघटकतासम्भवः । उक्तदोषवारणेऽपि घटभिन्नमधिकरणतात्वादिस्यत्र घटनिष्ठाधिकरणत्वस्याधिकरणतात्वाधिकरणत्वेनाधिकरणतानिरूपितवृत्ति. त्वस्यैव हेतोसत्त्वेनाव्याप्त्यापत्तेः यद्यप्युक्ताधिकरणताविशिष्ट्रवृत्तित्वस्य लक्षणघटकत्वे नोक्तदोषः वैशिष्ट यश्च स्वनिरूपितत्वस्वा श्रयनिरूपितत्वोभयसम्बन्धेन तथाप्यवच्छेदकताभित्रमधिकरणता. त्वादित्यत्राधिकरणतात्वनिष्ठवृत्तितायास्सावच्छिन्नत्वेनावच्छेदकतात्मकसाध्याभावाधिकरणनिरूपितत्वस्य तनिष्ठाधिकरणतया अ. धिकरणतात्वाधिकरणत्वेन तनिरूपितत्वस्य च सत्त्वेनाव्याप्त्यापत्तिरुद्धरेति उक्ताधिकरणतावैशिष्टयं स्वनिरूपितत्वस्वनिष्ठाधिकर. णत्वानिरूपितत्वोभयसम्बन्धेन वाच्यम् एवञ्च नप्रागुक्तदोषाणामवकाशः अधिकरणतात्वानष्ठ वृत्तिताया मधिकरणतानिष्ठाधिकरणतानिष्ठाधिकरणतानिरूपितानिरूपितत्वस्य सत्त्वातू । नचैवमप्यवच्छेदकताभित्रंवाच्यत्वादित्यादित्यादावतिव्याप्तिः।वाच्यत्वस्यकेवलान्य यित्वेनाधिकरणतानिष्ठाधिकरणत्वेऽपिसत्वेनतम्निष्ठवृत्तितायोस्वनिष्ठाधिकरणत्वानिरूपितत्वविरहादितिवाच्यं वृत्तितायानिरूपकभेदेनभिनतया साध्याभावाधिकरणावच्छेदकतानिरूपितवृत्तितायां बा. च्यत्वनिष्ठायामवच्छेदकतानिष्टाधिकरणतानिष्ठाधिकरणतानिरुपित. त्वस्य सत्त्वात् यद्वा साध्याभावाधिकरणतावच्छेदकधर्मचिशिष्टत्वं वृत्तित्वे विवक्षणीयम् वैशिष्ट्यञ्च स्वावच्छिन्ननिरुपकतानिरुपितनिरू Page #39 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चफविवृतिः। प्यत्वावच्छेद्यस्वावच्छिन्नाधिकरणतारवावच्छिमनिरूपकतानिरूपित. निरूप्यतावत्वसम्वन्धेन तथाचावच्छेदकत्वस्य अधिकरणतात्वानधि. करणत्वेनावच्छेदकतावावच्छिन्नाधिकरणतात्वावच्छेद्यनिरूपकतानि. रूपितनिरूप्यताया अवच्छदकतात्वावच्छिन्ननिरूपकतानिरूपितनिरू. प्यत्वानवच्छेद्यत्वात् । यतु साध्याभावाधिकरणवृत्तिवृत्तित्वाभावोव्याप्तिः वृत्तिता च स्वविशिष्टनिरूपकताकाधिकरणतावत्वसम्वन्धेन वैशिष्टधश्च स्वाव. च्छेदकसम्वन्धावच्छिन्नत्व स्वावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन तथा च न प्रागुक्तदोषाणामवकाशइति तन्न चारु साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकत्वाभावस्यैव लक्षणत्वसम्भवे तत्परित्यागस्यानौचित्यात् । एवं सत्युक्ताधिकरणताविशिष्टाभावस्यैव व्याप्तित्वमस्तु पुनर्वृत्तितात्वेनतत्प्रवेशो व्यर्थ एवेति चेदत्रोच्यते साक्षानिरूपितत्वस्य दुर्निवेशतया साक्षाम्परम्परालाधारणन्तद्वाच्यं तथाच साध्याभावाधिकरणनिष्ठधूमावच्छिन्ननिरूपकताकाधिकरण. तानिरूपितधूमत्वावच्छिन्नावच्छेदकत्वस्यावच्छेदकत्वाधयेत्वयोरवच्छेदकाधेयरूपत्वेनैक्यतया धूमत्वावच्छिन्नवृत्तितारूपस्य हेतौ सत्त्वेनाव्याप्त्यापत्या स्वनिष्ठनिरूपकतानिरूपिताधयेतात्वावाच्छन्ननिरूप्यत्वस्य संसर्गताया वाच्यतया तल्लाभार्थमेषाधेयतात्वेन प्रवेश इति यदि च साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकत्वाभाव उक्तलक्षणस्य पर्यवसानं तदा न वैयर्थ्यशापि निरूपकतात्वे. नाप्रवेशे घटभिन्नमधिकरणतावादित्यत्र घटनिष्ठाधिकरणतानिरूपि. तवृत्तित्वस्याधिकरणतात्वे सत्त्वेनाव्यप्त्यापत्तरितिदिक् ॥ अथ साध्याभावाधिकरणनिरूपितवृत्तितावावच्छिन्नप्रतियोगितानिरूपकवत्त्वमेवास्तु लक्षणमभावत्वेन प्रवेशो व्यर्थ इति चेत्र घट. वृत्तिताभिन्नं वृत्तितास्वादित्यत्राव्याप्त्यापत्तेः उक्तप्रतियोगिताकावच्छेदकत्वस्य वृत्तितात्वे सत्वात् । नचावच्छेदकत्वस्याप्यवच्छेदकत्वा. भावाभावत्वेनाभावतयाऽतिव्याप्तितादवस्थ्यमिति वाच्यम अभाव. त्वस्यभावभेदरूपतयाऽवच्छेदकत्वे तद्विरहात् तादृशप्रतियोगितात्वावच्छिन्ननिरूप्यतानिरूपिताभावत्वावच्छिन्ननिरूपकतावतएवव्याप्तिस्वाहा एवश्वप्रतियोगित्वाभावाभावस्यप्रतियोगितारूपतया तन्निरूपितप्र तियोगित्वस्योक्तप्रतियोगित्वाभावे सत्त्वेऽपि वहिमान्वयभाषाधिकर. Page #40 -------------------------------------------------------------------------- ________________ ३४ ' व्याप्तिपश्चकवितिः । "णनिरूपितवृत्तितात्वावच्छिन्नप्रतियोगिस्वाभावादित्यत्र नातिव्याप्तिः । केचिदुक्तस्थलेऽभावत्वेनाप्रवेशेऽपि प्रतियोगितानिरूपकत्वेनप्र. खेशादेव नातिव्याप्तिः प्रतियोगित्वस्याभावनिरूपकत्वाभावादित्यपि वदन्तीति वृत्तित्वाभावस्य व्याप्तिन्वञ्च स्वरूपेण बोध्यं तेन क्रियात्मक हेतौ व्यभिचारिणि नातिप्रसङ्ग इति ।। ननु सत्तावान् जातेरित्यत्र सत्ताभाववत्समवेतत्वाप्रसिया द्रव्यं विशिष्टसस्त्रादित्यत्र विशिष्ट सत्त्वे सत्तानतिरेकेण द्रव्यत्वाभाववत्तिस्वस्य सत्वेन चाव्याप्त्यपत्तिरिति चेन्न प्रकृत हेतुतावच्छेदकावच्छिन्ननिरूपकताकाधिकरणत्वीयहेतुतावच्छेदकसम्वन्धावच्छिन्नवृत्तिताप्र. तियोगिकस्वरूपेण वृत्तित्वाभावस्य विवक्षितत्वात् सत्ताभावाधिकर. णनिरूपितस्वरूपसम्वन्धावच्छिन्नवृत्तित्वस्थ प्रसिद्धः विशिष्टसत्ता. त्वावच्छिन्नाधिकरणत्वीयवृत्तिताप्रतियोगिकस्वरूपेण सत्तात्वावच्छिनवृत्तित्वस्यासत्वाच्च दोषाभावात् हेतुतावच्छेदकसम्वन्धावच्छिन्नत्वञ्च यदि हेतुतानिरूपितसंसर्गतावच्छेदकावच्छिन्नसंसर्गतानिरूपितत्वं तदा धूमसाध्यके महानसीयसंयोगन वह्नौ संयोगसम्वन्धावच्छिन्नवृत्तित्वस्य साध्याभाववनिरूपितस्योक्तसम्वन्धेन हेतौ सत्त्वे. नाव्याप्त्यापत्तेः नचोतवृत्तित्वाभावान्तर्गतमहानसीयसंयोगसम्बन्ध वच्छिन्नवृत्तित्वघटिताभावस्य हेतो सत्त्वेन नाव्याप्तिरितिवाच्यम् धूमधानवरित्यत्रत्तद्वहीयसंयोगसम्बन्धावच्छिन्नवृत्तित्वीयस्वरूपेणोतवृत्तित्वाभावस्य वह्नौ सत्त्वेनातिव्याप्त्या हेतुतानिरूपितसंसर्गताव: च्छेदकतासमानाधिकरणाधयेत्वसम्वन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितसंसर्गत्वनिष्ठावच्छेदकता. निरूपिताधेयत्वनिष्ठप्रतियोगित्वसम्वन्धावच्छिन्नावच्छेदकतानिरूपि. तस्वरूपत्वनिष्ठावच्छेदकतानिरूपितसंसर्गताकप्रतियोगिताकाभाव. त्वेन