________________
व्याप्तिपश्चफविवृतिः। प्यत्वावच्छेद्यस्वावच्छिन्नाधिकरणतारवावच्छिमनिरूपकतानिरूपित. निरूप्यतावत्वसम्वन्धेन तथाचावच्छेदकत्वस्य अधिकरणतात्वानधि. करणत्वेनावच्छेदकतावावच्छिन्नाधिकरणतात्वावच्छेद्यनिरूपकतानि. रूपितनिरूप्यताया अवच्छदकतात्वावच्छिन्ननिरूपकतानिरूपितनिरू. प्यत्वानवच्छेद्यत्वात् ।
यतु साध्याभावाधिकरणवृत्तिवृत्तित्वाभावोव्याप्तिः वृत्तिता च स्वविशिष्टनिरूपकताकाधिकरणतावत्वसम्वन्धेन वैशिष्टधश्च स्वाव. च्छेदकसम्वन्धावच्छिन्नत्व स्वावच्छेदकावच्छिन्नत्वोभयसम्बन्धेन तथा च न प्रागुक्तदोषाणामवकाशइति तन्न चारु साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकत्वाभावस्यैव लक्षणत्वसम्भवे तत्परित्यागस्यानौचित्यात् । एवं सत्युक्ताधिकरणताविशिष्टाभावस्यैव व्याप्तित्वमस्तु पुनर्वृत्तितात्वेनतत्प्रवेशो व्यर्थ एवेति चेदत्रोच्यते साक्षानिरूपितत्वस्य दुर्निवेशतया साक्षाम्परम्परालाधारणन्तद्वाच्यं तथाच साध्याभावाधिकरणनिष्ठधूमावच्छिन्ननिरूपकताकाधिकरण. तानिरूपितधूमत्वावच्छिन्नावच्छेदकत्वस्यावच्छेदकत्वाधयेत्वयोरवच्छेदकाधेयरूपत्वेनैक्यतया धूमत्वावच्छिन्नवृत्तितारूपस्य हेतौ सत्त्वेनाव्याप्त्यापत्या स्वनिष्ठनिरूपकतानिरूपिताधयेतात्वावाच्छन्ननिरूप्यत्वस्य संसर्गताया वाच्यतया तल्लाभार्थमेषाधेयतात्वेन प्रवेश इति यदि च साध्याभावाधिकरणनिष्ठाधिकरणतानिरूपितनिरूपकत्वाभाव उक्तलक्षणस्य पर्यवसानं तदा न वैयर्थ्यशापि निरूपकतात्वे. नाप्रवेशे घटभिन्नमधिकरणतावादित्यत्र घटनिष्ठाधिकरणतानिरूपि. तवृत्तित्वस्याधिकरणतात्वे सत्त्वेनाव्यप्त्यापत्तरितिदिक् ॥
अथ साध्याभावाधिकरणनिरूपितवृत्तितावावच्छिन्नप्रतियोगितानिरूपकवत्त्वमेवास्तु लक्षणमभावत्वेन प्रवेशो व्यर्थ इति चेत्र घट. वृत्तिताभिन्नं वृत्तितास्वादित्यत्राव्याप्त्यापत्तेः उक्तप्रतियोगिताकावच्छेदकत्वस्य वृत्तितात्वे सत्वात् । नचावच्छेदकत्वस्याप्यवच्छेदकत्वा. भावाभावत्वेनाभावतयाऽतिव्याप्तितादवस्थ्यमिति वाच्यम अभाव. त्वस्यभावभेदरूपतयाऽवच्छेदकत्वे तद्विरहात् तादृशप्रतियोगितात्वावच्छिन्ननिरूप्यतानिरूपिताभावत्वावच्छिन्ननिरूपकतावतएवव्याप्तिस्वाहा एवश्वप्रतियोगित्वाभावाभावस्यप्रतियोगितारूपतया तन्निरूपितप्र तियोगित्वस्योक्तप्रतियोगित्वाभावे सत्त्वेऽपि वहिमान्वयभाषाधिकर.