________________
३४
' व्याप्तिपश्चकवितिः ।
"णनिरूपितवृत्तितात्वावच्छिन्नप्रतियोगिस्वाभावादित्यत्र नातिव्याप्तिः ।
केचिदुक्तस्थलेऽभावत्वेनाप्रवेशेऽपि प्रतियोगितानिरूपकत्वेनप्र. खेशादेव नातिव्याप्तिः प्रतियोगित्वस्याभावनिरूपकत्वाभावादित्यपि वदन्तीति वृत्तित्वाभावस्य व्याप्तिन्वञ्च स्वरूपेण बोध्यं तेन क्रियात्मक हेतौ व्यभिचारिणि नातिप्रसङ्ग इति ।।
ननु सत्तावान् जातेरित्यत्र सत्ताभाववत्समवेतत्वाप्रसिया द्रव्यं विशिष्टसस्त्रादित्यत्र विशिष्ट सत्त्वे सत्तानतिरेकेण द्रव्यत्वाभाववत्तिस्वस्य सत्वेन चाव्याप्त्यपत्तिरिति चेन्न प्रकृत हेतुतावच्छेदकावच्छिन्ननिरूपकताकाधिकरणत्वीयहेतुतावच्छेदकसम्वन्धावच्छिन्नवृत्तिताप्र. तियोगिकस्वरूपेण वृत्तित्वाभावस्य विवक्षितत्वात् सत्ताभावाधिकर. णनिरूपितस्वरूपसम्वन्धावच्छिन्नवृत्तित्वस्थ प्रसिद्धः विशिष्टसत्ता. त्वावच्छिन्नाधिकरणत्वीयवृत्तिताप्रतियोगिकस्वरूपेण सत्तात्वावच्छिनवृत्तित्वस्यासत्वाच्च दोषाभावात् हेतुतावच्छेदकसम्वन्धावच्छिन्नत्वञ्च यदि हेतुतानिरूपितसंसर्गतावच्छेदकावच्छिन्नसंसर्गतानिरूपितत्वं तदा धूमसाध्यके महानसीयसंयोगन वह्नौ संयोगसम्वन्धावच्छिन्नवृत्तित्वस्य साध्याभाववनिरूपितस्योक्तसम्वन्धेन हेतौ सत्त्वे. नाव्याप्त्यापत्तेः नचोतवृत्तित्वाभावान्तर्गतमहानसीयसंयोगसम्बन्ध वच्छिन्नवृत्तित्वघटिताभावस्य हेतो सत्त्वेन नाव्याप्तिरितिवाच्यम् धूमधानवरित्यत्रत्तद्वहीयसंयोगसम्बन्धावच्छिन्नवृत्तित्वीयस्वरूपेणोतवृत्तित्वाभावस्य वह्नौ सत्त्वेनातिव्याप्त्या हेतुतानिरूपितसंसर्गताव: च्छेदकतासमानाधिकरणाधयेत्वसम्वन्धावच्छिन्नावच्छेदकतानिरूपितावच्छेदकत्वनिष्ठावच्छेदकतानिरूपितसंसर्गत्वनिष्ठावच्छेदकता. निरूपिताधेयत्वनिष्ठप्रतियोगित्वसम्वन्धावच्छिन्नावच्छेदकतानिरूपि. तस्वरूपत्वनिष्ठावच्छेदकतानिरूपितसंसर्गताकप्रतियोगिताकाभाव. त्वेन निवेशस्थाशक्यतयोक्ताधेयत्वसम्बन्धावच्छिन्नावच्छेदकताभिन्नावच्छेदकत्वानिरूपितत्वादिघटितरूपेणैव संसर्गतायानिवेशनीयतयोक्ताव्याप्तितादवस्थ्यादतो हेतुतानिरूपितसंसर्गतावच्छेदकतात्वावच्छिन्न पर्याप्त्यनुयोगिताबच्छेदकरूपावच्छिन्नानुयोगिताकपर्याप्तिकावच्छेदकताकत्वानष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपितसंसर्गता. निष्ठावच्छेदकताभित्रावच्छेदकत्वानिरूपितवृत्तितानिष्ठावच्छेदकताभिन्नस्वरूपत्वनिष्ठावच्छेदकताभिन्नावच्छेदकत्वानिरूपि तत्वेनैवसं