निवेशस्थाशक्यतयोक्ताधेयत्वसम्बन्धावच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपितत्वादिघटितरूपेणैव संसर्गतायानिवेशनीयतयोक्ताव्याप्तितादवस्थ्यादतो हेतुतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगिताबच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वानष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितसंसर्गता. निष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितवृत्तितानिष्ठावच्छेदकताभिन्नस्वरूपत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपि तत्वेनैवसं Page #41 -------------------------------------------------------------------------- ________________ व्याप्तिपश्वकवितिः। सर्गतानिवेशीयेति न दोषः उक्तावच्छेदकताकत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वनिवेशासंयोगत्वगतैकत्वावच्छिन्नानुयोगिसाकपर्याप्तिकावच्छेदकतानिरूपितघटप्रतियोगिकत्वनिष्ठावच्छेदक. तानिरूपितसंसर्गताकवृत्तित्वीयस्वरूपसम्वन्धमादाय धूमवान् वढेरित्यत्र नातिव्याप्तिः यद्वा हेतुतानिरूपितसंसर्गतावच्छेदक. तासमानाधिकरणाधेयत्वसम्वन्धावच्छिन्नावच्छेदकताभित्रावच्छेदक. स्वानिरूपितावच्छेदकत्वनिष्ठावच्छेदकत्वादिघटितरूपेण संसर्गत्वप्रवेशे न कोऽपि दोषः महानसीयसंयोगेन सद्धेतौ महानसी. यत्वनिष्ठावच्छेदकत्वसंयोगत्वनिष्ठावच्छेदकत्वयोर्द्वयोरेव हेतुतानिरू. पितसंसर्गतावच्छेदकत्वसमानाधिकरणत्वेनोक्तावच्छेदकत्वसमानाधिकरणावच्छेदकत्वादस्योभयत्र विरहेण महनासीयत्वनिष्ठावच्छेदकतानिरूपितसंयोगत्वनिष्ठावच्छेदकतानिरूपितसंसर्गताकवृत्ति. त्वीयस्वरूपन्वावच्छिन्नसंसर्गताया अपि ताशत्वेन तन्निरूपकप्रतियोगिताकाभावस्य हेतो सत्त्वाल्लक्षणसमन्वयः घटीयत्वनिष्ठावच्छेदकताया उक्तावच्छेदकतासमानाधिकरणत्वविरहेण तनिष्ठावच्छेदकताकसंसर्गतामादाय न दोष इति ॥ ___अत्र प्रथमउक्तरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकता. निष्ठावच्छेदकतात्वावच्छिन्नसामान्यभेदए व निवेशनीयः अन्यथैकावच्छेदकताभेदस्यापरावच्छेदकतायां सत्त्वनावच्छेदकताद्वयनिरूपि. तसंसर्गताघटितसंसर्गताया लक्षणाघटकत्वेन महानसीयसंयोगेन स. खेतावव्याप्त्यापत्तेः। अतएव द्वितीयेऽपि हेतुतानिरूपितसंसर्गताक्च्छे दकतासमानाधिकरणावच्छेदकतात्वावच्छिन्नसामान्यभेदस्तादृशावच्छेदकत्वनिष्ठावच्छेदकतासामान्यभेदश्च निवेश्यस्तदपेक्षयालाघवेन हेतुतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्नपर्याप्त्यनुयोगितावच्छे दकत्वसमानाधिकरणाधेयत्वसम्बन्धावच्छिन्नावच्छेदकताभिन्नाधेयस. म्वन्धावच्छिन्नावच्छेदकतात्वनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितप्रतियोगिताकभेदत्वेनतद्यक्तिनिष्ठाबच्छेदकताभेदनिवेश्य तद्यक्रिनिष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितसंसर्गतानिष्ठायच्छेदकत्वादिघटितरूपेण