________________
व्याप्तिपञ्चकविवृति।
साध्याभावत्वानवच्छिन्नत्वात् नच साध्यतावच्छेदकावच्छिन्न साध्य. तावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिकत्वावच्छिन्नत्वमेवोच्यतामलमभावत्वप्रवेशेनेतिवाच्यं तादृशप्रतियोगितात्वावच्छिन्ननिरूप्यतानिरूपितनिरूपकतावत्संसर्गतालाभार्थत्वात् तदप्रवेशे विशेष्यत्वाभावस्य स्वरूपसम्बन्धेन साध्यतायामात्मत्वे स्वाभाववत्त्वसंसर्गीया या सा ध्याभावत्वावच्छिन्ना प्रतियोगिता तस्यास्तत्संसर्गेण साध्यात्मकेन निरूपितततया तत्सम्वन्धावच्छिन्नाधेयतारूपतयाच तदवच्छेदक. स्वाभाववत्त्वसम्वन्धन साध्याभावाधिकरणे हेतोर्वृत्तित्वात् अत्यन्ताभावनिरूपितत्वोपादाने संसर्गीयप्रतियोगितामादायोक्तदोषासम्भवेऽपि अत्यन्ताभावत्वसाध्यकतयक्तित्वे सद्धेतौ साध्याभावनिष्ठा या स्वाभाववत्वससर्गीयप्रातयोगता तामादायाव्याप्तिः । प्रतियोगित्वाधेयत्वादीनामाश्रयात्मकत्वेनैकत्वे वह्निनिष्ठसंयोगसम्ब. न्धावच्छिन्नप्रतियोगित्वकालिकसम्बन्धावच्छिन्नाधेयत्वयोरैक्येन का. लिकस्य प्रतियोगितावच्छेदकसंसर्गत्वेनाव्याप्तिश्च दु.रास्यादित्यवधेयम् अथ घटाभनपटत्वादित्यत्र साध्याभावस्यघटत्वस्व. रूपतया तवृत्तिभेदीयप्रतियोगित्वाप्रसिद्ध्याव्याप्तिः । साध्याभावस्य घटात्मकत्वे प्रतियोगित्वप्रसिद्धावपि तदवच्छेदकतादात्म्येन घटस्वात्मकसाध्याभावस्याधिकणे घटत्यत्वस्य वृत्त्याऽव्याप्तधापत्ति. घंटभिन्नं घटत्वत्वादित्यादावितिचेन धर्मिमभेदधर्मात्यन्ताभावयोरेक्यस्वीकारेण घटत्वनिष्ठप्रतियोगिताया अपि भदेनिरूपितत्वसम्भ. वात् । नच घटाभिन्नं घटत्वत्वादित्यत्राव्याप्तितादवस्थ्यमिति वाच्यम् । अत्यन्ताभावत्वनिरूपितत्वेनप्रतियोगित्वस्यविशेषणीयत्वात् । अथैवमाप घटभिन्नं कपालस्वादित्यत्रात्यन्ताभावस्वनिरूपितप्रतियोगितावच्छेदकसमवायेन घटात्मकसाध्यामावाधिकरणे कपाले कपालत्वतोवृत्तितयाऽव्यात्यापत्तिः नच साध्याभावत्वावच्छिन्ननिरूपकतायां ताशप्रतियोगिताविशिष्टत्वं स्वसामानाधिकरण्यस्वावच्छेदकसम्बन्धावच्छिन्नत्वोभयसम्बन्धेन वाच्यं तथाच घटत्वनिष्टसमवायसम्वन्धावच्छिन्नप्रतियोगिताविशिष्टत्वस्य घटनिष्ठीनरूपकतायाम्बिरहान्नाव्यप्तिः एवं साध्याभावस्य घटघटत्वोभयात्मकत्वेऽपि तादात्म्यावच्छिन्नायास्समवायावच्छिन्नाया वा घटभेदाभावत्वाव. च्छिन्ननिरूपकताया निरूपितमाधिकरणत्वं घट एव. कपालादिषुघट.