________________
२६
व्याप्तिपश्चकवितिः। प्यत्वाभावस्य यस्स्वरूपेणाभावस्तस्यातिरिक्तस्य स्वरूपेणाभावस्य आत्मवृत्तित्वविशिष्टोक्तविशेष्यत्वाभावरूपत्वेन साध्यतया तत्प्रति. योगितावच्छेदकस्वरूपमादायात्मत्वप्रकारकप्रमाविशेष्यस्वाभावधानात्मत्वादित्यादी तयटवृत्तितद्घटासमानकालीनघटाभावस्य स्व. रूपेण साध्यतायांतद्धटत्वे शुद्धतादृशघटाभावाभावस्य तारशघ. टरूपतया कालिकेन तदभावात्मकसाध्यप्रतियोगितावच्छेदककालिकमादायाव्याप्त्यापत्तश्चेति ।
यतु प्रतियोगित्वोपादानमनर्थकमिति तन्न तादृशरूपवृत्तिसा. ध्यतावच्छेदकसम्बन्धावच्छिन्नात्मत्वप्रकारकप्रमाविशेष्यत्वाभाव. स्वावच्छिन्नवृत्तितानिरूपकस्य कालिकसम्बन्धावच्छिन्नसाध्याभा. वस्य · स्वरूपेणाभावात्मकसाध्यप्रतियोगितावच्छेदकस्वरूपमादायाव्याप्त्यापत्तेः नचैवमप्यभावत्वेन अभावप्रवेशो व्यर्थ इति वाच्यं कालिकेनावच्छेदकत्वाभावस्य कालिकेन साध्यतायां, जन्यत्वे ता. दृशप्रतियोगितानिरूपकावच्छेदकतावृत्तिसाध्यनिरूपितप्रतियोगिता वच्छेदककालिकसम्बन्धेन साध्याभाववति हेतोवृत्या ऽव्यापत्या. पत्तः, अथ कालिकेनप्रमेयाभावस्य कालिकेन साध्यतायां जन्यत्वहेतो साध्यनिरूपितप्रमपत्वावच्छिन्नप्रतियोगिताया निखिलप्रमेय. वृत्तस्साध्याभाषवृत्तितया तरच्छेदकालिकमादायाव्याप्तिरभावो. पादानेऽपि दुवारैवेति चेन्मैवम् अभावोपादानेसाध्याभावत्वसमनि. यतप्रतियोगिताकत्वस्य विवक्षितुंशक्यतयोक्तदोषवारणसम्भवाद. न्यथा तादृशप्रतियोगिताकत्वस्यावकछेदकत्वादिसाधारणतया तत्समनियतप्रतियोगित्वाप्रसिच्चाऽसम्भवापत्तेः नच प्रमेयाभावसाध्य. कम्थलीयदोषस्य व्याप्यत्वविवक्षयापि वारणसम्भवेन व्यापकत्व. निवेशे प्रयोजनाभाबादभावत्वप्रवेशो व्यर्थ इति वाच्यं । समबायस. म्बन्धावच्छिन्नप्रतियोगिताकप्रमपाभावस्य स्वरूपेण साध्यतायां जातित्वादिहेतावव्याप्त्यापत्तेः कालिकसम्बन्धावच्छिप्रतियोगिताकसा. ध्याभावस्य यः स्वरूपणाभावस्तस्यापि साध्यरूपतया तदीयप्रतियोगित्वस्य केवलान्वायनः साध्याभावत्वस्य व्याप्यतया च तदवच्छेद कस्वरूपेण साध्याभावाधिकरणे हेतो वृत्तः यद्वा सामान्यीयप्रतियो. गिताय साध्याभावत्वावच्छिन्नत्वमुपादेयन्तथाच कालिकन प्रमेयाभावलाध्यकस्थले न दोषः कालिकसम्बन्धःवच्छिन्नप्रतियोगितायाः