संसर्गता निवेश्या आधेयताच स्वावच्छेदकता. प्रतियोगिकपर्याप्त्यनुयोगितावच्छेदकत्वसम्वन्धावच्छिन्नवेतरवारका प्रवेशे प्रयोजनविरहात् उक्तपरम्परायाः संसर्गत्वाभावतूक्तरीत्यानिव-, Page #42 -------------------------------------------------------------------------- ________________ . व्याप्तिपशकविकृतिः। शस्याशक्यतया गुरुभूतोऽपि द्वितीयकल्प आदरणीयः एवमेव हेतुतावच्छेदकावच्छिन्नत्वमपि परिष्कृतम्बोध्यम् निरूपकतावच्छेदकताया इतरवारकंपर्याप्तिनिवेशे प्रयोजनाभावादिति ॥ यदिच वह्निज्ञानत्वसाध्यके प्रकारितया वहिहेतुकस्थले वह्नित्वग. सैकत्वावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकनिरूपकात्वस्य महानसीयत्ववलित्वगतद्वित्ववृत्तिनिरूपकताया मपि सत्त्वेन तनिरूपिता. धिकरणताकवृत्तित्वीयस्वरूपेण साध्याभावाधिकरणनिरूपितमहानसीयवह्नित्वाद्यवच्छिन्नवृत्तित्वस्य वह्निमात्रेसत्त्वादव्य तिबिधार्यतया हेतुहेतुमद्भावनच प्रकारितया महानसीयवह्निविषयकक्षाने कुतो न वहेस्सत्त्वं वह्नित्वेतरधर्मानवच्छिन्ननिरूपितप्रकारितया हेतुत्वेन तेन सम्वन्धेन महानसीयवस्सस्वमिति कुतो वा व्याप्तिरितिवाच्यं संसर्गता हि यद्यपि प्रकारितात्वेनैव तथापि वह्नित्वविशिष्टसंसो वह्नित्वेतरधर्माविच्छिन्नानिरूपितप्रकारितैव महानसीयवह्निविषयकज्ञानं प्रका. रितयावह्रिमदित्यप्रत्ययात् महामनीयवह्निमदितिज्ञानानन्तरंवाह्नञ्जा। नामीत्यनुव्यवसायाभावाश्चेति,विभाव्यते तदा हेतुताक्च्छेदकतात्वाव. च्छिन्नपर्याप्त्यनुयोगितावच्छेदकरूपेस्वावच्छेदकतात्वावच्छिन्नपा. प्स्यनुयोगितावच्छेदकत्वसम्वन्धेन वृत्तित्वमेवनिरूपकतायामुपादेयम्। ___ अथोक्तरूपवृतिनिरूपकतानिरूपितत्वेनैवाधिकरणतोपादेया अधिकरणतात्वेनतत्प्रवेशो व्यर्थ इति चेत्तस्य स्वनिरूपितत्वस्वनिष्ठाधिकरणतानिरूपितत्वोभयसम्वन्धनाधिकरणताविशिष्टवृत्तित्वलाभार्थत्वान वैयर्थ्यभिति गृहाण नचोक्तविशिष्टवृत्तित्वोपादाने प्रयोजना. भावः वह्निमान् पर्वतवृत्तित्वविशिष्टवाच्यत्वादित्यत्र साध्याभावाधिक. रणस्वरूपत्वावच्छिन्नसंसर्गतानिरूपितत्वावच्छिन्नवृत्तिताया उक्तनिरूपकतामिरूपितंसंसर्गतानिरूपितवाच्यत्वत्वावच्छिन्नदात्तत्वीयस्वरूपेण हेतौ सस्वाव्याप्तेर्वारकस्यैव प्रयोजनत्वात् नच स्वनिष्ठाधेिकरणत्वानिरूपितत्वन्ननिवेश्यमितिवाव्यम् साध्याभायाधिकरणोक्ताधिकरणतात्मकाधिकरणनिरूपितवाच्यत्वत्वावच्छिन्नवृत्तितामादायान्याप्तितादवस्थ्यादिति ।। यतु वृत्तितात्वेनवृत्तित्वन्नोपादेयं प्रयोजनाभावादिति तम्न द्रव्य. त्यसाध्यके समवायेन प्रमेयविशिष्टस्य समवायन हेतुतायां सखेती हेतुतावच्छेदकावच्छिन्ननिरूपकतानिरूपिताधिकरणताविशिष्टप्रमेयत्वा. Page #43 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । वच्छिन्नावच्छेदकतायाः स्वावच्छेदकप्रमेयत्वरूपयोः प्रमेयत्वात्मकप्रमेयत्वावच्छिन्नवृत्तितात्मकत्वेन तत्प्रतियोगिक स्वरूपेण साध्याभावाधिकरणनिरूपितप्रमेयत्वावच्छिन्न समवायसम्बन्धावच्छिन्नवृत्तित्वस्यैव सत्त्वादवव्याप्त्यापत्तेः वृत्तितात्वेन तत्प्रवेशे तु स्वनिष्ठनिरूपकता. निरूपितवृत्तितात्वावच्छिन्ननिरूप्यत्वस्य संसर्गतालाभेन प्रमेयाव च्छिन्नवृचितायामेवाधिकरणताविशिष्टत्वसत्त्वेन नाव्याप्तिसम्भव इति यद्यप्यत्रहेतुतावच्छेदकसम्बन्धावच्छिन्न हेतुतावच्छेदकावच्छिन्ननि रूपकत्वीय स्वरूपेण साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनि रूपकत्वाभावस्य लघुतरस्य व्याप्तित्वं सम्भवति तथापियथाश्रुतमुलानुरोधात्तदुपेक्षितम् ॥ ३७ ननु कालिकसम्वन्धावच्छिन्नधूमत्वनिष्ठावच्छेदकताकवृत्तित्वीयस्वरूपेण वह्यभावाधिकरणनिरूपितवृत्तित्वस्य धूमे सत्त्वादव्याप्तिः हेतुतावच्छेदकताघटकसम्वन्धावच्छिन्नावच्छेदकताविवक्षयोक्तदोष. वारणेऽपि महानसीयवह्निसाध्यके समवायेन महानसीयत्वविशिष्टत्वेलाते कालिकेन धूमत्वविशिष्टहेतु केऽव्याध्यापत्तिःकालिकसम्वन्धावच्छिश्न महासीयत्वनिष्ठावच्छेदकतानिरूपितसमवाय सम्वन्धावच्छिन्नधूमत्वनिष्ठावच्छेदकताकवृत्तिताया हेतौ सत्वादिति चेन वृत्तिताया आश्रयभेदेन भिन्नतया धूमस्य कालिकेन धूमत्वाश्रयत्वेऽपि संयोगेन धूमस्य इदावृत्तित्वानपायात् एतदभिप्रायेणैव विशिष्टसत्वस्य स्वावच्छिन्नाधिकरणत्वेनैव द्रव्यत्वव्याप्यत्वं स्वीकृत्य हेतुतावच्छेदकावच्छिन्नाधिकरणत्वप्रवेशन स्विफलमाकलय्य हेतुतावच्छेदका - घटितस्य व्याप्तिरूपत्वस्वीकारो ग्रन्थान्तरे पर्यालोचनीयः अन्यथा हेतुतावच्छेदकाप्रवेशे प्रमेयत्वाद्यवच्छिन्नवृत्तितामादायासम्भवापत्तेरिति वृत्तिताया एकधर्मावच्छिन्नाया यावत्स्वावच्छेदकाश्रयेष्वेकत्वे तु हेतुतावच्छेकताविशिष्टावच्छेदकता निरूपितत्वादिरूपं हेतुतावच्छेदकावच्छिन्नत्वम्वाच्यं । वैशिष्टयश्च स्वावच्छेदकसम्वन्धाच्न स्वसामानाधिकरण्योभयसम्वन्धेन अधिकन्तु साध्यतावच्छेदकावच्छिन्नुत्वविचारवदनुसन्धेयमित्यलम् ॥ अथधूमवानवहेरित्यत्रातिव्याप्तिः । निरुक्तवृत्तित्वाभावस्य पर्व्वतीयवहृयादौ सत्त्वादिति चेन्न अनुपदोक्तवृत्तितैक्यपक्षे दोषस्यासम्भवात्पक्षान्तरे तत्रोक्ताभावस्य सवेऽपि तस्य लक्ष्यत्वमेवेत्यन्ये वह्निवे Page #44 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविकृतिः। नालक्ष्यत्वेऽपि हेतुतावच्छेदकावच्छेद्यत्वविशिष्टोक्तवृत्तित्वाभावस्यैव. व्याप्तित्वस्वीकारावदोष इत्यपरे यथोक्तविवक्षायां गौरवेऽपि तादृश. वृत्तितानवच्छेदकप्रकृतहेतुतावच्छेदकस्य व्याप्तित्वावलम्बने नातिव्याप्तिरिति केचित् साध्याभावाधिकरणावृत्तिहेतुतावच्छेदकसम्व. न्धावच्छिस्वावच्छिन्नाधिकरणताकधर्मवत्वम्विवक्षणीयमेवञ्च सत्ता. वाआतेरित्यादावपि नाव्याप्तिरितिग्रन्थान्तर इति ॥ दीधितावव्याप्यवृत्तिसाध्यकसद्धतावव्याप्तिमाशयति अत्र निरवच्छिन्नसाध्याभाचाधिकरणत्वविवक्षणेऽव्याप्यवृत्तिलाध्यकस्थलेऽव्याप्त्यभावादाशङ्केति नच कपिसंयोगाभाववान्गुणत्वादित्यत्राच्याप्तिःनिरवच्छिन्नाधिकरणत्वस्यसाध्याभावनिरूपितस्याप्रसिद्धेरितिवाच्यं तस्य केवला. न्वयिसाध्यकत्वेन तनाव्याप्तेरिष्टत्वात् कपिसंयोगवद्भेदस्याव्याष्यवृत्ति त्वे केवलान्वयित्वमेव व्याप्यवृत्तित्वे तदभावस्य कपिसंयोगरूपत्वाभावेन तन्निरूपितनिरवच्छिन्नाधिकरणत्वस्य सम्भवेन कपिसंयोगवद्भेद. साध्यकेऽपि नाव्याप्तिसम्भवः नचैवमपि कालिकसम्वन्धावच्छिन्नात्मस्वप्रकारकप्रमाविशेष्यत्वाभावस्य स्वरूपेण साध्यतायामात्मत्वहेतो साध्याभावस्य कालिकेन निरवच्छिन्नाधिकरणत्वाप्रसिद्धिरिति वाच्यं सावच्छिन्नत्वहेतुमनिष्ठत्वोभयाभाववस्वस्याधिकरणातायाम्विवक्षि. तत्वात् यद्वा सावच्छिन्ननरिवच्छिन्नकेवलान्वयितावच्छदकानवच्छिन्नवृत्तितानिरूपितसंसर्गतावच्छेदकानवच्छिन्नसंसर्गताकनिरूप. कताकाधिकरणताभिन्नत्वोभयाभाववत्वाम्ववक्षणीयं कालिकसम्वन्धावच्छिन्नवृत्तितामात्रस्य सावच्छिन्नत्वात् कालिकसम्यन्धावच्छिन्नप्रमेयत्वावच्छिन्नवृत्तिताया निरवच्छिन्नत्वानुभवात् केवला. म्वयितावच्छेदकानवच्छिन्नेत्युक्तम् अत एव टीकान्तरे प्रागुक्तोभयाभावस्य कपिसंयोगवद्भेदाभावत्वावच्छिन्नाधिकरणतायां सत्त्वेन निरवच्छिन्नाधिकरणत्वाप्रसिद्धिनिवन्धनाव्याप्तिशङ्कासङ्गतिरपिनि. रस्ततिदिक् ॥ ० ॥ ___ उद्देश्यतावच्छेदकावच्छेदेन विधेयान्मयस्याभ्यर्हितत्त्वेन तस्यैव विवक्षितत्वमालोक्याह नचकपिसंयोगाभाववानित्यादि आदिपदा. हुणवान् जलीयपरमाणुरूपाद्धटत्वतद्विरूद्धसंयोगान्यतरवान् घटीयरूपदित्यादिपरिग्रहः तेन सद्धेतापित्यत्र सत्पदस्य सत्तावदर्थकत्वेऽपि व्याप्यवृत्तिसाध्यकत्यस्याव्याप्यवृत्तिभावसाध्यकार्थकत्वेपि च Page #45 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । न क्षतिः ननुकार्थका व्याप्यवृत्तिसाध्यक सद्धेतुत्वावच्छेदेनोक्तलक्षणा• सत्यमाशङ्कयोत्तरलक्षणावतारे तल्लक्षणस्योक्तावच्छेदकावच्छेदेन स. त्त्वपवसंगतिः नच तत्संभवति तद्धर्म्मस्य तत्संयोगीगुणादित्यव्यदिभिचारिण्यपि सत्त्वेन तत्राग्रिमलक्षणस्याप्यसत्वात् । नच व्याप्तिपदस्य सद्धेतावेव लक्षणासत्वार्थकत्वेन तत्समभिव्याहारवशात् स्वाधिकरणवृत्यभावप्रतियोगितावच्छेदकप्रकृतसाध्यतावच्छेदकावच्छि असाध्यकसद्धेतुत्वावच्छेदेनैव लक्षणा सत्वार्थकत्वस्योक्तवाक्ये स्वीक रणीयतया नासङ्गतिरिति वाच्यं कपिसंयोगाभाववान् गुणादित्यादिस्थलीय देतावप्युक्तसद्धेतुत्वस्य सत्त्वेन तत्राप्रिमलक्षणस्यासत्त्वादसङ्गतेस्तदवस्थानादितिचेन्न द्वितयिलक्षणस्य तादृशसद्धेतुत्वावच्छेदेन विरहस्या सत्वेन तादृशनियमभङ्गरुपाभ्यर्हितत्वमङ्गीकृत्य लक्षणान्तरावातारणपत्र तात्यर्य स्वीकारेऽसंगतिविरहात् । अव्याप्यवृ त्तिसाध्यक सद्धेतुपदेन भेदप्रतियोगितावच्छेदका तावच्छेदकतादृशसाध्यतावच्छेदकावच्छिन्नसाध्य कस द्धे तोव्विवक्षितत्वात् । स्वप्रतियो. ग्यनधिकरणत्रृत्यभावप्रतियोग्यव्याप्यवृति साध्यकसद्धेत्वर्थकत्वस्योक्तपदस्यवा विवक्षितत्वात् यद्वा निरवच्छिन्नवृत्तिकभिन्नत्वमव्याप्यवृत्तित्वं तथाचाव्याप्यवृति साध्यं यस्येत्येवविग्रह आदरणीयः एवञ्च सद्धेतावित्यत्र सन्हतुरिति कर्मधारय एवेतिन कश्चिद्दोषः ॥ केचि तु स्वप्रतियोगित्वस्त्र सामानाधिकरण्यस्वसमानाधिकरणभेदप्रतियोगि तावच्छेदकत्वैत नृतयसम्वन्धेनाभावविशिष्टत्वमव्याप्यवृत्तित्वम् कपिसंयोगाभावस्य न कपिसंयेगवन्निष्ठभेदप्रतियोगितावच्छेदकत्वमिति ३९ तस्य स्वसामानाधिकरण्यस्वप्रतियागित्वयोर्निवेशादात्मत्वादेश्व न व्याप्यवृत्तित्वप्रसङ्ग इति प्राहुः ॥०' "" मूले केवलान्वयीन्यभावादिति अथ स्वावच्छिन्नाभाववद्वृत्तित्वसम्बन्धावच्छिन्नसाध्यतावच्छेदकाभाववत्त्वमेव व्याप्ति रस्तु तावतैव वाच्यं ज्ञेयत्वादित्यादिकेवलान्वयिनि नाव्याप्तिर्वाच्यत्वत्वस्योक्तसम्बन्धस्य व्यधिकरणत्वादिति चेन वृत्तिनियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे धनी चैत्रत्वादित्यादावव्याप्तेः वृत्तिनियामकसम्बन्धाघटितस्वच्छिन्नाभाववद्वृत्तित्वस्य वृत्तिनियामकत्वपि वृत्यनियामकसम्वन्धघटितस्य वृत्त्यानियामकतया वृक्षः सिंस्पाया इत्यश्राव्याप्तेश्व | Page #46 -------------------------------------------------------------------------- ________________ व्याप्तिपश्चकविवृतिः । यदित्र वृत्त्यानियामकसम्बन्धस्याभावप्रतियोगितानवच्छेदकत्वे सा ध्यतावच्छेदकावच्छिन्नसाध्यतावच्छेदकसम्बन्धावच्छिन्नसम्बन्धित्वा भाववद्धेतुतावच्छेदकसम्बन्धावच्छिन्न सम्बन्धितावच्छेदकप्रकृतहेतुतावच्छेदकस्यैव वा व्यासित्वे न दोषः अभावश्वस्वरूपसम्बन्धावचित्रअस्वाभाववश्न्निरूपित स्वरूपसम्बन्धावच्छिन्नवृत्तित्वसम्बन्धावच्छिन्न प्रतियोगिताक इति । एतेन स्ववृत्तिवाच्यत्ववत्त्वसम्बन्धेन घटादिसाध्यकस्थले sव्याप्तिः तत्सम्बन्धावच्छिन्नाभावस्याप्रसिद्धत्वादिति निरस्तम् स्वरुपसम्बन्धावच्छिन्नाभावस्य प्रसिद्धेरिति विभाव्यते तदात्र केचित्सम्बन्धिताया नानात्वे धूमवान् वह्नेरित्रातिव्याप्तिः पर्वतीयवह्नयादिसम्बन्धितायाउ कसम्बन्धित्वाभाववत्त्वेन तदवच्छेदकस्वस्य वह्नित्वे सत्वात् यद्धर्मावच्छिन्न सम्बन्धित्वत्वावच्छेदेनोक्तसम्बन्धित्वाभाववत्त्वविवक्षणे उक्तदोषवारणेप्युक्त सम्बन्धितात्वावच्छेद्यत्वस्य व्यापकतारूपत्वेन सिद्धान्तलक्षणापेक्षया लघुत्वाभावः अव्यभिचरितत्वस्य पारिभाषिकत्वापत्तेः उक्तस्य व्यभिचारज्ञानाप्रतिबध्यत्वेन व्याप्तिरूपत्वासम्भवश्चेति वदन्ति तन्न चारु स्वाभाववन्निरूपितसम्बन्धितावच्छेदकत्व सम्बन्धावच्छिन्नोक्तसम्बन्धित्वाभाववद्वैतुतावच्छेदकस्यव्याप्तित्वे क्तातिव्याप्तिसम्भवात् एवमुक्तपारिभाषिकत्वस्य नदोषत्वमन्यथा द्रव्यं विशिष्टसत्त्वादित्यादिस्थलीयाव्याप्तिवा रणायोक्तस्य लक्षणस्य पारिभाषिकार्थकत्वेनहेयत्वमापद्यत साध्याभाववद्वृत्तित्वस्यैव व्यभिचारत्वे समानप्रकारत्वादिनैव प्रतिबन्धकश्वे च सिद्धान्नव्याप्तरेपि तद्प्रतिबध्यतयाऽव्याप्तित्वप्रसङ्गः नच हेतुसमानाधिकरणाभावप्रतियोगितावच्छेदकत्वमपि व्यभिचार इति नेदोष इति वाच्यं प्रतियोगिताधम्मिको भयाभावघटितकल्पस्य सिद्धाम्तत्वेन तज्ज्ञानस्योक्तत्र्यभिचारज्ञानप्रतिवध्यत्वविरहात् यदिमणिमन्त्रादिन्यायेनोक्तव्याप्तिज्ञानस्याप्युक्तव्यभिचारज्ञानप्रतिवध्यत्वं तदाप्रकृतिव्याप्तिज्ञानस्यापितत्त्वं सुघटमेव तादृशव्याप्तिज्ञानविरोधिज्ञानवि पथव्यभिचारकल्पना व प्रकृतेपि समेति अत्रब्रूमः स्वनिष्टप्रतियोगिताकाभाववद्वृत्तित्वस्य संसर्गत्वेऽसम्भवापत्याऽवच्छिन्नप्रतियोगिताकाभाववद्वृत्तित्वस्य संसर्गत्वस्वाच्य न्तथासति गुरूभर्म्मस्य प्रतियोगितामवच्छेदकत्वे तद्रूपवानरसादित्यत्रातिव्याप्तिः तद्रूपत्वावच्छिन्नसम्बाधत्वाभावप्रतियोगितावच्छेदक ४० Page #47 -------------------------------------------------------------------------- ________________ व्याप्तिपञ्चकविवृतिः । त्वस्य लाघवेन तद्यक्तित्व एव कल्पनीयतयोक्तावच्छिन्नाभाषवदृतित्वस्य तद्रूपत्वावच्छिन्नसम्वन्धित्वव्यधिकरणत्वेन तदभावस्य हेतुतावच्छेदकावच्छिन्नसम्वन्धित्वे सत्त्वात् उक्तसम्बन्धिताव्यक्तच भावनिवेशे वह्निमान्धूमादित्यत्राव्याप्तिः उक्तसम्वन्धितात्वंयद्धर्मविशिष्ट सम्वन्धिनिष्ठाभावप्रतियोगितानवच्छेदकं तद्रूपावच्छिन्नाभाववत्त्वविवक्षणे तद्रूपावच्छिन्नसम्वन्धितात्वस्य गौरवेण रूपत्वावच्छिन्नसम्वन्धितात्वविशि ष्टसम्वन्धिनिष्ठाभावप्रतियोगितानवच्छेदकत्वेन तद्रूपावाच्छन्नाभाववत्त्वस्य हेतौ सत्त्वेनातिव्याप्तिप्रसङ्गः यद्रूपावच्छिन्नाभावकूटवत्त्ववि - वक्षा च वाह्नमान्धूमादित्यादावव्याप्त्यैवानुपादेया तद्रूपावच्छिन्नाभावकूदान्तर्गतस्य तयक्त्यभावस्य धूमे विरहात् एवं वाच्यं शेयत्वादित्यादावपि साध्यतावच्छेदकसम्बन्धावच्छिन्नसाध्यतावच्छेदकाव च्छिन्नसम्वन्धित्वाभावप्रतियोगितावच्छेदकत्वस्य सम्बन्धितात्व एव लाघवेन कल्पनीयतया तादृशसम्वन्धितात्वावच्छिन्नाभावाप्रसिद्ध्याव्याप्तिप्रसङ्गः यादगुरुधम्मस्य प्रतियोगितावच्छेदकत्वमङ्गीक्रियते त दैतस्य लक्षणान्तरत्वमेवावसेयमितिध्येयम् ॥ अथनिरूप्यानपरूकभावापन्नावेषयतात्मक साध्याभाववद्वृत्तित्यप्रकारतानिरूपितविशेष्यत्वाभावः प्रमीयविशेष्यताप्रातयागिकस्वरूप. सम्बन्धावच्छिन्नप्रतियोगिताको व्याप्तिरस्त्विति चेत्र यत्र व्यभिचारिणि साध्याभाववद्वृत्तित्वस्य न प्रमा तत्रार्तिव्याप्त्यापत्तेःनचेश्वरस्यैवप्रमासम्भवः विशकलितपदार्थावगमहत्वेनैव सर्व्वविषयकत्वोपपतो. विशिष्टविषयकत्वे मानाभावात् एवं वृत्त्यानयामकसम्बन्धस्य गुरुधर्म स्य च प्रतियोगितानवच्छेदकत्वे धीः द्रव्यत्वात्प्रमेयधूमवान्वच्हारत्यादावतिव्याप्त्यापत्तेरित्यलम् १४ Page #48 -------------------------------------------------------------------------- _